महाभारत, पुस्तक रूप में
॥ ॐ ॥यदि आपको इस मंच का अनुभव अच्छा लगा हो…॥ दान ॥तो कृपया दान करेंइससे ये ग्रंथ सबके लिए खुले और निःशुल्क रहते हैं।दान करेंमहाभारत · अनुशासन पर्व
॥ श्रीः ॥
अध्याय 37
महाभारत · अनुशासन पर्व
युधिष्ठिर उवाच
अपूर्वं वा भवेत्पात्रमथ वापि चिरोषितम्दूरादभ्यागतं वापि किं पात्रं स्यात्पितामह ॥१॥
भीष्म उवाच
क्रिया भवति केषांचिदुपांशुव्रतमुत्तमम्यो यो याचेत यत्किंचित्सर्वं दद्याम इत्युत ॥२॥
अपीडयन्भृत्यवर्गमित्येवमनुशुश्रुमपीडयन्भृत्यवर्गं हि आत्मानमपकर्षति ॥३॥
अपूर्वं वापि यत्पात्रं यच्चापि स्याच्चिरोषितम्दूरादभ्यागतं चापि तत्पात्रं च विदुर्बुधाः ॥४॥
युधिष्ठिर उवाच
अपीडया च भृत्यानां धर्मस्याहिंसया तथापात्रं विद्याम तत्त्वेन यस्मै दत्तं न संतपेत् ॥५॥
भीष्म उवाच
ऋत्विक्पुरोहिताचार्याः शिष्याः संबन्धिबान्धवाःसर्वे पूज्याश्च मान्याश्च श्रुतवृत्तोपसंहिताः ॥६॥
अतोऽन्यथा वर्तमानाः सर्वे नार्हन्ति सत्क्रियाम्तस्मान्नित्यं परीक्षेत पुरुषान्प्रणिधाय वै ॥७॥
अक्रोधः सत्यवचनमहिंसा दम आर्जवम्अद्रोहो नातिमानश्च ह्रीस्तितिक्षा तपः शमः ॥८॥
यस्मिन्नेतानि दृश्यन्ते न चाकार्याणि भारतभावतो विनिविष्टानि तत्पात्रं मानमर्हति ॥९॥
तथा चिरोषितं चापि संप्रत्यागतमेव चअपूर्वं चैव पूर्वं च तत्पात्रं मानमर्हति ॥१०॥
अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम्सर्वत्र चानवस्थानमेतन्नाशनमात्मनः ॥११॥
भवेत्पण्डितमानी यो ब्राह्मणो वेदनिन्दकःआन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकाम् ॥१२॥
हेतुवादान्ब्रुवन्सत्सु विजेताहेतुवादिकःआक्रोष्टा चातिवक्ता च ब्राह्मणानां सदैव हि ॥१३॥
सर्वाभिशङ्की मूढश्च बालः कटुकवागपिबोद्धव्यस्तादृशस्तात नरश्वानं हि तं विदुः ॥१४॥
यथा श्वा भषितुं चैव हन्तुं चैवावसृज्यतेएवं संभाषणार्थाय सर्वशास्त्रवधाय चअल्पश्रुताः कुतर्काश्च दृष्टाः स्पृष्टाः कुपण्डिताः ॥१५॥
श्रुतिस्मृतीतिहासादिपुराणारण्यवेदिनःअनुरुन्ध्याद्बहुज्ञांश्च सारज्ञांश्चैव पण्डितान् ॥१६॥
लोकयात्रा च द्रष्टव्या धर्मश्चात्महितानि चएवं नरो वर्तमानः शाश्वतीरेधते समाः ॥१७॥
ऋणमुन्मुच्य देवानामृषीणां च तथैव चपितॄणामथ विप्राणामतिथीनां च पञ्चमम् ॥१८॥
पर्यायेण विशुद्धेन सुनिर्णिक्तेन कर्मणाएवं गृहस्थः कर्माणि कुर्वन्धर्मान्न हीयते ॥१९॥
अध्याय समाप्त ॥
१

0
पृष्ठ पलटने के लिए कोना खींचें, स्वाइप करें या तीर कुंजियाँ दबाएँ
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0