Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Anushasana Parva
युधिष्ठिर उवाच
प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च यथा भवान्गुणैः समुदितः सर्वैर्वयसा च समन्वितःतस्माद्भवन्तं पृच्छामि धर्मं धर्मभृतां वर ॥१॥
क्षत्रियो यदि वा वैश्यः शूद्रो वा राजसत्तमब्राह्मण्यं प्राप्नुयात्केन तन्मे व्याख्यातुमर्हसि ॥२॥
तपसा वा सुमहता कर्मणा वा श्रुतेन वाब्राह्मण्यमथ चेदिच्छेत्तन्मे ब्रूहि पितामह ॥३॥
भीष्म उवाच
ब्राह्मण्यं तात दुष्प्रापं वर्णैः क्षत्रादिभिस्त्रिभिःपरं हि सर्वभूतानां स्थानमेतद्युधिष्ठिर ॥४॥
बह्वीस्तु संसरन्योनीर्जायमानः पुनः पुनःपर्याये तात कस्मिंश्चिद्ब्राह्मणो नाम जायते ॥५॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्मतङ्गस्य च संवादं गर्दभ्याश्च युधिष्ठिर ॥६॥
द्विजातेः कस्यचित्तात तुल्यवर्णः सुतः प्रभुःमतङ्गो नाम नाम्नाभूत्सर्वैः समुदितो गुणैः ॥७॥
स यज्ञकारः कौन्तेय पित्रा सृष्टः परंतपप्रायाद्गर्दभयुक्तेन रथेनेहाशुगामिना ॥८॥
स बालं गर्दभं राजन्वहन्तं मातुरन्तिकेनिरविध्यत्प्रतोदेन नासिकायां पुनः पुनः ॥९॥
तं तु तीव्रव्रणं दृष्ट्वा गर्दभी पुत्रगृद्धिनीउवाच मा शुचः पुत्र चण्डालस्त्वाधितिष्ठति ॥१०॥
ब्राह्मणे दारुणं नास्ति मैत्रो ब्राह्मण उच्यतेआचार्यः सर्वभूतानां शास्ता किं प्रहरिष्यति ॥११॥
अयं तु पापप्रकृतिर्बाले न कुरुते दयाम्स्वयोनिं मानयत्येष भावो भावं निगच्छति ॥१२॥
एतच्छ्रुत्वा मतङ्गस्तु दारुणं रासभीवचःअवतीर्य रथात्तूर्णं रासभीं प्रत्यभाषत ॥१३॥
ब्रूहि रासभि कल्याणि माता मे येन दूषिताकथं मां वेत्सि चण्डालं क्षिप्रं रासभि शंस मे ॥१४॥
केन जातोऽस्मि चण्डालो ब्राह्मण्यं येन मेऽनशत्तत्त्वेनैतन्महाप्राज्ञे ब्रूहि सर्वमशेषतः ॥१५॥
गर्दभ्युवाचब्राह्मण्यां वृषलेन त्वं मत्तायां नापितेन हजातस्त्वमसि चण्डालो ब्राह्मण्यं तेन तेऽनशत् ॥१६॥
एवमुक्तो मतङ्गस्तु प्रत्युपायाद्गृहं प्रतितमागतमभिप्रेक्ष्य पिता वाक्यमथाब्रवीत् ॥१७॥
मया त्वं यज्ञसंसिद्धौ नियुक्तो गुरुकर्मणिकस्मात्प्रतिनिवृत्तोऽसि कच्चिन्न कुशलं तव ॥१८॥
मतङ्ग उवाच
अयोनिरग्र्ययोनिर्वा यः स्यात्स कुशली भवेत्कुशलं तु कुतस्तस्य यस्येयं जननी पितः ॥१९॥
ब्राह्मण्यां वृषलाज्जातं पितर्वेदयतीह माम्अमानुषी गर्दभीयं तस्मात्तप्स्ये तपो महत् ॥२०॥
एवमुक्त्वा स पितरं प्रतस्थे कृतनिश्चयःततो गत्वा महारण्यमतप्यत महत्तपः ॥२१॥
ततः संतापयामास विबुधांस्तपसान्वितःमतङ्गः सुसुखं प्रेप्सुः स्थानं सुचरितादपि ॥२२॥
तं तथा तपसा युक्तमुवाच हरिवाहनःमतङ्ग तप्यसे किं त्वं भोगानुत्सृज्य मानुषान् ॥२३॥
वरं ददानि ते हन्त वृणीष्व त्वं यदिच्छसियच्चाप्यवाप्यमन्यत्ते सर्वं प्रब्रूहि माचिरम् ॥२४॥
मतङ्ग उवाच
ब्राह्मण्यं कामयानोऽहमिदमारब्धवांस्तपःगच्छेयं तदवाप्येह वर एष वृतो मया ॥२५॥
एतच्छ्रुत्वा तु वचनं तमुवाच पुरंदरःब्राह्मण्यं प्रार्थयानस्त्वमप्राप्यमकृतात्मभिः ॥२६॥
श्रेष्ठं यत्सर्वभूतेषु तपो यन्नातिवर्ततेतदग्र्यं प्रार्थयानस्त्वमचिराद्विनशिष्यसि ॥२७॥
देवतासुरमर्त्येषु यत्पवित्रं परं स्मृतम्चण्डालयोनौ जातेन न तत्प्राप्यं कथंचन ॥२८॥
End of chapter ॥
1
Mahabharata · Anushasana Parva

Adhyaya 28

0
Adhyaya 28Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0