महाभारत, पुस्तक रूप में
॥ ॐ ॥यदि आपको इस मंच का अनुभव अच्छा लगा हो…॥ दान ॥तो कृपया दान करेंइससे ये ग्रंथ सबके लिए खुले और निःशुल्क रहते हैं।दान करेंमहाभारत · अनुशासन पर्व
॥ श्रीः ॥
अध्याय 55
महाभारत · अनुशासन पर्व
च्यवन उवाच
वरश्च गृह्यतां मत्तो यश्च ते संशयो हृदितं च ब्रूहि नरश्रेष्ठ सर्वं संपादयामि ते ॥१॥
कुशिक उवाच
यदि प्रीतोऽसि भगवंस्ततो मे वद भार्गवकारणं श्रोतुमिच्छामि मद्गृहे वासकारितम् ॥२॥
शयनं चैकपार्श्वेन दिवसानेकविंशतिम्अकिंचिदुक्त्वा गमनं बहिश्च मुनिपुंगव ॥३॥
अन्तर्धानमकस्माच्च पुनरेव च दर्शनम्पुनश्च शयनं विप्र दिवसानेकविंशतिम् ॥४॥
तैलाभ्यक्तस्य गमनं भोजनं च गृहे ममसमुपानीय विविधं यद्दग्धं जातवेदसानिर्याणं च रथेनाशु सहसा यत्कृतं त्वया ॥५॥
धनानां च विसर्गस्य वनस्यापि च दर्शनम्प्रासादानां बहूनां च काञ्चनानां महामुने ॥६॥
मणिविद्रुमपादानां पर्यङ्कानां च दर्शनम्पुनश्चादर्शनं तस्य श्रोतुमिच्छामि कारणम् ॥७॥
अतीव ह्यत्र मुह्यामि चिन्तयानो दिवानिशम्न चैवात्राधिगच्छामि सर्वस्यास्य विनिश्चयम्एतदिच्छामि कार्त्स्न्येन सत्यं श्रोतुं तपोधन ॥८॥
च्यवन उवाच
शृणु सर्वमशेषेण यदिदं येन हेतुनान हि शक्यमनाख्यातुमेवं पृष्टेन पार्थिव ॥९॥
पितामहस्य वदतः पुरा देवसमागमेश्रुतवानस्मि यद्राजंस्तन्मे निगदतः शृणु ॥१०॥
ब्रह्मक्षत्रविरोधेन भविता कुलसंकरःपौत्रस्ते भविता राजंस्तेजोवीर्यसमन्वितः ॥११॥
ततः स्वकुलरक्षार्थमहं त्वा समुपागमम्चिकीर्षन्कुशिकोच्छेदं संदिधक्षुः कुलं तव ॥१२॥
ततोऽहमागम्य पुरा त्वामवोचं महीपतेनियमं कंचिदारप्स्ये शुश्रूषा क्रियतामिति ॥१३॥
न च ते दुष्कृतं किंचिदहमासादयं गृहेतेन जीवसि राजर्षे न भवेथास्ततोऽन्यथा ॥१४॥
एतां बुद्धिं समास्थाय दिवसानेकविंशतिम्सुप्तोऽस्मि यदि मां कश्चिद्बोधयेदिति पार्थिव ॥१५॥
यदा त्वया सभार्येण संसुप्तो न प्रबोधितःअहं तदैव ते प्रीतो मनसा राजसत्तम ॥१६॥
उत्थाय चास्मि निष्क्रान्तो यदि मां त्वं महीपतेपृच्छेः क्व यास्यसीत्येवं शपेयं त्वामिति प्रभो ॥१७॥
अन्तर्हितश्चास्मि पुनः पुनरेव च ते गृहेयोगमास्थाय संविष्टो दिवसानेकविंशतिम् ॥१८॥
क्षुधितो मामसूयेथाः श्रमाद्वेति नराधिपएतां बुद्धिं समास्थाय कर्शितौ वां मया क्षुधा ॥१९॥
न च तेऽभूत्सुसूक्ष्मोऽपि मन्युर्मनसि पार्थिवसभार्यस्य नरश्रेष्ठ तेन ते प्रीतिमानहम् ॥२०॥
भोजनं च समानाय्य यत्तदादीपितं मयाक्रुध्येथा यदि मात्सर्यादिति तन्मर्षितं च ते ॥२१॥
ततोऽहं रथमारुह्य त्वामवोचं नराधिपसभार्यो मां वहस्वेति तच्च त्वं कृतवांस्तथा ॥२२॥
अविशङ्को नरपते प्रीतोऽहं चापि तेन तेधनोत्सर्गेऽपि च कृते न त्वां क्रोधः प्रधर्षयत् ॥२३॥
ततः प्रीतेन ते राजन्पुनरेतत्कृतं तवसभार्यस्य वनं भूयस्तद्विद्धि मनुजाधिप ॥२४॥
प्रीत्यर्थं तव चैतन्मे स्वर्गसंदर्शनं कृतम्यत्ते वनेऽस्मिन्नृपते दृष्टं दिव्यं निदर्शनम् ॥२५॥
स्वर्गोद्देशस्त्वया राजन्सशरीरेण पार्थिवमुहूर्तमनुभूतोऽसौ सभार्येण नृपोत्तम ॥२६॥
निदर्शनार्थं तपसो धर्मस्य च नराधिपतत्र यासीत्स्पृहा राजंस्तच्चापि विदितं मम ॥२७॥
ब्राह्मण्यं काङ्क्षसे हि त्वं तपश्च पृथिवीपतेअवमन्य नरेन्द्रत्वं देवेन्द्रत्वं च पार्थिव ॥२८॥
एवमेतद्यथात्थ त्वं ब्राह्मण्यं तात दुर्लभम्ब्राह्मण्ये सति चर्षित्वमृषित्वे च तपस्विता ॥२९॥
भविष्यत्येष ते कामः कुशिकात्कौशिको द्विजःतृतीयं पुरुषं प्राप्य ब्राह्मणत्वं गमिष्यति ॥३०॥
वंशस्ते पार्थिवश्रेष्ठ भृगूणामेव तेजसापौत्रस्ते भविता विप्र तपस्वी पावकद्युतिः ॥३१॥
यः स देवमनुष्याणां भयमुत्पादयिष्यतित्रयाणां चैव लोकानां सत्यमेतद्ब्रवीमि ते ॥३२॥
वरं गृहाण राजर्षे यस्ते मनसि वर्ततेतीर्थयात्रां गमिष्यामि पुरा कालोऽतिवर्तते ॥३३॥
कुशिक उवाच
एष एव वरो मेऽद्य यत्त्वं प्रीतो महामुनेभवत्वेतद्यथात्थ त्वं तपः पौत्रे ममानघब्राह्मण्यं मे कुलस्यास्तु भगवन्नेष मे वरः ॥३४॥
पुनश्चाख्यातुमिच्छामि भगवन्विस्तरेण वैकथमेष्यति विप्रत्वं कुलं मे भृगुनन्दनकश्चासौ भविता बन्धुर्मम कश्चापि संमतः ॥३५॥
अध्याय समाप्त ॥
१

0
पृष्ठ पलटने के लिए कोना खींचें, स्वाइप करें या तीर कुंजियाँ दबाएँ
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0