Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Anushasana Parva
युधिष्ठिर उवाच
संशयो मे महाप्राज्ञ सुमहान्सागरोपमःतन्मे शृणु महाबाहो श्रुत्वा चाख्यातुमर्हसि ॥१॥
कौतूहलं मे सुमहज्जामदग्न्यं प्रति प्रभोरामं धर्मभृतां श्रेष्ठं तन्मे व्याख्यातुमर्हसि ॥२॥
कथमेष समुत्पन्नो रामः सत्यपराक्रमःकथं ब्रह्मर्षिवंशे च क्षत्रधर्मा व्यजायत ॥३॥
तदस्य संभवं राजन्निखिलेनानुकीर्तयकौशिकाच्च कथं वंशात्क्षत्राद्वै ब्राह्मणोऽभवत् ॥४॥
अहो प्रभावः सुमहानासीद्वै सुमहात्मनोःरामस्य च नरव्याघ्र विश्वामित्रस्य चैव ह ॥५॥
कथं पुत्रानतिक्रम्य तेषां नप्तृष्वथाभवत्एष दोषः सुतान्हित्वा तन्मे व्याख्यातुमर्हसि ॥६॥
भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्च्यवनस्य च संवादं कुशिकस्य च भारत ॥७॥
एतं दोषं पुरा दृष्ट्वा भार्गवश्च्यवनस्तदाआगामिनं महाबुद्धिः स्ववंशे मुनिपुंगवः ॥८॥
संचिन्त्य मनसा सर्वं गुणदोषबलाबलम्दग्धुकामः कुलं सर्वं कुशिकानां तपोधनः ॥९॥
च्यवनस्तमनुप्राप्य कुशिकं वाक्यमब्रवीत्वस्तुमिच्छा समुत्पन्ना त्वया सह ममानघ ॥१०॥
कुशिक उवाच
भगवन्सहधर्मोऽयं पण्डितैरिह धार्यतेप्रदानकाले कन्यानामुच्यते च सदा बुधैः ॥११॥
यत्तु तावदतिक्रान्तं धर्मद्वारं तपोधनतत्कार्यं प्रकरिष्यामि तदनुज्ञातुमर्हसि ॥१२॥
भीष्म उवाच
अथासनमुपादाय च्यवनस्य महामुनेःकुशिको भार्यया सार्धमाजगाम यतो मुनिः ॥१३॥
प्रगृह्य राजा भृङ्गारं पाद्यमस्मै न्यवेदयत्कारयामास सर्वाश्च क्रियास्तस्य महात्मनः ॥१४॥
ततः स राजा च्यवनं मधुपर्कं यथाविधिप्रत्यग्राहयदव्यग्रो महात्मा नियतव्रतः ॥१५॥
सत्कृत्य स तथा विप्रमिदं वचनमब्रवीत्भगवन्परवन्तौ स्वो ब्रूहि किं करवावहे ॥१६॥
यदि राज्यं यदि धनं यदि गाः संशितव्रतयज्ञदानानि च तथा ब्रूहि सर्वं ददामि ते ॥१७॥
इदं गृहमिदं राज्यमिदं धर्मासनं च तेराजा त्वमसि शाध्युर्वीं भृत्योऽहं परवांस्त्वयि ॥१८॥
एवमुक्ते ततो वाक्ये च्यवनो भार्गवस्तदाकुशिकं प्रत्युवाचेदं मुदा परमया युतः ॥१९॥
न राज्यं कामये राजन्न धनं न च योषितःन च गा न च ते देशान्न यज्ञाञ्श्रूयतामिदम् ॥२०॥
नियमं कंचिदारप्स्ये युवयोर्यदि रोचतेपरिचर्योऽस्मि यत्ताभ्यां युवाभ्यामविशङ्कया ॥२१॥
एवमुक्ते तदा तेन दंपती तौ जहर्षतुःप्रत्यब्रूतां च तमृषिमेवमस्त्विति भारत ॥२२॥
अथ तं कुशिको हृष्टः प्रावेशयदनुत्तमम्गृहोद्देशं ततस्तत्र दर्शनीयमदर्शयत् ॥२३॥
इयं शय्या भगवतो यथाकाममिहोष्यताम्प्रयतिष्यावहे प्रीतिमाहर्तुं ते तपोधन ॥२४॥
अथ सूर्योऽतिचक्राम तेषां संवदतां तथाअथर्षिश्चोदयामास पानमन्नं तथैव च ॥२५॥
तमपृच्छत्ततो राजा कुशिकः प्रणतस्तदाकिमन्नजातमिष्टं ते किमुपस्थापयाम्यहम् ॥२६॥
ततः स परया प्रीत्या प्रत्युवाच जनाधिपम्औपपत्तिकमाहारं प्रयच्छस्वेति भारत ॥२७॥
तद्वचः पूजयित्वा तु तथेत्याह स पार्थिवःयथोपपन्नं चाहारं तस्मै प्रादाज्जनाधिपः ॥२८॥
ततः स भगवान्भुक्त्वा दंपती प्राह धर्मवित्स्वप्तुमिच्छाम्यहं निद्रा बाधते मामिति प्रभो ॥२९॥
ततः शय्यागृहं प्राप्य भगवानृषिसत्तमःसंविवेश नरेन्द्रस्तु सपत्नीकः स्थितोऽभवत् ॥३०॥
न प्रबोध्योऽस्मि संसुप्त इत्युवाचाथ भार्गवःसंवाहितव्यौ पादौ मे जागर्तव्यं च वां निशि ॥३१॥
अविशङ्कश्च कुशिकस्तथेत्याह स धर्मवित्न प्रबोधयतां तं च तौ तदा रजनीक्षये ॥३२॥
यथादेशं महर्षेस्तु शुश्रूषापरमौ तदाबभूवतुर्महाराज प्रयतावथ दंपती ॥३३॥
ततः स भगवान्विप्रः समादिश्य नराधिपम्सुष्वापैकेन पार्श्वेन दिवसानेकविंशतिम् ॥३४॥
स तु राजा निराहारः सभार्यः कुरुनन्दनपर्युपासत तं हृष्टश्च्यवनाराधने रतः ॥३५॥
भार्गवस्तु समुत्तस्थौ स्वयमेव तपोधनःअकिंचिदुक्त्वा तु गृहान्निश्चक्राम महातपाः ॥३६॥
तमन्वगच्छतां तौ तु क्षुधितौ श्रमकर्शितौभार्यापती मुनिश्रेष्ठो न च ताववलोकयत् ॥३७॥
तयोस्तु प्रेक्षतोरेव भार्गवाणां कुलोद्वहःअन्तर्हितोऽभूद्राजेन्द्र ततो राजापतत्क्षितौ ॥३८॥
स मुहूर्तं समाश्वस्य सह देव्या महाद्युतिःपुनरन्वेषणे यत्नमकरोत्परमं तदा ॥३९॥
End of chapter ॥
1
Mahabharata · Anushasana Parva

Adhyaya 52

0
Adhyaya 52Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0