Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Anushasana Parva
युधिष्ठिर उवाच
तस्मिन्नन्तर्हिते विप्रे राजा किमकरोत्तदाभार्या चास्य महाभागा तन्मे ब्रूहि पितामह ॥१॥
भीष्म उवाच
अदृष्ट्वा स महीपालस्तमृषिं सह भार्ययापरिश्रान्तो निववृते व्रीडितो नष्टचेतनः ॥२॥
स प्रविश्य पुरीं दीनो नाभ्यभाषत किंचनतदेव चिन्तयामास च्यवनस्य विचेष्टितम् ॥३॥
अथ शून्येन मनसा प्रविवेश गृहं नृपःददर्श शयने तस्मिञ्शयानं भृगुनन्दनम् ॥४॥
विस्मितौ तौ तु दृष्ट्वा तं तदाश्चर्यं विचिन्त्य चदर्शनात्तस्य च मुनेर्विश्रान्तौ संबभूवतुः ॥५॥
यथास्थानं तु तौ स्थित्वा भूयस्तं संववाहतुःअथापरेण पार्श्वेन सुष्वाप स महामुनिः ॥६॥
तेनैव च स कालेन प्रत्यबुध्यत वीर्यवान्न च तौ चक्रतुः किंचिद्विकारं भयशङ्कितौ ॥७॥
प्रतिबुद्धस्तु स मुनिस्तौ प्रोवाच विशां पतेतैलाभ्यङ्गो दीयतां मे स्नास्येऽहमिति भारत ॥८॥
तथेति तौ प्रतिश्रुत्य क्षुधितौ श्रमकर्शितौशतपाकेन तैलेन महार्हेणोपतस्थतुः ॥९॥
ततः सुखासीनमृषिं वाग्यतौ संववाहतुःन च पर्याप्तमित्याह भार्गवः सुमहातपाः ॥१०॥
यदा तौ निर्विकारौ तु लक्षयामास भार्गवःतत उत्थाय सहसा स्नानशालां विवेश हकॢप्तमेव तु तत्रासीत्स्नानीयं पार्थिवोचितम् ॥११॥
असत्कृत्य तु तत्सर्वं तत्रैवान्तरधीयतस मुनिः पुनरेवाथ नृपतेः पश्यतस्तदानासूयां चक्रतुस्तौ च दंपती भरतर्षभ ॥१२॥
अथ स्नातः स भगवान्सिंहासनगतः प्रभुःदर्शयामास कुशिकं सभार्यं भृगुनन्दनः ॥१३॥
संहृष्टवदनो राजा सभार्यः कुशिको मुनिम्सिद्धमन्नमिति प्रह्वो निर्विकारो न्यवेदयत् ॥१४॥
आनीयतामिति मुनिस्तं चोवाच नराधिपम्राजा च समुपाजह्रे तदन्नं सह भार्यया ॥१५॥
मांसप्रकारान्विविधाञ्शाकानि विविधानि चवेसवारविकारांश्च पानकानि लघूनि च ॥१६॥
रसालापूपकांश्चित्रान्मोदकानथ षाडवान्रसान्नानाप्रकारांश्च वन्यं च मुनिभोजनम् ॥१७॥
फलानि च विचित्राणि तथा भोज्यानि भूरिशःबदरेङ्गुदकाश्मर्यभल्लातकवटानि च ॥१८॥
गृहस्थानां च यद्भोज्यं यच्चापि वनवासिनाम्सर्वमाहारयामास राजा शापभयान्मुनेः ॥१९॥
अथ सर्वमुपन्यस्तमग्रतश्च्यवनस्य तत्ततः सर्वं समानीय तच्च शय्यासनं मुनिः ॥२०॥
वस्त्रैः शुभैरवच्छाद्य भोजनोपस्करैः सहसर्वमादीपयामास च्यवनो भृगुनन्दनः ॥२१॥
न च तौ चक्रतुः कोपं दंपती सुमहाव्रतौतयोः संप्रेक्षतोरेव पुनरन्तर्हितोऽभवत् ॥२२॥
तत्रैव च स राजर्षिस्तस्थौ तां रजनीं तदासभार्यो वाग्यतः श्रीमान्न च तं कोप आविशत् ॥२३॥
नित्यं संस्कृतमन्नं तु विविधं राजवेश्मनिशयनानि च मुख्यानि परिषेकाश्च पुष्कलाः ॥२४॥
वस्त्रं च विविधाकारमभवत्समुपार्जितम्न शशाक ततो द्रष्टुमन्तरं च्यवनस्तदा ॥२५॥
पुनरेव च विप्रर्षिः प्रोवाच कुशिकं नृपम्सभार्यो मां रथेनाशु वह यत्र ब्रवीम्यहम् ॥२६॥
तथेति च प्राह नृपो निर्विशङ्कस्तपोधनम्क्रीडारथोऽस्तु भगवन्नुत सांग्रामिको रथः ॥२७॥
इत्युक्तः स मुनिस्तेन राज्ञा हृष्टेन तद्वचःच्यवनः प्रत्युवाचेदं हृष्टः परपुरंजयम् ॥२८॥
सज्जीकुरु रथं क्षिप्रं यस्ते सांग्रामिको मतःसायुधः सपताकश्च सशक्तिः कणयष्टिमान् ॥२९॥
किङ्किणीशतनिर्घोषो युक्तस्तोमरकल्पनैःगदाखड्गनिबद्धश्च परमेषुशतान्वितः ॥३०॥
ततः स तं तथेत्युक्त्वा कल्पयित्वा महारथम्भार्यां वामे धुरि तदा चात्मानं दक्षिणे तथा ॥३१॥
त्रिदंष्ट्रं वज्रसूच्यग्रं प्रतोदं तत्र चादधत्सर्वमेतत्ततो दत्त्वा नृपो वाक्यमथाब्रवीत् ॥३२॥
भगवन्क्व रथो यातु ब्रवीतु भृगुनन्दनःयत्र वक्ष्यसि विप्रर्षे तत्र यास्यति ते रथः ॥३३॥
एवमुक्तस्तु भगवान्प्रत्युवाचाथ तं नृपम्इतःप्रभृति यातव्यं पदकं पदकं शनैः ॥३४॥
श्रमो मम यथा न स्यात्तथा मे छन्दचारिणौसुखं चैवास्मि वोढव्यो जनः सर्वश्च पश्यतु ॥३५॥
नोत्सार्यः पथिकः कश्चित्तेभ्यो दास्याम्यहं वसुब्राह्मणेभ्यश्च ये कामानर्थयिष्यन्ति मां पथि ॥३६॥
सर्वं दास्याम्यशेषेण धनं रत्नानि चैव हिक्रियतां निखिलेनैतन्मा विचारय पार्थिव ॥३७॥
तस्य तद्वचनं श्रुत्वा राजा भृत्यानथाब्रवीत्यद्यद्ब्रूयान्मुनिस्तत्तत्सर्वं देयमशङ्कितैः ॥३८॥
ततो रत्नान्यनेकानि स्त्रियो युग्यमजाविकम्कृताकृतं च कनकं गजेन्द्राश्चाचलोपमाः ॥३९॥
अन्वगच्छन्त तमृषिं राजामात्याश्च सर्वशःहाहाभूतं च तत्सर्वमासीन्नगरमार्तिमत् ॥४०॥
तौ तीक्ष्णाग्रेण सहसा प्रतोदेन प्रचोदितौपृष्ठे विद्धौ कटे चैव निर्विकारौ तमूहतुः ॥४१॥
वेपमानौ विराहारौ पञ्चाशद्रात्रकर्शितौकथंचिदूहतुर्वीरौ दंपती तं रथोत्तमम् ॥४२॥
बहुशो भृशविद्धौ तौ क्षरमाणौ क्षतोद्भवम्ददृशाते महाराज पुष्पिताविव किंशुकौ ॥४३॥
तौ दृष्ट्वा पौरवर्गस्तु भृशं शोकपरायणःअभिशापभयात्त्रस्तो न च किंचिदुवाच ह ॥४४॥
द्वन्द्वशश्चाब्रुवन्सर्वे पश्यध्वं तपसो बलम्क्रुद्धा अपि मुनिश्रेष्ठं वीक्षितुं नैव शक्नुमः ॥४५॥
अहो भगवतो वीर्यं महर्षेर्भावितात्मनःराज्ञश्चापि सभार्यस्य धैर्यं पश्यत यादृशम् ॥४६॥
श्रान्तावपि हि कृच्छ्रेण रथमेतं समूहतुःन चैतयोर्विकारं वै ददर्श भृगुनन्दनः ॥४७॥
भीष्म उवाच
ततः स निर्विकारौ तौ दृष्ट्वा भृगुकुलोद्वहःवसु विश्राणयामास यथा वैश्रवणस्तथा ॥४८॥
तत्रापि राजा प्रीतात्मा यथाज्ञप्तमथाकरोत्ततोऽस्य भगवान्प्रीतो बभूव मुनिसत्तमः ॥४९॥
अवतीर्य रथश्रेष्ठाद्दंपती तौ मुमोच हविमोच्य चैतौ विधिवत्ततो वाक्यमुवाच ह ॥५०॥
स्निग्धगम्भीरया वाचा भार्गवः सुप्रसन्नयाददानि वां वरं श्रेष्ठं तद्ब्रूतामिति भारत ॥५१॥
सुकुमारौ च तौ विद्वान्कराभ्यां मुनिसत्तमःपस्पर्शामृतकल्पाभ्यां स्नेहाद्भरतसत्तम ॥५२॥
अथाब्रवीन्नृपो वाक्यं श्रमो नास्त्यावयोरिहविश्रान्तौ स्वः प्रभावात्ते ध्यानेनैवेति भार्गव ॥५३॥
अथ तौ भगवान्प्राह प्रहृष्टश्च्यवनस्तदान वृथा व्याहृतं पूर्वं यन्मया तद्भविष्यति ॥५४॥
रमणीयः समुद्देशो गङ्गातीरमिदं शुभम्कंचित्कालं व्रतपरो निवत्स्यामीह पार्थिव ॥५५॥
गम्यतां स्वपुरं पुत्र विश्रान्तः पुनरेष्यसिइहस्थं मां सभार्यस्त्वं द्रष्टासि श्वो नराधिप ॥५६॥
न च मन्युस्त्वया कार्यः श्रेयस्ते समुपस्थितम्यत्काङ्क्षितं हृदिस्थं ते तत्सर्वं संभविष्यति ॥५७॥
इत्येवमुक्तः कुशिकः प्रहृष्टेनान्तरात्मनाप्रोवाच मुनिशार्दूलमिदं वचनमर्थवत् ॥५८॥
न मे मन्युर्महाभाग पूतोऽस्मि भगवंस्त्वयासंवृत्तौ यौवनस्थौ स्वो वपुष्मन्तौ बलान्वितौ ॥५९॥
प्रतोदेन व्रणा ये मे सभार्यस्य कृतास्त्वयातान्न पश्यामि गात्रेषु स्वस्थोऽस्मि सह भार्यया ॥६०॥
इमां च देवीं पश्यामि मुने दिव्याप्सरोपमाम्श्रिया परमया युक्तां यथादृष्टां मया पुरा ॥६१॥
तव प्रसादात्संवृत्तमिदं सर्वं महामुनेनैतच्चित्रं तु भगवंस्त्वयि सत्यपराक्रम ॥६२॥
इत्युक्तः प्रत्युवाचेदं च्यवनः कुशिकं तदाआगच्छेथाः सभार्यश्च त्वमिहेति नराधिप ॥६३॥
इत्युक्तः समनुज्ञातो राजर्षिरभिवाद्य तम्प्रययौ वपुषा युक्तो नगरं देवराजवत् ॥६४॥
तत एनमुपाजग्मुरमात्याः सपुरोहिताःबलस्था गणिकायुक्ताः सर्वाः प्रकृतयस्तथा ॥६५॥
तैर्वृतः कुशिको राजा श्रिया परमया ज्वलन्प्रविवेश पुरं हृष्टः पूज्यमानोऽथ बन्दिभिः ॥६६॥
ततः प्रविश्य नगरं कृत्वा सर्वाह्णिकक्रियाःभुक्त्वा सभार्यो रजनीमुवास स महीपतिः ॥६७॥
ततस्तु तौ नवमभिवीक्ष्य यौवनं; परस्परं विगतजराविवामरौननन्दतुः शयनगतौ वपुर्धरौ; श्रिया युतौ द्विजवरदत्तया तया ॥६८॥
स चाप्यृषिर्भृगुकुलकीर्तिवर्धन;स्तपोधनो वनमभिराममृद्धिमत्मनीषया बहुविधरत्नभूषितं; ससर्ज यन्नास्ति शतक्रतोरपि ॥६९॥
End of chapter ॥
1
Mahabharata · Anushasana Parva

Adhyaya 53

0
Adhyaya 53Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0