Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Anushasana Parva
भीष्म उवाच
एवमेतन्महाबाहो नात्र मिथ्यास्ति किंचनयथा ब्रवीषि कौरव्य नारीं प्रति जनाधिप ॥१॥
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम्यथा रक्षा कृता पूर्वं विपुलेन महात्मना ॥२॥
प्रमदाश्च यथा सृष्टा ब्रह्मणा भरतर्षभयदर्थं तच्च ते तात प्रवक्ष्ये वसुधाधिप ॥३॥
न हि स्त्रीभ्य परं पुत्र पापीयः किंचिदस्ति वैअग्निर्हि प्रमदा दीप्तो मायाश्च मयजा विभोक्षुरधारा विषं सर्पो मृत्युरित्येकतः स्त्रियः ॥४॥
इमाः प्रजा महाबाहो धार्मिका इति नः श्रुतम्स्वयं गच्छन्ति देवत्वं ततो देवानियाद्भयम् ॥५॥
अथाभ्यगच्छन्देवास्ते पितामहमरिंदमनिवेद्य मानसं चापि तूष्णीमासन्नवाङ्मुखाः ॥६॥
तेषामन्तर्गतं ज्ञात्वा देवानां स पितामहःमानवानां प्रमोहार्थं कृत्या नार्योऽसृजत्प्रभुः ॥७॥
पूर्वसर्गे तु कौन्तेय साध्व्यो नार्य इहाभवन्असाध्व्यस्तु समुत्पन्ना कृत्या सर्गात्प्रजापतेः ॥८॥
ताभ्यः कामान्यथाकामं प्रादाद्धि स पितामहःताः कामलुब्धाः प्रमदाः प्रामथ्नन्त नरांस्तदा ॥९॥
क्रोधं कामस्य देवेशः सहायं चासृजत्प्रभुःअसज्जन्त प्रजाः सर्वाः कामक्रोधवशं गताः ॥१०॥
न च स्त्रीणां क्रिया काचिदिति धर्मो व्यवस्थितःनिरिन्द्रिया अमन्त्राश्च स्त्रियोऽनृतमिति श्रुतिः ॥११॥
शय्यासनमलंकारमन्नपानमनार्यताम्दुर्वाग्भावं रतिं चैव ददौ स्त्रीभ्यः प्रजापतिः ॥१२॥
न तासां रक्षणं कर्तुं शक्यं पुंसा कथंचनअपि विश्वकृता तात कुतस्तु पुरुषैरिह ॥१३॥
वाचा वा वधबन्धैर्वा क्लेशैर्वा विविधैस्तथान शक्या रक्षितुं नार्यस्ता हि नित्यमसंयताः ॥१४॥
इदं तु पुरुषव्याघ्र पुरस्ताच्छ्रुतवानहम्यथा रक्षा कृता पूर्वं विपुलेन गुरुस्त्रियः ॥१५॥
ऋषिरासीन्महाभागो देवशर्मेति विश्रुतःतस्य भार्या रुचिर्नाम रूपेणासदृशी भुवि ॥१६॥
तस्य रूपेण संमत्ता देवगन्धर्वदानवाःविशेषतस्तु राजेन्द्र वृत्रहा पाकशासनः ॥१७॥
नारीणां चरितज्ञश्च देवशर्मा महामुनिःयथाशक्ति यथोत्साहं भार्यां तामभ्यरक्षत ॥१८॥
पुरंदरं च जानीते परस्त्रीकामचारिणम्तस्माद्यत्नेन भार्याया रक्षणं स चकार ह ॥१९॥
स कदाचिदृषिस्तात यज्ञं कर्तुमनास्तदाभार्यासंरक्षणं कार्यं कथं स्यादित्यचिन्तयत् ॥२०॥
रक्षाविधानं मनसा स विचिन्त्य महातपाःआहूय दयितं शिष्यं विपुलं प्राह भार्गवम् ॥२१॥
यज्ञकारो गमिष्यामि रुचिं चेमां सुरेश्वरःपुत्र प्रार्थयते नित्यं तां रक्षस्व यथाबलम् ॥२२॥
अप्रमत्तेन ते भाव्यं सदा प्रति पुरंदरम्स हि रूपाणि कुरुते विविधानि भृगूद्वह ॥२३॥
इत्युक्तो विपुलस्तेन तपस्वी नियतेन्द्रियःसदैवोग्रतपा राजन्नग्न्यर्कसदृशद्युतिः ॥२४॥
धर्मज्ञः सत्यवादी च तथेति प्रत्यभाषतपुनश्चेदं महाराज पप्रच्छ प्रस्थितं गुरुम् ॥२५॥
कानि रूपाणि शक्रस्य भवन्त्यागच्छतो मुनेवपुस्तेजश्च कीदृग्वै तन्मे व्याख्यातुमर्हसि ॥२६॥
ततः स भगवांस्तस्मै विपुलाय महात्मनेआचचक्षे यथातत्त्वं मायां शक्रस्य भारत ॥२७॥
बहुमायः स विप्रर्षे बलहा पाकशासनःतांस्तान्विकुरुते भावान्बहूनथ मुहुर्मुहुः ॥२८॥
किरीटी वज्रभृद्धन्वी मुकुटी बद्धकुण्डलःभवत्यथ मुहूर्तेन चण्डालसमदर्शनः ॥२९॥
शिखी जटी चीरवासाः पुनर्भवति पुत्रकबृहच्छरीरश्च पुनः पीवरोऽथ पुनः कृशः ॥३०॥
गौरं श्यामं च कृष्णं च वर्णं विकुरुते पुनःविरूपो रूपवांश्चैव युवा वृद्धस्तथैव च ॥३१॥
प्राज्ञो जडश्च मूकश्च ह्रस्वो दीर्घस्तथैव चब्राह्मणः क्षत्रियश्चैव वैश्यः शूद्रस्तथैव चप्रतिलोमानुलोमश्च भवत्यथ शतक्रतुः ॥३२॥
शुकवायसरूपी च हंसकोकिलरूपवान्सिंहव्याघ्रगजानां च रूपं धारयते पुनः ॥३३॥
दैवं दैत्यमथो राज्ञां वपुर्धारयतेऽपि चसुकृशो वायुभग्नाङ्गः शकुनिर्विकृतस्तथा ॥३४॥
चतुष्पाद्बहुरूपश्च पुनर्भवति बालिशःमक्षिकामशकादीनां वपुर्धारयतेऽपि च ॥३५॥
न शक्यमस्य ग्रहणं कर्तुं विपुल केनचित्अपि विश्वकृता तात येन सृष्टमिदं जगत् ॥३६॥
पुनरन्तर्हितः शक्रो दृश्यते ज्ञानचक्षुषावायुभूतश्च स पुनर्देवराजो भवत्युत ॥३७॥
एवं रूपाणि सततं कुरुते पाकशासनःतस्माद्विपुल यत्नेन रक्षेमां तनुमध्यमाम् ॥३८॥
यथा रुचिं नावलिहेद्देवेन्द्रो भृगुसत्तमक्रतावुपहितं न्यस्तं हविः श्वेव दुरात्मवान् ॥३९॥
एवमाख्याय स मुनिर्यज्ञकारोऽगमत्तदादेवशर्मा महाभागस्ततो भरतसत्तम ॥४०॥
विपुलस्तु वचः श्रुत्वा गुरोश्चिन्तापरोऽभवत्रक्षां च परमां चक्रे देवराजान्महाबलात् ॥४१॥
किं नु शक्यं मया कर्तुं गुरुदाराभिरक्षणेमायावी हि सुरेन्द्रोऽसौ दुर्धर्षश्चापि वीर्यवान् ॥४२॥
नापिधायाश्रमं शक्यो रक्षितुं पाकशासनःउटजं वा तथा ह्यस्य नानाविधसरूपता ॥४३॥
वायुरूपेण वा शक्रो गुरुपत्नीं प्रधर्षयेत्तस्मादिमां संप्रविश्य रुचिं स्थास्येऽहमद्य वै ॥४४॥
अथ वा पौरुषेणेयमशक्या रक्षितुं मयाबहुरूपो हि भगवाञ्छ्रूयते हरिवाहनः ॥४५॥
सोऽहं योगबलादेनां रक्षिष्ये पाकशासनात्गात्राणि गात्रैरस्याहं संप्रवेक्ष्येऽभिरक्षितुम् ॥४६॥
यद्युच्छिष्टामिमां पत्नीं रुचिं पश्येत मे गुरुःशप्स्यत्यसंशयं कोपाद्दिव्यज्ञानो महातपाः ॥४७॥
न चेयं रक्षितुं शक्या यथान्या प्रमदा नृभिःमायावी हि सुरेन्द्रोऽसावहो प्राप्तोऽस्मि संशयम् ॥४८॥
अवश्यकरणीयं हि गुरोरिह हि शासनम्यदि त्वेतदहं कुर्यामाश्चर्यं स्यात्कृतं मया ॥४९॥
योगेनानुप्रविश्येह गुरुपत्न्याः कलेवरम्निर्मुक्तस्य रजोरूपान्नापराधो भवेन्मम ॥५०॥
यथा हि शून्यां पथिकः सभामध्यावसेत्पथितथाद्यावासयिष्यामि गुरुपत्न्याः कलेवरम् ॥५१॥
असक्तः पद्मपत्रस्थो जलबिन्दुर्यथा चलःएवमेव शरीरेऽस्या निवत्स्यामि समाहितः ॥५२॥
इत्येवं धर्ममालोक्य वेदवेदांश्च सर्वशःतपश्च विपुलं दृष्ट्वा गुरोरात्मन एव च ॥५३॥
इति निश्चित्य मनसा रक्षां प्रति स भार्गवःआतिष्ठत्परमं यत्नं यथा तच्छृणु पार्थिव ॥५४॥
गुरुपत्नीमुपासीनो विपुलः स महातपाःउपासीनामनिन्द्याङ्गीं कथाभिः समलोभयत् ॥५५॥
नेत्राभ्यां नेत्रयोरस्या रश्मीन्संयोज्य रश्मिभिःविवेश विपुलः कायमाकाशं पवनो यथा ॥५६॥
लक्षणं लक्षणेनैव वदनं वदनेन चअविचेष्टन्नतिष्ठद्वै छायेवान्तर्गतो मुनिः ॥५७॥
ततो विष्टभ्य विपुलो गुरुपत्न्याः कलेवरम्उवास रक्षणे युक्तो न च सा तमबुध्यत ॥५८॥
यं कालं नागतो राजन्गुरुस्तस्य महात्मनःक्रतुं समाप्य स्वगृहं तं कालं सोऽभ्यरक्षत ॥५९॥
End of chapter ॥
1
Mahabharata · Anushasana Parva

Adhyaya 40

0
Adhyaya 40Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0