Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Anushasana Parva
युधिष्ठिर उवाच
आनृशंसस्य धर्मस्य गुणान्भक्तजनस्य चश्रोतुमिच्छामि कार्त्स्न्येन तन्मे ब्रूहि पितामह ॥१॥
भीष्म उवाच
विषये काशिराजस्य ग्रामान्निष्क्रम्य लुब्धकःसविषं काण्डमादाय मृगयामास वै मृगम् ॥२॥
तत्र चामिषलुब्धेन लुब्धकेन महावनेअविदूरे मृगं दृष्ट्वा बाणः प्रतिसमाहितः ॥३॥
तेन दुर्वारितास्त्रेण निमित्तचपलेषुणामहान्वनतरुर्विद्धो मृगं तत्र जिघांसता ॥४॥
स तीक्ष्णविषदिग्धेन शरेणातिबलात्कृतःउत्सृज्य फलपत्राणि पादपः शोषमागतः ॥५॥
तस्मिन्वृक्षे तथाभूते कोटरेषु चिरोषितःन जहाति शुको वासं तस्य भक्त्या वनस्पतेः ॥६॥
निष्प्रचारो निराहारो ग्लानः शिथिलवागपिकृतज्ञः सह वृक्षेण धर्मात्मा स व्यशुष्यत ॥७॥
तमुदारं महासत्त्वमतिमानुषचेष्टितम्समदुःखसुखं ज्ञात्वा विस्मितः पाकशासनः ॥८॥
ततश्चिन्तामुपगतः शक्रः कथमयं द्विजःतिर्यग्योनावसंभाव्यमानृशंस्यं समास्थितः ॥९॥
अथ वा नात्र चित्रं हीत्यभवद्वासवस्य तुप्राणिनामिह सर्वेषां सर्वं सर्वत्र दृश्यते ॥१०॥
ततो ब्राह्मणवेषेण मानुषं रूपमास्थितःअवतीर्य महीं शक्रस्तं पक्षिणमुवाच ह ॥११॥
शुक भोः पक्षिणां श्रेष्ठ दाक्षेयी सुप्रजास्त्वयापृच्छे त्वा शुष्कमेतं वै कस्मान्न त्यजसि द्रुमम् ॥१२॥
अथ पृष्टः शुकः प्राह मूर्ध्ना समभिवाद्य तम्स्वागतं देवराजाय विज्ञातस्तपसा मया ॥१३॥
ततो दशशताक्षेण साधु साध्विति भाषितम्अहो विज्ञानमित्येवं तपसा पूजितस्ततः ॥१४॥
तमेवं शुभकर्माणं शुकं परमधार्मिकम्विजानन्नपि तां प्राप्तिं पप्रच्छ बलसूदनः ॥१५॥
निष्पत्रमफलं शुष्कमशरण्यं पतत्रिणाम्किमर्थं सेवसे वृक्षं यदा महदिदं वनम् ॥१६॥
अन्येऽपि बहवो वृक्षाः पत्रसंछन्नकोटराःशुभाः पर्याप्तसंचारा विद्यन्तेऽस्मिन्महावने ॥१७॥
गतायुषमसामर्थ्यं क्षीणसारं हतश्रियम्विमृश्य प्रज्ञया धीर जहीमं ह्यस्थिरं द्रुमम् ॥१८॥
तदुपश्रुत्य धर्मात्मा शुकः शक्रेण भाषितम्सुदीर्घमभिनिःश्वस्य दीनो वाक्यमुवाच ह ॥१९॥
अनतिक्रमणीयानि दैवतानि शचीपतेयत्राभवस्तत्र भवस्तन्निबोध सुराधिप ॥२०॥
अस्मिन्नहं द्रुमे जातः साधुभिश्च गुणैर्युतःबालभावे च संगुप्तः शत्रुभिश्च न धर्षितः ॥२१॥
किमनुक्रोशवैफल्यमुत्पादयसि मेऽनघआनृशंस्येऽनुरक्तस्य भक्तस्यानुगतस्य च ॥२२॥
अनुक्रोशो हि साधूनां सुमहद्धर्मलक्षणम्अनुक्रोशश्च साधूनां सदा प्रीतिं प्रयच्छति ॥२३॥
त्वमेव दैवतैः सर्वैः पृच्छ्यसे धर्मसंशयान्अतस्त्वं देव देवानामाधिपत्ये प्रतिष्ठितः ॥२४॥
नार्हसि त्वं सहस्राक्ष त्याजयित्वेह भक्तितःसमर्थमुपजीव्येमं त्यजेयं कथमद्य वै ॥२५॥
तस्य वाक्येन सौम्येन हर्षितः पाकशासनःशुकं प्रोवाच धर्मज्ञमानृशंस्येन तोषितः ॥२६॥
वरं वृणीष्वेति तदा स च वव्रे वरं शुकःआनृशंस्यपरो नित्यं तस्य वृक्षस्य संभवम् ॥२७॥
विदित्वा च दृढां शक्रस्तां शुके शीलसंपदम्प्रीतः क्षिप्रमथो वृक्षममृतेनावसिक्तवान् ॥२८॥
ततः फलानि पत्राणि शाखाश्चापि मनोरमाःशुकस्य दृढभक्तित्वाच्छ्रीमत्त्वं चाप स द्रुमः ॥२९॥
शुकश्च कर्मणा तेन आनृशंस्यकृतेन हआयुषोऽन्ते महाराज प्राप शक्रसलोकताम् ॥३०॥
एवमेव मनुष्येन्द्र भक्तिमन्तं समाश्रितःसर्वार्थसिद्धिं लभते शुकं प्राप्य यथा द्रुमः ॥३१॥
End of chapter ॥
1
Mahabharata · Anushasana Parva

Adhyaya 5

0
Adhyaya 5Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0