Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Anushasana Parva
युधिष्ठिर उवाच
यन्मूलं सर्वधर्माणां प्रजनस्य गृहस्य चपितृदेवातिथीनां च तन्मे ब्रूहि पितामह ॥१॥
भीष्म उवाच
अयं हि सर्वधर्माणां धर्मश्चिन्त्यतमो मतःकीदृशाय प्रदेया स्यात्कन्येति वसुधाधिप ॥२॥
शीलवृत्ते समाज्ञाय विद्यां योनिं च कर्म चअद्भिरेव प्रदातव्या कन्या गुणवते वरेब्राह्मणानां सतामेष धर्मो नित्यं युधिष्ठिर ॥३॥
आवाह्यमावहेदेवं यो दद्यादनुकूलतःशिष्टानां क्षत्रियाणां च धर्म एष सनातनः ॥४॥
आत्माभिप्रेतमुत्सृज्य कन्याभिप्रेत एव यःअभिप्रेता च या यस्य तस्मै देया युधिष्ठिरगान्धर्वमिति तं धर्मं प्राहुर्धर्मविदो जनाः ॥५॥
धनेन बहुना क्रीत्वा संप्रलोभ्य च बान्धवान्असुराणां नृपैतं वै धर्ममाहुर्मनीषिणः ॥६॥
हत्वा छित्त्वा च शीर्षाणि रुदतां रुदतीं गृहात्प्रसह्य हरणं तात राक्षसं धर्मलक्षणम् ॥७॥
पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ युधिष्ठिरपैशाच आसुरश्चैव न कर्तव्यौ कथंचन ॥८॥
ब्राह्मः क्षात्रोऽथ गान्धर्व एते धर्म्या नरर्षभपृथग्वा यदि वा मिश्राः कर्तव्या नात्र संशयः ॥९॥
तिस्रो भार्या ब्राह्मणस्य द्वे भार्ये क्षत्रियस्य तुवैश्यः स्वजातिं विन्देत तास्वपत्यं समं भवेत् ॥१०॥
ब्राह्मणी तु भवेज्ज्येष्ठा क्षत्रिया क्षत्रियस्य तुरत्यर्थमपि शूद्रा स्यान्नेत्याहुरपरे जनाः ॥११॥
अपत्यजन्म शूद्रायां न प्रशंसन्ति साधवःशूद्रायां जनयन्विप्रः प्रायश्चित्ती विधीयते ॥१२॥
त्रिंशद्वर्षो दशवर्षां भार्यां विन्देत नग्निकाम्एकविंशतिवर्षो वा सप्तवर्षामवाप्नुयात् ॥१३॥
यस्यास्तु न भवेद्भ्राता पिता वा भरतर्षभनोपयच्छेत तां जातु पुत्रिकाधर्मिणी हि सा ॥१४॥
त्रीणि वर्षाण्युदीक्षेत कन्या ऋतुमती सतीचतुर्थे त्वथ संप्राप्ते स्वयं भर्तारमर्जयेत् ॥१५॥
प्रजनो हीयते तस्या रतिश्च भरतर्षभअतोऽन्यथा वर्तमाना भवेद्वाच्या प्रजापतेः ॥१६॥
असपिण्डा च या मातुरसगोत्रा च या पितुःइत्येतामनुगच्छेत तं धर्मं मनुरब्रवीत् ॥१७॥
युधिष्ठिर उवाच
शुल्कमन्येन दत्तं स्याद्ददानीत्याह चापरःबलादन्यः प्रभाषेत धनमन्यः प्रदर्शयेत् ॥१८॥
पाणिग्रहीता त्वन्यः स्यात्कस्य कन्या पितामहतत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् ॥१९॥
भीष्म उवाच
यत्किंचित्कर्म मानुष्यं संस्थानाय प्रकृष्यतेमन्त्रवन्मन्त्रितं तस्य मृषावादस्तु पातकः ॥२०॥
भार्यापत्यृत्विगाचार्याः शिष्योपाध्याय एव चमृषोक्ते दण्डमर्हन्ति नेत्याहुरपरे जनाः ॥२१॥
न ह्यकामेन संवादं मनुरेवं प्रशंसतिअयशस्यमधर्म्यं च यन्मृषा धर्मकोपनम् ॥२२॥
नैकान्तदोष एकस्मिंस्तद्दानं नोपलभ्यतेधर्मतो यां प्रयच्छन्ति यां च क्रीणन्ति भारत ॥२३॥
बन्धुभिः समनुज्ञातो मन्त्रहोमौ प्रयोजयेत्तथा सिध्यन्ति ते मन्त्रा नादत्तायाः कथंचन ॥२४॥
यस्त्वत्र मन्त्रसमयो भार्यापत्योर्मिथः कृतःतमेवाहुर्गरीयांसं यश्चासौ ज्ञातिभिः कृतः ॥२५॥
देवदत्तां पतिर्भार्यां वेत्ति धर्मस्य शासनात्सा दैवीं मानुषीं वाचमनृतां पर्युदस्यति ॥२६॥
युधिष्ठिर उवाच
कन्यायां प्राप्तशुल्कायां ज्यायांश्चेदाव्रजेद्वरःधर्मकामार्थसंपन्नो वाच्यमत्रानृतं न वा ॥२७॥
तस्मिन्नुभयतो दोषे कुर्वञ्छ्रेयः समाचरेत्अयं नः सर्वधर्माणां धर्मश्चिन्त्यतमो मतः ॥२८॥
तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान्तदेतत्सर्वमाचक्ष्व न हि तृप्यामि कथ्यताम् ॥२९॥
भीष्म उवाच
न वै निष्ठाकरं शुल्कं ज्ञात्वासीत्तेन नाहृतम्न हि शुल्कपराः सन्तः कन्यां ददति कर्हिचित् ॥३०॥
अन्यैर्गुणैरुपेतं तु शुल्कं याचन्ति बान्धवाःअलंकृत्वा वहस्वेति यो दद्यादनुकूलतः ॥३१॥
तच्च तां च ददात्येव न शुल्कं विक्रयो न सःप्रतिगृह्य भवेद्देयमेष धर्मः सनातनः ॥३२॥
दास्यामि भवते कन्यामिति पूर्वं नभाषितम्ये चैवाहुर्ये च नाहुर्ये चावश्यं वदन्त्युत ॥३३॥
तस्मादा ग्रहणात्पाणेर्याचयन्ति परस्परम्कन्यावरः पुरा दत्तो मरुद्भिरिति नः श्रुतम् ॥३४॥
नानिष्टाय प्रदातव्या कन्या इत्यृषिचोदितम्तन्मूलं काममूलस्य प्रजनस्येति मे मतिः ॥३५॥
समीक्ष्य च बहून्दोषान्संवासाद्विद्विषाणयोःयथा निष्ठाकरं शुल्कं न जात्वासीत्तथा शृणु ॥३६॥
अहं विचित्रवीर्याय द्वे कन्ये समुदावहम्जित्वा च मागधान्सर्वान्काशीनथ च कोसलान्गृहीतपाणिरेकासीत्प्राप्तशुल्कापराभवत् ॥३७॥
पाणौ गृहीता तत्रैव विसृज्या इति मे पिताअब्रवीदितरां कन्यामावहत्स तु कौरवः ॥३८॥
अप्यन्यामनुपप्रच्छ शङ्कमानः पितुर्वचःअतीव ह्यस्य धर्मेप्सा पितुर्मेऽभ्यधिकाभवत् ॥३९॥
ततोऽहमब्रुवं राजन्नाचारेप्सुरिदं वचःआचारं तत्त्वतो वेत्तुमिच्छामीति पुनः पुनः ॥४०॥
ततो मयैवमुक्ते तु वाक्ये धर्मभृतां वरःपिता मम महाराज बाह्लीको वाक्यमब्रवीत् ॥४१॥
यदि वः शुल्कतो निष्ठा न पाणिग्रहणं तथालाजान्तरमुपासीत प्राप्तशुल्का पतिं वृतम् ॥४२॥
न हि धर्मविदः प्राहुः प्रमाणं वाक्यतः स्मृतम्येषां वै शुल्कतो निष्ठा न पाणिग्रहणात्तथा ॥४३॥
प्रसिद्धं भाषितं दाने तेषां प्रत्यसनं पुनःये मन्यन्ते क्रयं शुल्कं न ते धर्मविदो जनाः ॥४४॥
न चैतेभ्यः प्रदातव्या न वोढव्या तथाविधान ह्येव भार्या क्रेतव्या न विक्रेया कथंचन ॥४५॥
ये च क्रीणन्ति दासीवद्ये च विक्रीणते जनाःभवेत्तेषां तथा निष्ठा लुब्धानां पापचेतसाम् ॥४६॥
अस्मिन्धर्मे सत्यवन्तं पर्यपृच्छन्त वै जनाःकन्यायाः प्राप्तशुल्कायाः शुल्कदः प्रशमं गतः ॥४७॥
पाणिग्रहीता चान्यः स्यादत्र नो धर्मसंशयःतन्नश्छिन्धि महाप्राज्ञ त्वं हि वै प्राज्ञसंमतःतत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् ॥४८॥
तानेवं ब्रुवतः सर्वान्सत्यवान्वाक्यमब्रवीत्यत्रेष्टं तत्र देया स्यान्नात्र कार्या विचारणाकुर्वते जीवतोऽप्येवं मृते नैवास्ति संशयः ॥४९॥
देवरं प्रविशेत्कन्या तप्येद्वापि महत्तपःतमेवानुव्रता भूत्वा पाणिग्राहस्य नाम सा ॥५०॥
लिखन्त्येव तु केषांचिदपरेषां शनैरपिइति ये संवदन्त्यत्र त एतं निश्चयं विदुः ॥५१॥
तत्पाणिग्रहणात्पूर्वमुत्तरं यत्र वर्ततेसर्वमङ्गलमन्त्रं वै मृषावादस्तु पातकः ॥५२॥
पाणिग्रहणमन्त्राणां निष्ठा स्यात्सप्तमे पदेपाणिग्राहस्य भार्या स्याद्यस्य चाद्भिः प्रदीयते ॥५३॥
अनुकूलामनुवंशां भ्रात्रा दत्तामुपाग्निकाम्परिक्रम्य यथान्यायं भार्यां विन्देद्द्विजोत्तमः ॥५४॥
End of chapter ॥
1
Mahabharata · Anushasana Parva

Adhyaya 44

0
Adhyaya 44Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0