Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Anushasana Parva
युधिष्ठिर उवाच
अर्थाश्रयाद्वा कामाद्वा वर्णानां वाप्यनिश्चयात्अज्ञानाद्वापि वर्णानां जायते वर्णसंकरः ॥१॥
तेषामेतेन विधिना जातानां वर्णसंकरेको धर्मः कानि कर्माणि तन्मे ब्रूहि पितामह ॥२॥
भीष्म उवाच
चातुर्वर्ण्यस्य कर्माणि चातुर्वर्ण्यं च केवलम्असृजत्स ह यज्ञार्थे पूर्वमेव प्रजापतिः ॥३॥
भार्याश्चतस्रो विप्रस्य द्वयोरात्मास्य जायतेआनुपूर्व्याद्द्वयोर्हीनौ मातृजात्यौ प्रसूयतः ॥४॥
परं शवाद्ब्राह्मणस्यैष पुत्रः; शूद्रापुत्रं पारशवं तमाहुःशुश्रूषकः स्वस्य कुलस्य स स्या;त्स्वं चारित्रं नित्यमथो न जह्यात् ॥५॥
सर्वानुपायानपि संप्रधार्य; समुद्धरेत्स्वस्य कुलस्य तन्तुम्ज्येष्ठो यवीयानपि यो द्विजस्य; शुश्रूषवान्दानपरायणः स्यात् ॥६॥
तिस्रः क्षत्रियसंबन्धाद्द्वयोरात्मास्य जायतेहीनवर्णस्तृतीयायां शूद्र उग्र इति स्मृतः ॥७॥
द्वे चापि भार्ये वैश्यस्य द्वयोरात्मास्य जायतेशूद्रा शूद्रस्य चाप्येका शूद्रमेव प्रजायते ॥८॥
अतो विशिष्टस्त्वधमो गुरुदारप्रधर्षकःबाह्यं वर्णं जनयति चातुर्वर्ण्यविगर्हितम् ॥९॥
अयाज्यं क्षत्रियो व्रात्यं सूतं स्तोमक्रियापरम्वैश्यो वैदेहकं चापि मौद्गल्यमपवर्जितम् ॥१०॥
शूद्रश्चण्डालमत्युग्रं वध्यघ्नं बाह्यवासिनम्ब्राह्मण्यां संप्रजायन्त इत्येते कुलपांसनाःएते मतिमतां श्रेष्ठ वर्णसंकरजाः प्रभो ॥११॥
बन्दी तु जायते वैश्यान्मागधो वाक्यजीवनःशूद्रान्निषादो मत्स्यघ्नः क्षत्रियायां व्यतिक्रमात् ॥१२॥
शूद्रादायोगवश्चापि वैश्यायां ग्रामधर्मिणःब्राह्मणैरप्रतिग्राह्यस्तक्षा स वनजीवनः ॥१३॥
एतेऽपि सदृशं वर्णं जनयन्ति स्वयोनिषुमातृजात्यां प्रसूयन्ते प्रवरा हीनयोनिषु ॥१४॥
यथा चतुर्षु वर्णेषु द्वयोरात्मास्य जायतेआनन्तर्यात्तु जायन्ते तथा बाह्याः प्रधानतः ॥१५॥
ते चापि सदृशं वर्णं जनयन्ति स्वयोनिषुपरस्परस्य वर्तन्तो जनयन्ति विगर्हितान् ॥१६॥
यथा च शूद्रो ब्राह्मण्यां जन्तुं बाह्यं प्रसूयतेएवं बाह्यतराद्बाह्यश्चातुर्वर्ण्यात्प्रसूयते ॥१७॥
प्रतिलोमं तु वर्तन्तो बाह्याद्बाह्यतरं पुनःहीना हीनात्प्रसूयन्ते वर्णाः पञ्चदशैव ते ॥१८॥
अगम्यागमनाच्चैव वर्तते वर्णसंकरःव्रात्यानामत्र जायन्ते सैरन्ध्रा मागधेषु चप्रसाधनोपचारज्ञमदासं दासजीवनम् ॥१९॥
अतश्चायोगवं सूते वागुरावनजीवनम्मैरेयकं च वैदेहः संप्रसूतेऽथ माधुकम् ॥२०॥
निषादो मुद्गरं सूते दाशं नावोपजीविनम्मृतपं चापि चण्डालः श्वपाकमतिकुत्सितम् ॥२१॥
चतुरो मागधी सूते क्रूरान्मायोपजीविनःमांसस्वादुकरं सूदं सौगन्धमिति संज्ञितम् ॥२२॥
वैदेहकाच्च पापिष्ठं क्रूरं भार्योपजीविनम्निषादान्मद्रनाभं च खरयानप्रयायिनम् ॥२३॥
चण्डालात्पुल्कसं चापि खराश्वगजभोजिनम्मृतचेलप्रतिच्छन्नं भिन्नभाजनभोजिनम् ॥२४॥
आयोगवीषु जायन्ते हीनवर्णासु ते त्रयःक्षुद्रो वैदेहकादन्ध्रो बहिर्ग्रामप्रतिश्रयः ॥२५॥
कारावरो निषाद्यां तु चर्मकारात्प्रजायतेचण्डालात्पाण्डुसौपाकस्त्वक्सारव्यवहारवान् ॥२६॥
आहिण्डिको निषादेन वैदेह्यां संप्रजायतेचण्डालेन तु सौपाको मौद्गल्यसमवृत्तिमान् ॥२७॥
निषादी चापि चण्डालात्पुत्रमन्तावसायिनम्श्मशानगोचरं सूते बाह्यैरपि बहिष्कृतम् ॥२८॥
इत्येताः संकरे जात्यः पितृमातृव्यतिक्रमात्प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ॥२९॥
चतुर्णामेव वर्णानां धर्मो नान्यस्य विद्यतेवर्णानां धर्महीनेषु संज्ञा नास्तीह कस्यचित् ॥३०॥
यदृच्छयोपसंपन्नैर्यज्ञसाधुबहिष्कृतैःबाह्या बाह्यैस्तु जायन्ते यथावृत्ति यथाश्रयम् ॥३१॥
चतुष्पथश्मशानानि शैलांश्चान्यान्वनस्पतीन्युञ्जन्ते चाप्यलंकारांस्तथोपकरणानि च ॥३२॥
गोब्राह्मणार्थे साहाय्यं कुर्वाणा वै न संशयःआनृशंस्यमनुक्रोशः सत्यवाक्यमथ क्षमा ॥३३॥
स्वशरीरैः परित्राणं बाह्यानां सिद्धिकारकम्मनुजव्याघ्र भवति तत्र मे नास्ति संशयः ॥३४॥
यथोपदेशं परिकीर्तितासु; नरः प्रजायेत विचार्य बुद्धिमान्विहीनयोनिर्हि सुतोऽवसादये;त्तितीर्षमाणं सलिले यथोपलम् ॥३५॥
अविद्वांसमलं लोके विद्वांसमपि वा पुनःनयन्ते ह्युत्पथं नार्यः कामक्रोधवशानुगम् ॥३६॥
स्वभावश्चैव नारीणां नराणामिह दूषणम्इत्यर्थं न प्रसज्जन्ते प्रमदासु विपश्चितः ॥३७॥
युधिष्ठिर उवाच
वर्णापेतमविज्ञातं नरं कलुषयोनिजम्आर्यरूपमिवानार्यं कथं विद्यामहे नृप ॥३८॥
भीष्म उवाच
योनिसंकलुषे जातं नानाचारसमाहितम्कर्मभिः सज्जनाचीर्णैर्विज्ञेया योनिशुद्धता ॥३९॥
अनार्यत्वमनाचारः क्रूरत्वं निष्क्रियात्मतापुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् ॥४०॥
पित्र्यं वा भजते शीलं मातृजं वा तथोभयम्न कथंचन संकीर्णः प्रकृतिं स्वां नियच्छति ॥४१॥
यथैव सदृशो रूपे मातापित्रोर्हि जायतेव्याघ्रश्चित्रैस्तथा योनिं पुरुषः स्वां नियच्छति ॥४२॥
कुलस्रोतसि संछन्ने यस्य स्याद्योनिसंकरःसंश्रयत्येव तच्छीलं नरोऽल्पमपि वा बहु ॥४३॥
आर्यरूपसमाचारं चरन्तं कृतके पथिस्ववर्णमन्यवर्णं वा स्वशीलं शास्ति निश्चये ॥४४॥
नानावृत्तेषु भूतेषु नानाकर्मरतेषु चजन्मवृत्तसमं लोके सुश्लिष्टं न विरज्यते ॥४५॥
शरीरमिह सत्त्वेन नरस्य परिकृष्यतेज्येष्ठमध्यावरं सत्त्वं तुल्यसत्त्वं प्रमोदते ॥४६॥
ज्यायांसमपि शीलेन विहीनं नैव पूजयेत्अपि शूद्रं तु सद्वृत्तं धर्मज्ञमभिपूजयेत् ॥४७॥
आत्मानमाख्याति हि कर्मभिर्नरः; स्वशीलचारित्रकृतैः शुभाशुभैःप्रनष्टमप्यात्मकुलं तथा नरः; पुनः प्रकाशं कुरुते स्वकर्मभिः ॥४८॥
योनिष्वेतासु सर्वासु संकीर्णास्वितरासु चयत्रात्मानं न जनयेद्बुधस्ताः परिवर्जयेत् ॥४९॥
End of chapter ॥
1
Mahabharata · Anushasana Parva

Adhyaya 48

0
Adhyaya 48Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0