Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Anushasana Parva
युधिष्ठिर उवाच
के पूज्याः के नमस्कार्या मानवैर्भरतर्षभविस्तरेण तदाचक्ष्व न हि तृप्यामि कथ्यताम् ॥१॥
भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्नारदस्य च संवादं वासुदेवस्य चोभयोः ॥२॥
नारदं प्राञ्जलिं दृष्ट्वा पूजयानं द्विजर्षभान्केशवः परिपप्रच्छ भगवन्कान्नमस्यसि ॥३॥
बहुमानः परः केषु भवतो यान्नमस्यसिशक्यं चेच्छ्रोतुमिच्छामि ब्रूह्येतद्धर्मवित्तम ॥४॥
नारद उवाच
शृणु गोविन्द यानेतान्पूजयाम्यरिमर्दनत्वत्तोऽन्यः कः पुमाँल्लोके श्रोतुमेतदिहार्हति ॥५॥
वरुणं वायुमादित्यं पर्जन्यं जातवेदसम्स्थाणुं स्कन्दं तथा लक्ष्मीं विष्णुं ब्रह्माणमेव च ॥६॥
वाचस्पतिं चन्द्रमसमपः पृथ्वीं सरस्वतीम्सततं ये नमस्यन्ति तान्नमस्याम्यहं विभो ॥७॥
तपोधनान्वेदविदो नित्यं वेदपरायणान्महार्हान्वृष्णिशार्दूल सदा संपूजयाम्यहम् ॥८॥
अभुक्त्वा देवकार्याणि कुर्वते येऽविकत्थनाःसंतुष्टाश्च क्षमायुक्तास्तान्नमस्याम्यहं विभो ॥९॥
सम्यग्ददति ये चेष्टान्क्षान्ता दान्ता जितेन्द्रियाःसस्यं धनं क्षितिं गाश्च तान्नमस्यामि यादव ॥१०॥
ये ते तपसि वर्तन्ते वने मूलफलाशनाःअसंचयाः क्रियावन्तस्तान्नमस्यामि यादव ॥११॥
ये भृत्यभरणे सक्ताः सततं चातिथिप्रियाःभुञ्जन्ते देवशेषाणि तान्नमस्यामि यादव ॥१२॥
ये वेदं प्राप्य दुर्धर्षा वाग्मिनो ब्रह्मवादिनःयाजनाध्यापने युक्ता नित्यं तान्पूजयाम्यहम् ॥१३॥
प्रसन्नहृदयाश्चैव सर्वसत्त्वेषु नित्यशःआ पृष्ठतापात्स्वाध्याये युक्तास्तान्पूजयाम्यहम् ॥१४॥
गुरुप्रसादे स्वाध्याये यतन्ते ये स्थिरव्रताःशुश्रूषवोऽनसूयन्तस्तान्नमस्यामि यादव ॥१५॥
सुव्रता मुनयो ये च ब्रह्मण्याः सत्यसंगराःवोढारो हव्यकव्यानां तान्नमस्यामि यादव ॥१६॥
भैक्ष्यचर्यासु निरताः कृशा गुरुकुलाश्रयाःनिःसुखा निर्धना ये च तान्नमस्यामि यादव ॥१७॥
निर्ममा निष्प्रतिद्वंद्वा निर्ह्रीका निष्प्रयोजनाःअहिंसानिरता ये च ये च सत्यव्रता नराःदान्ताः शमपराश्चैव तान्नमस्यामि केशव ॥१८॥
देवतातिथिपूजायां प्रसक्ता गृहमेधिनःकपोतवृत्तयो नित्यं तान्नमस्यामि यादव ॥१९॥
येषां त्रिवर्गः कृत्येषु वर्तते नोपहीयतेशिष्टाचारप्रवृत्ताश्च तान्नमस्याम्यहं सदा ॥२०॥
ब्राह्मणास्त्रिषु लोकेषु ये त्रिवर्गमनुष्ठिताःअलोलुपाः पुण्यशीलास्तान्नमस्यामि केशव ॥२१॥
अब्भक्षा वायुभक्षाश्च सुधाभक्षाश्च ये सदाव्रतैश्च विविधैर्युक्तास्तान्नमस्यामि माधव ॥२२॥
अयोनीनग्नियोनींश्च ब्रह्मयोनींस्तथैव चसर्वभूतात्मयोनींश्च तान्नमस्याम्यहं द्विजान् ॥२३॥
नित्यमेतान्नमस्यामि कृष्ण लोककरानृषीन्लोकज्येष्ठाञ्ज्ञाननिष्ठांस्तमोघ्नाँल्लोकभास्करान् ॥२४॥
तस्मात्त्वमपि वार्ष्णेय द्विजान्पूजय नित्यदापूजिताः पूजनार्हा हि सुखं दास्यन्ति तेऽनघ ॥२५॥
अस्मिँल्लोके सदा ह्येते परत्र च सुखप्रदाःत एते मान्यमाना वै प्रदास्यन्ति सुखं तव ॥२६॥
ये सर्वातिथयो नित्यं गोषु च ब्राह्मणेषु चनित्यं सत्ये च निरता दुर्गाण्यतितरन्ति ते ॥२७॥
नित्यं शमपरा ये च तथा ये चानसूयकाःनित्यं स्वाध्यायिनो ये च दुर्गाण्यतितरन्ति ते ॥२८॥
सर्वान्देवान्नमस्यन्ति ये चैकं देवमाश्रिताःश्रद्दधानाश्च दान्ताश्च दुर्गाण्यतितरन्ति ते ॥२९॥
तथैव विप्रप्रवरान्नमस्कृत्य यतव्रतान्भवन्ति ये दानरता दुर्गाण्यतितरन्ति ते ॥३०॥
अग्नीनाधाय विधिवत्प्रयता धारयन्ति येप्राप्ताः सोमाहुतिं चैव दुर्गाण्यतितरन्ति ते ॥३१॥
मातापित्रोर्गुरुषु च सम्यग्वर्तन्ति ये सदायथा त्वं वृष्णिशार्दूलेत्युक्त्वैवं विरराम सः ॥३२॥
तस्मात्त्वमपि कौन्तेय पितृदेवद्विजातिथीन्सम्यक्पूजय येन त्वं गतिमिष्टामवाप्स्यसि ॥३३॥
End of chapter ॥
1
Mahabharata · Anushasana Parva

Adhyaya 32

0
Adhyaya 32Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0