Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Anushasana Parva
युधिष्ठिर उवाच
कन्यायाः प्राप्तशुल्कायाः पतिश्चेन्नास्ति कश्चनतत्र का प्रतिपत्तिः स्यात्तन्मे ब्रूहि पितामह ॥१॥
भीष्म उवाच
यापुत्रकस्याप्यरिक्थस्य प्रतिपत्सा तदा भवेत् ॥२॥
अथ चेत्साहरेच्छुल्कं क्रीता शुल्कप्रदस्य सातस्यार्थेऽपत्यमीहेत येन न्यायेन शक्नुयात् ॥३॥
न तस्या मन्त्रवत्कार्यं कश्चित्कुर्वीत किंचन ॥४॥
स्वयं वृतेति सावित्री पित्रा वै प्रत्यपद्यततत्तस्यान्ये प्रशंसन्ति धर्मज्ञा नेतरे जनाः ॥५॥
एतत्तु नापरे चक्रुर्न परे जातु साधवःसाधूनां पुनराचारो गरीयो धर्मलक्षणम् ॥६॥
अस्मिन्नेव प्रकरणे सुक्रतुर्वाक्यमब्रवीत्नप्ता विदेहराजस्य जनकस्य महात्मनः ॥७॥
असदाचरिते मार्गे कथं स्यादनुकीर्तनम्अनुप्रश्नः संशयो वा सतामेतदुपालभेत् ॥८॥
असदेव हि धर्मस्य प्रमादो धर्म आसुरःनानुशुश्रुम जात्वेतामिमां पूर्वेषु जन्मसु ॥९॥
भार्यापत्योर्हि संबन्धः स्त्रीपुंसोस्तुल्य एव सःरतिः साधारणो धर्म इति चाह स पार्थिवः ॥१०॥
युधिष्ठिर उवाच
अथ केन प्रमाणेन पुंसामादीयते धनम्पुत्रवद्धि पितुस्तस्य कन्या भवितुमर्हति ॥११॥
भीष्म उवाच
यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समातस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत् ॥१२॥
मातुश्च यौतकं यत्स्यात्कुमारीभाग एव सःदौहित्र एव वा रिक्थमपुत्रस्य पितुर्हरेत् ॥१३॥
ददाति हि स पिण्डं वै पितुर्मातामहस्य चपुत्रदौहित्रयोर्नेह विशेषो धर्मतः स्मृतः ॥१४॥
अन्यत्र जातया सा हि प्रजया पुत्र ईहतेदुहितान्यत्र जातेन पुत्रेणापि विशिष्यते ॥१५॥
दौहित्रकेण धर्मेण नात्र पश्यामि कारणम्विक्रीतासु च ये पुत्रा भवन्ति पितुरेव ते ॥१६॥
असूयवस्त्वधर्मिष्ठाः परस्वादायिनः शठाःआसुरादधिसंभूता धर्माद्विषमवृत्तयः ॥१७॥
अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदःधर्मज्ञा धर्मशास्त्रेषु निबद्धा धर्मसेतुषु ॥१८॥
यो मनुष्यः स्वकं पुत्रं विक्रीय धनमिच्छतिकन्यां वा जीवितार्थाय यः शुल्केन प्रयच्छति ॥१९॥
सप्तावरे महाघोरे निरये कालसाह्वयेस्वेदं मूत्रं पुरीषं च तस्मिन्प्रेत उपाश्नुते ॥२०॥
आर्षे गोमिथुनं शुल्कं केचिदाहुर्मृषैव तत्अल्पं वा बहु वा राजन्विक्रयस्तावदेव सः ॥२१॥
यद्यप्याचरितः कैश्चिन्नैष धर्मः कथंचनअन्येषामपि दृश्यन्ते लोभतः संप्रवृत्तयः ॥२२॥
वश्यां कुमारीं विहितां ये च तामुपभुञ्जतेएते पापस्य कर्तारस्तमस्यन्धेऽथ शेरते ॥२३॥
अन्योऽप्यथ न विक्रेयो मनुष्यः किं पुनः प्रजाःअधर्ममूलैर्हि धनैर्न तैरर्थोऽस्ति कश्चन ॥२४॥
End of chapter ॥
1
Mahabharata · Anushasana Parva

Adhyaya 45

0
Adhyaya 45Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0