Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Anushasana Parva
भीष्म उवाच
एवमुक्तो मतङ्गस्तु भृशं शोकपरायणःअतिष्ठत गयां गत्वा सोऽङ्गुष्ठेन शतं समाः ॥१॥
सुदुष्करं वहन्योगं कृशो धमनिसंततःत्वगस्थिभूतो धर्मात्मा स पपातेति नः श्रुतम् ॥२॥
तं पतन्तमभिद्रुत्य परिजग्राह वासवःवराणामीश्वरो दाता सर्वभूतहिते रतः ॥३॥
शक्र उवाच
मतङ्ग ब्राह्मणत्वं ते संवृतं परिपन्थिभिःपूजयन्सुखमाप्नोति दुःखमाप्नोत्यपूजयन् ॥४॥
ब्राह्मणे सर्वभूतानां योगक्षेमः समाहितःब्राह्मणेभ्योऽनुतृप्यन्ति पितरो देवतास्तथा ॥५॥
ब्राह्मणः सर्वभूतानां मतङ्ग पर उच्यतेब्राह्मणः कुरुते तद्धि यथा यद्यच्च वाञ्छति ॥६॥
बह्वीस्तु संसरन्योनीर्जायमानः पुनः पुनःपर्याये तात कस्मिंश्चिद्ब्राह्मण्यमिह विन्दति ॥७॥
मतङ्ग उवाच
किं मां तुदसि दुःखार्तं मृतं मारयसे च माम्तं तु शोचामि यो लब्ध्वा ब्राह्मण्यं न बुभूषते ॥८॥
ब्राह्मण्यं यदि दुष्प्रापं त्रिभिर्वर्णैः शतक्रतोसुदुर्लभं तदावाप्य नानुतिष्ठन्ति मानवाः ॥९॥
यः पापेभ्यः पापतमस्तेषामधम एव सःब्राह्मण्यं योऽवजानीते धनं लब्ध्वेव दुर्लभम् ॥१०॥
दुष्प्रापं खलु विप्रत्वं प्राप्तं दुरनुपालनम्दुरवापमवाप्यैतन्नानुतिष्ठन्ति मानवाः ॥११॥
एकारामो ह्यहं शक्र निर्द्वंद्वो निष्परिग्रहःअहिंसादमदानस्थः कथं नार्हामि विप्रताम् ॥१२॥
यथाकामविहारी स्यां कामरूपी विहंगमःब्रह्मक्षत्राविरोधेन पूजां च प्राप्नुयामहम्यथा ममाक्षया कीर्तिर्भवेच्चापि पुरंदर ॥१३॥
इन्द्र उवाच
छन्दोदेव इति ख्यातः स्त्रीणां पूज्यो भविष्यसि ॥१४॥
भीष्म उवाच
एवं तस्मै वरं दत्त्वा वासवोऽन्तरधीयतप्राणांस्त्यक्त्वा मतङ्गोऽपि प्राप तत्स्थानमुत्तमम् ॥१५॥
एवमेतत्परं स्थानं ब्राह्मण्यं नाम भारततच्च दुष्प्रापमिह वै महेन्द्रवचनं यथा ॥१६॥
End of chapter ॥
1
Mahabharata · Anushasana Parva

Adhyaya 30

0
Adhyaya 30Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0