Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Anushasana Parva
भीष्म उवाच
जन्मनैव महाभागो ब्राह्मणो नाम जायतेनमस्यः सर्वभूतानामतिथिः प्रसृताग्रभुक् ॥१॥
सर्वान्नः सुहृदस्तात ब्राह्मणाः सुमनोमुखाःगीर्भिर्मङ्गलयुक्ताभिरनुध्यायन्ति पूजिताः ॥२॥
सर्वान्नो द्विषतस्तात ब्राह्मणा जातमन्यवःगीर्भिर्दारुणयुक्ताभिरभिहन्युरपूजिताः ॥३॥
अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदःसृष्ट्वा द्विजातीन्धाता हि यथापूर्वं समादधत् ॥४॥
न वोऽन्यदिह कर्तव्यं किंचिदूर्ध्वं यथाविधिगुप्ता गोपायत ब्रह्म श्रेयो वस्तेन शोभनम् ॥५॥
स्वमेव कुर्वतां कर्म श्रीर्वो ब्राह्मी भविष्यतिप्रमाणं सर्वभूतानां प्रग्रहं च गमिष्यथ ॥६॥
न शौद्रं कर्म कर्तव्यं ब्राह्मणेन विपश्चिताशौद्रं हि कुर्वतः कर्म धर्मः समुपरुध्यते ॥७॥
श्रीश्च बुद्धिश्च तेजश्च विभूतिश्च प्रतापिनीस्वाध्यायेनैव माहात्म्यं विमलं प्रतिपत्स्यथ ॥८॥
हुत्वा चाहवनीयस्थं महाभाग्ये प्रतिष्ठिताःअग्रभोज्याः प्रसूतीनां श्रिया ब्राह्म्यानुकल्पिताः ॥९॥
श्रद्धया परया युक्ता ह्यनभिद्रोहलब्धयादमस्वाध्यायनिरताः सर्वान्कामानवाप्स्यथ ॥१०॥
यच्चैव मानुषे लोके यच्च देवेषु किंचनसर्वं तत्तपसा साध्यं ज्ञानेन विनयेन च ॥११॥
इत्येता ब्रह्मगीतास्ते समाख्याता मयानघविप्रानुकम्पार्थमिदं तेन प्रोक्तं हि धीमता ॥१२॥
भूयस्तेषां बलं मन्ये यथा राज्ञस्तपस्विनःदुरासदाश्च चण्डाश्च रभसाः क्षिप्रकारिणः ॥१३॥
सन्त्येषां सिंहसत्त्वाश्च व्याघ्रसत्त्वास्तथापरेवराहमृगसत्त्वाश्च गजसत्त्वास्तथापरे ॥१४॥
कर्पासमृदवः केचित्तथान्ये मकरस्पृशःविभाष्यघातिनः केचित्तथा चक्षुर्हणोऽपरे ॥१५॥
सन्ति चाशीविषनिभाः सन्ति मन्दास्तथापरेविविधानीह वृत्तानि ब्राह्मणानां युधिष्ठिर ॥१६॥
मेकला द्रमिडाः काशाः पौण्ड्राः कोल्लगिरास्तथाशौण्डिका दरदा दर्वाश्चौराः शबरबर्बराः ॥१७॥
किराता यवनाश्चैव तास्ताः क्षत्रियजातयःवृषलत्वमनुप्राप्ता ब्राह्मणानामदर्शनात् ॥१८॥
ब्राह्मणानां परिभवादसुराः सलिलेशयाःब्राह्मणानां प्रसादाच्च देवाः स्वर्गनिवासिनः ॥१९॥
अशक्यं स्प्रष्टुमाकाशमचाल्यो हिमवान्गिरिःअवार्या सेतुना गङ्गा दुर्जया ब्राह्मणा भुवि ॥२०॥
न ब्राह्मणविरोधेन शक्या शास्तुं वसुंधराब्राह्मणा हि महात्मानो देवानामपि देवताः ॥२१॥
तान्पूजयस्व सततं दानेन परिचर्ययायदीच्छसि महीं भोक्तुमिमां सागरमेखलाम् ॥२२॥
प्रतिग्रहेण तेजो हि विप्राणां शाम्यतेऽनघप्रतिग्रहं ये नेच्छेयुस्तेऽपि रक्ष्यास्त्वयानघ ॥२३॥
End of chapter ॥
1
Mahabharata · Anushasana Parva

Adhyaya 35

0
Adhyaya 35Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0