Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Anushasana Parva
युधिष्ठिर उवाच
ब्रूहि पुत्रान्कुरुश्रेष्ठ वर्णानां त्वं पृथक्पृथक्कीदृश्यां कीदृशाश्चापि पुत्राः कस्य च के च ते ॥१॥
विप्रवादाः सुबहुशः श्रूयन्ते पुत्रकारिताःअत्र नो मुह्यतां राजन्संशयं छेत्तुमर्हसि ॥२॥
भीष्म उवाच
आत्मा पुत्रस्तु विज्ञेयस्तस्यानन्तरजश्च यःनियुक्तजश्च विज्ञेयः सुतः प्रसृतजस्तथा ॥३॥
पतितस्य च भार्यायां भर्त्रा सुसमवेतयातथा दत्तकृतौ पुत्रावध्यूढश्च तथापरः ॥४॥
षडपध्वंसजाश्चापि कानीनापसदास्तथाइत्येते ते समाख्यातास्तान्विजानीहि भारत ॥५॥
युधिष्ठिर उवाच
षडपध्वंसजाः के स्युः के वाप्यपसदास्तथाएतत्सर्वं यथातत्त्वं व्याख्यातुं मे त्वमर्हसि ॥६॥
भीष्म उवाच
त्रिषु वर्णेषु ये पुत्रा ब्राह्मणस्य युधिष्ठिरवर्णयोश्च द्वयोः स्यातां यौ राजन्यस्य भारत ॥७॥
एको द्विवर्ण एवाथ तथात्रैवोपलक्षितःषडपध्वंसजास्ते हि तथैवापसदाञ्शृणु ॥८॥
चण्डालो व्रात्यवेनौ च ब्राह्मण्यां क्षत्रियासु चवैश्यायां चैव शूद्रस्य लक्ष्यन्तेऽपसदास्त्रयः ॥९॥
मागधो वामकश्चैव द्वौ वैश्यस्योपलक्षितौब्राह्मण्यां क्षत्रियायां च क्षत्रियस्यैक एव तु ॥१०॥
ब्राह्मण्यां लक्ष्यते सूत इत्येतेऽपसदाः स्मृताःपुत्ररेतो न शक्यं हि मिथ्या कर्तुं नराधिप ॥११॥
युधिष्ठिर उवाच
क्षेत्रजं केचिदेवाहुः सुतं केचित्तु शुक्रजम्तुल्यावेतौ सुतौ कस्य तन्मे ब्रूहि पितामह ॥१२॥
भीष्म उवाच
रेतजो वा भवेत्पुत्रस्त्यक्तो वा क्षेत्रजो भवेत्अध्यूढः समयं भित्त्वेत्येतदेव निबोध मे ॥१३॥
युधिष्ठिर उवाच
रेतोजं विद्म वै पुत्रं क्षेत्रजस्यागमः कथम्अध्यूढं विद्म वै पुत्रं हित्वा च समयं कथम् ॥१४॥
भीष्म उवाच
आत्मजं पुत्रमुत्पाद्य यस्त्यजेत्कारणान्तरेन तत्र कारणं रेतः स क्षेत्रस्वामिनो भवेत् ॥१५॥
पुत्रकामो हि पुत्रार्थे यां वृणीते विशां पतेतत्र क्षेत्रं प्रमाणं स्यान्न वै तत्रात्मजः सुतः ॥१६॥
अन्यत्र क्षेत्रजः पुत्रो लक्ष्यते भरतर्षभन ह्यात्मा शक्यते हन्तुं दृष्टान्तोपगतो ह्यसौ ॥१७॥
कश्चिच्च कृतकः पुत्रः संग्रहादेव लक्ष्यतेन तत्र रेतः क्षेत्रं वा प्रमाणं स्याद्युधिष्ठिर ॥१८॥
युधिष्ठिर उवाच
कीदृशः कृतकः पुत्रः संग्रहादेव लक्ष्यतेशुक्रं क्षेत्रं प्रमाणं वा यत्र लक्ष्येत भारत ॥१९॥
भीष्म उवाच
मातापितृभ्यां संत्यक्तं पथि यं तु प्रलक्षयेत्न चास्य मातापितरौ ज्ञायेते स हि कृत्रिमः ॥२०॥
अस्वामिकस्य स्वामित्वं यस्मिन्संप्रतिलक्षयेत्सवर्णस्तं च पोषेत सवर्णस्तस्य जायते ॥२१॥
युधिष्ठिर उवाच
कथमस्य प्रयोक्तव्यः संस्कारः कस्य वा कथम्देया कन्या कथं चेति तन्मे ब्रूहि पितामह ॥२२॥
भीष्म उवाच
आत्मवत्तस्य कुर्वीत संस्कारं स्वामिवत्तथा ॥२३॥
त्यक्तो मातापितृभ्यां यः सवर्णं प्रतिपद्यतेतद्गोत्रवर्णतस्तस्य कुर्यात्संस्कारमच्युत ॥२४॥
अथ देया तु कन्या स्यात्तद्वर्णेन युधिष्ठिरसंस्कर्तुं मातृगोत्रं च मातृवर्णविनिश्चये ॥२५॥
कानीनाध्यूढजौ चापि विज्ञेयौ पुत्रकिल्बिषौतावपि स्वाविव सुतौ संस्कार्याविति निश्चयः ॥२६॥
क्षेत्रजो वाप्यपसदो येऽध्यूढास्तेषु चाप्यथआत्मवद्वै प्रयुञ्जीरन्संस्कारं ब्राह्मणादयः ॥२७॥
धर्मशास्त्रेषु वर्णानां निश्चयोऽयं प्रदृश्यतेएतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥२८॥
End of chapter ॥
1
Mahabharata · Anushasana Parva

Adhyaya 49

0
Adhyaya 49Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0