Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Anushasana Parva
भीष्म उवाच
ततः कदाचिद्देवेन्द्रो दिव्यरूपवपुर्धरःइदमन्तरमित्येवं ततोऽभ्यागादथाश्रमम् ॥१॥
रूपमप्रतिमं कृत्वा लोभनीयं जनाधिपदर्शनीयतमो भूत्वा प्रविवेश तमाश्रमम् ॥२॥
स ददर्श तमासीनं विपुलस्य कलेवरम्निश्चेष्टं स्तब्धनयनं यथालेख्यगतं तथा ॥३॥
रुचिं च रुचिरापाङ्गीं पीनश्रोणिपयोधराम्पद्मपत्रविशालाक्षीं संपूर्णेन्दुनिभाननाम् ॥४॥
सा तमालोक्य सहसा प्रत्युत्थातुमियेष हरूपेण विस्मिता कोऽसीत्यथ वक्तुमिहेच्छती ॥५॥
उत्थातुकामापि सती व्यतिष्ठद्विपुलेन सानिगृहीता मनुष्येन्द्र न शशाक विचेष्टितुम् ॥६॥
तामाबभाषे देवेन्द्रः साम्ना परमवल्गुनात्वदर्थमागतं विद्धि देवेन्द्रं मां शुचिस्मिते ॥७॥
क्लिश्यमानमनङ्गेन त्वत्संकल्पोद्भवेन वैतत्पर्याप्नुहि मां सुभ्रु पुरा कालोऽतिवर्तते ॥८॥
तमेवंवादिनं शक्रं शुश्राव विपुलो मुनिःगुरुपत्न्याः शरीरस्थो ददर्श च सुराधिपम् ॥९॥
न शशाक च सा राजन्प्रत्युत्थातुमनिन्दितावक्तुं च नाशकद्राजन्विष्टब्धा विपुलेन सा ॥१०॥
आकारं गुरुपत्न्यास्तु विज्ञाय स भृगूद्वहःनिजग्राह महातेजा योगेन बलवत्प्रभोबबन्ध योगबन्धैश्च तस्याः सर्वेन्द्रियाणि सः ॥११॥
तां निर्विकारां दृष्ट्वा तु पुनरेव शचीपतिःउवाच व्रीडितो राजंस्तां योगबलमोहिताम् ॥१२॥
एह्येहीति ततः सा तं प्रतिवक्तुमियेष चस तां वाचं गुरोः पत्न्या विपुलः पर्यवर्तयत् ॥१३॥
भोः किमागमने कृत्यमिति तस्याश्च निःसृतावक्त्राच्छशाङ्कप्रतिमाद्वाणी संस्कारभूषिता ॥१४॥
व्रीडिता सा तु तद्वाक्यमुक्त्वा परवशा तदापुरंदरश्च संत्रस्तो बभूव विमनास्तदा ॥१५॥
स तद्वैकृतमालक्ष्य देवराजो विशां पतेअवैक्षत सहस्राक्षस्तदा दिव्येन चक्षुषा ॥१६॥
ददर्श च मुनिं तस्याः शरीरान्तरगोचरम्प्रतिबिम्बमिवादर्शे गुरुपत्न्याः शरीरगम् ॥१७॥
स तं घोरेण तपसा युक्तं दृष्ट्वा पुरंदरःप्रावेपत सुसंत्रस्तः शापभीतस्तदा विभो ॥१८॥
विमुच्य गुरुपत्नीं तु विपुलः सुमहातपाःस्वं कलेवरमाविश्य शक्रं भीतमथाब्रवीत् ॥१९॥
अजितेन्द्रिय पापात्मन्कामात्मक पुरंदरन चिरं पूजयिष्यन्ति देवास्त्वां मानुषास्तथा ॥२०॥
किं नु तद्विस्मृतं शक्र न तन्मनसि ते स्थितम्गौतमेनासि यन्मुक्तो भगाङ्कपरिचिह्नितः ॥२१॥
जाने त्वां बालिशमतिमकृतात्मानमस्थिरम्मयेयं रक्ष्यते मूढ गच्छ पाप यथागतम् ॥२२॥
नाहं त्वामद्य मूढात्मन्दहेयं हि स्वतेजसाकृपायमाणस्तु न ते दग्धुमिच्छामि वासव ॥२३॥
स च घोरतपा धीमान्गुरुर्मे पापचेतसम्दृष्ट्वा त्वां निर्दहेदद्य क्रोधदीप्तेन चक्षुषा ॥२४॥
नैवं तु शक्र कर्तव्यं पुनर्मान्याश्च ते द्विजाःमा गमः ससुतामात्योऽत्ययं ब्रह्मबलार्दितः ॥२५॥
अमरोऽस्मीति यद्बुद्धिमेतामास्थाय वर्तसेमावमंस्था न तपसामसाध्यं नाम किंचन ॥२६॥
तच्छ्रुत्वा वचनं शक्रो विपुलस्य महात्मनःअकिंचिदुक्त्वा व्रीडितस्तत्रैवान्तरधीयत ॥२७॥
मुहूर्तयाते शक्रे तु देवशर्मा महातपाःकृत्वा यज्ञं यथाकाममाजगाम स्वमाश्रमम् ॥२८॥
आगतेऽथ गुरौ राजन्विपुलः प्रियकर्मकृत्रक्षितां गुरवे भार्यां न्यवेदयदनिन्दिताम् ॥२९॥
अभिवाद्य च शान्तात्मा स गुरुं गुरुवत्सलःविपुलः पर्युपातिष्ठद्यथापूर्वमशङ्कितः ॥३०॥
विश्रान्ताय ततस्तस्मै सहासीनाय भार्ययानिवेदयामास तदा विपुलः शक्रकर्म तत् ॥३१॥
तच्छ्रुत्वा स मुनिस्तुष्टो विपुलस्य प्रतापवान्बभूव शीलवृत्ताभ्यां तपसा नियमेन च ॥३२॥
विपुलस्य गुरौ वृत्तिं भक्तिमात्मनि च प्रभुःधर्मे च स्थिरतां दृष्ट्वा साधु साध्वित्युवाच ह ॥३३॥
प्रतिनन्द्य च धर्मात्मा शिष्यं धर्मपरायणम्वरेण च्छन्दयामास स तस्माद्गुरुवत्सलःअनुज्ञातश्च गुरुणा चचारानुत्तमं तपः ॥३४॥
तथैव देवशर्मापि सभार्यः स महातपाःनिर्भयो बलवृत्रघ्नाच्चचार विजने वने ॥३५॥
End of chapter ॥
1
Mahabharata · Anushasana Parva

Adhyaya 41

0
Adhyaya 41Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0