Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Anushasana Parva
युधिष्ठिर उवाच
न बिभेति कथं सा स्त्री शापस्य परमद्युतेःकथं निवृत्तो भगवांस्तद्भवान्प्रब्रवीतु मे ॥१॥
भीष्म उवाच
अष्टावक्रोऽन्वपृच्छत्तां रूपं विकुरुषे कथम्न चानृतं ते वक्तव्यं ब्रूहि ब्राह्मणकाम्यया ॥२॥
स्त्र्युवाचद्यावापृथिवीमात्रैषा काम्या ब्राह्मणसत्तमशृणुष्वावहितः सर्वं यदिदं सत्यविक्रम ॥३॥
उत्तरां मां दिशं विद्धि दृष्टं स्त्रीचापलं च तेअव्युत्थानेन ते लोका जिताः सत्यपराक्रम ॥४॥
जिज्ञासेयं प्रयुक्ता मे स्थिरीकर्तुं तवानघस्थविराणामपि स्त्रीणां बाधते मैथुनज्वरः ॥५॥
तुष्टः पितामहस्तेऽद्य तथा देवाः सवासवाःस त्वं येन च कार्येण संप्राप्तो भगवानिह ॥६॥
प्रेषितस्तेन विप्रेण कन्यापित्रा द्विजर्षभतवोपदेशं कर्तुं वै तच्च सर्वं कृतं मया ॥७॥
क्षेमी गमिष्यसि गृहाञ्श्रमश्च न भविष्यतिकन्यां प्राप्स्यसि तां विप्र पुत्रिणी च भविष्यति ॥८॥
काम्यया पृष्टवांस्त्वं मां ततो व्याहृतमुत्तरम्अनतिक्रमणीयैषा कृत्स्नैर्लोकैस्त्रिभिः सदा ॥९॥
गच्छस्व सुकृतं कृत्वा किं वान्यच्छ्रोतुमिच्छसियावद्ब्रवीमि विप्रर्षे अष्टावक्र यथातथम् ॥१०॥
ऋषिणा प्रसादिता चास्मि तव हेतोर्द्विजर्षभतस्य संमाननार्थं मे त्वयि वाक्यं प्रभाषितम् ॥११॥
श्रुत्वा तु वचनं तस्याः स विप्रः प्राञ्जलिः स्थितःअनुज्ञातस्तया चापि स्वगृहं पुनराव्रजत् ॥१२॥
गृहमागम्य विश्रान्तः स्वजनं प्रतिपूज्य चअभ्यगच्छत तं विप्रं न्यायतः कुरुनन्दन ॥१३॥
पृष्टश्च तेन विप्रेण दृष्टं त्वेतन्निदर्शनम्प्राह विप्रं तदा विप्रः सुप्रीतेनान्तरात्मना ॥१४॥
भवताहमनुज्ञातः प्रस्थितो गन्धमादनम्तस्य चोत्तरतो देशे दृष्टं तद्दैवतं महत् ॥१५॥
तया चाहमनुज्ञातो भवांश्चापि प्रकीर्तितःश्रावितश्चापि तद्वाक्यं गृहमभ्यागतः प्रभो ॥१६॥
तमुवाच ततो विप्रः प्रतिगृह्णीष्व मे सुताम्नक्षत्रतिथिसंयोगे पात्रं हि परमं भवान् ॥१७॥
भीष्म उवाच
अष्टावक्रस्तथेत्युक्त्वा प्रतिगृह्य च तां प्रभोकन्यां परमधर्मात्मा प्रीतिमांश्चाभवत्तदा ॥१८॥
कन्यां तां प्रतिगृह्यैव भार्यां परमशोभनाम्उवास मुदितस्तत्र आश्रमे स्वे गतज्वरः ॥१९॥
End of chapter ॥
1
Mahabharata · Anushasana Parva

Adhyaya 22

0
Adhyaya 22Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0