Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Anushasana Parva
युधिष्ठिर उवाच
पितामह महाप्राज्ञ सर्वशास्त्रविशारददैवे पुरुषकारे च किं स्विच्छ्रेष्ठतरं भवेत् ॥१॥
भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्वसिष्ठस्य च संवादं ब्रह्मणश्च युधिष्ठिर ॥२॥
दैवमानुषयोः किं स्वित्कर्मणोः श्रेष्ठमित्युतपुरा वसिष्ठो भगवान्पितामहमपृच्छत ॥३॥
ततः पद्मोद्भवो राजन्देवदेवः पितामहःउवाच मधुरं वाक्यमर्थवद्धेतुभूषितम् ॥४॥
नाबीजं जायते किंचिन्न बीजेन विना फलम्बीजाद्बीजं प्रभवति बीजादेव फलं स्मृतम् ॥५॥
यादृशं वपते बीजं क्षेत्रमासाद्य कर्षकःसुकृते दुष्कृते वापि तादृशं लभते फलम् ॥६॥
यथा बीजं विना क्षेत्रमुप्तं भवति निष्फलम्तथा पुरुषकारेण विना दैवं न सिध्यति ॥७॥
क्षेत्रं पुरुषकारस्तु दैवं बीजमुदाहृतम्क्षेत्रबीजसमायोगात्ततः सस्यं समृध्यते ॥८॥
कर्मणः फलनिर्वृत्तिं स्वयमश्नाति कारकःप्रत्यक्षं दृश्यते लोके कृतस्याप्यकृतस्य च ॥९॥
शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणाकृतं सर्वत्र लभते नाकृतं भुज्यते क्वचित् ॥१०॥
कृती सर्वत्र लभते प्रतिष्ठां भाग्यविक्षतःअकृती लभते भ्रष्टः क्षते क्षारावसेचनम् ॥११॥
तपसा रूपसौभाग्यं रत्नानि विविधानि चप्राप्यते कर्मणा सर्वं न दैवादकृतात्मना ॥१२॥
तथा स्वर्गश्च भोगश्च निष्ठा या च मनीषितासर्वं पुरुषकारेण कृतेनेहोपपद्यते ॥१३॥
ज्योतींषि त्रिदशा नागा यक्षाश्चन्द्रार्कमारुताःसर्वे पुरुषकारेण मानुष्याद्देवतां गताः ॥१४॥
अर्थो वा मित्रवर्गो वा ऐश्वर्यं वा कुलान्वितम्श्रीश्चापि दुर्लभा भोक्तुं तथैवाकृतकर्मभिः ॥१५॥
शौचेन लभते विप्रः क्षत्रियो विक्रमेण चवैश्यः पुरुषकारेण शूद्रः शुश्रूषया श्रियम् ॥१६॥
नादातारं भजन्त्यर्था न क्लीबं नापि निष्क्रियम्नाकर्मशीलं नाशूरं तथा नैवातपस्विनम् ॥१७॥
येन लोकास्त्रयः सृष्टा दैत्याः सर्वाश्च देवताःस एष भगवान्विष्णुः समुद्रे तप्यते तपः ॥१८॥
स्वं चेत्कर्मफलं न स्यात्सर्वमेवाफलं भवेत्लोको दैवं समालम्ब्य उदासीनो भवेन्न तु ॥१९॥
अकृत्वा मानुषं कर्म यो दैवमनुवर्ततेवृथा श्राम्यति संप्राप्य पतिं क्लीबमिवाङ्गना ॥२०॥
न तथा मानुषे लोके भयमस्ति शुभाशुभेयथा त्रिदशलोके हि भयमल्पेन जायते ॥२१॥
कृतः पुरुषकारस्तु दैवमेवानुवर्ततेन दैवमकृते किंचित्कस्यचिद्दातुमर्हति ॥२२॥
यदा स्थानान्यनित्यानि दृश्यन्ते दैवतेष्वपिकथं कर्म विना दैवं स्थास्यते स्थापयिष्यति ॥२३॥
न दैवतानि लोकेऽस्मिन्व्यापारं यान्ति कस्यचित्व्यासङ्गं जनयन्त्युग्रमात्माभिभवशङ्कया ॥२४॥
ऋषीणां देवतानां च सदा भवति विग्रहःकस्य वाचा ह्यदैवं स्याद्यतो दैवं प्रवर्तते ॥२५॥
कथं चास्य समुत्पत्तिर्यथा दैवं प्रवर्ततेएवं त्रिदशलोकेऽपि प्राप्यन्ते बहवश्छलाः ॥२६॥
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनःआत्मैव चात्मनः साक्षी कृतस्याप्यकृतस्य च ॥२७॥
कृतं च विकृतं किंचित्कृते कर्मणि सिध्यतिसुकृते दुष्कृतं कर्म न यथार्थं प्रपद्यते ॥२८॥
देवानां शरणं पुण्यं सर्वं पुण्यैरवाप्यतेपुण्यशीलं नरं प्राप्य किं दैवं प्रकरिष्यति ॥२९॥
पुरा ययातिर्विभ्रष्टश्च्यावितः पतितः क्षितौपुनरारोपितः स्वर्गं दौहित्रैः पुण्यकर्मभिः ॥३०॥
पुरूरवाश्च राजर्षिर्द्विजैरभिहितः पुराऐल इत्यभिविख्यातः स्वर्गं प्राप्तो महीपतिः ॥३१॥
अश्वमेधादिभिर्यज्ञैः सत्कृतः कोसलाधिपःमहर्षिशापात्सौदासः पुरुषादत्वमागतः ॥३२॥
अश्वत्थामा च रामश्च मुनिपुत्रौ धनुर्धरौन गच्छतः स्वर्गलोकं सुकृतेनेह कर्मणा ॥३३॥
वसुर्यज्ञशतैरिष्ट्वा द्वितीय इव वासवःमिथ्याभिधानेनैकेन रसातलतलं गतः ॥३४॥
बलिर्वैरोचनिर्बद्धो धर्मपाशेन दैवतैःविष्णोः पुरुषकारेण पातालशयनः कृतः ॥३५॥
शक्रस्योदस्य चरणं प्रस्थितो जनमेजयःद्विजस्त्रीणां वधं कृत्वा किं दैवेन न वारितः ॥३६॥
अज्ञानाद्ब्राह्मणं हत्वा स्पृष्टो बालवधेन चवैशंपायनविप्रर्षिः किं दैवेन निवारितः ॥३७॥
गोप्रदानेन मिथ्या च ब्राह्मणेभ्यो महामखेपुरा नृगश्च राजर्षिः कृकलासत्वमागतः ॥३८॥
धुन्धुमारश्च राजर्षिः सत्रेष्वेव जरां गतःप्रीतिदायं परित्यज्य सुष्वाप स गिरिव्रजे ॥३९॥
पाण्डवानां हृतं राज्यं धार्तराष्ट्रैर्महाबलैःपुनः प्रत्याहृतं चैव न दैवाद्भुजसंश्रयात् ॥४०॥
तपोनियमसंयुक्ता मुनयः संशितव्रताःकिं ते दैवबलाच्छापमुत्सृजन्ते न कर्मणा ॥४१॥
पापमुत्सृजते लोके सर्वं प्राप्य सुदुर्लभम्लोभमोहसमापन्नं न दैवं त्रायते नरम् ॥४२॥
यथाग्निः पवनोद्धूतः सूक्ष्मोऽपि भवते महान्तथा कर्मसमायुक्तं दैवं साधु विवर्धते ॥४३॥
यथा तैलक्षयाद्दीपः प्रम्लानिमुपगच्छतितथा कर्मक्षयाद्दैवं प्रम्लानिमुपगच्छति ॥४४॥
विपुलमपि धनौघं प्राप्य भोगान्स्त्रियो वा; पुरुष इह न शक्तः कर्महीनोऽपि भोक्तुम्सुनिहितमपि चार्थं दैवतै रक्ष्यमाणं; व्ययगुणमपि साधुं कर्मणा संश्रयन्ते ॥४५॥
भवति मनुजलोकाद्देवलोको विशिष्टो; बहुतरसुसमृद्ध्या मानुषाणां गृहाणिपितृवनभवनाभं दृश्यते चामराणां; न च फलति विकर्मा जीवलोकेन दैवम् ॥४६॥
व्यपनयति विमार्गं नास्ति दैवे प्रभुत्वं; गुरुमिव कृतमग्र्यं कर्म संयाति दैवम्अनुपहतमदीनं कामकारेण दैवं; नयति पुरुषकारः संचितस्तत्र तत्र ॥४७॥
एतत्ते सर्वमाख्यातं मया वै मुनिसत्तमफलं पुरुषकारस्य सदा संदृश्य तत्त्वतः ॥४८॥
अभ्युत्थानेन दैवस्य समारब्धेन कर्मणाविधिना कर्मणा चैव स्वर्गमार्गमवाप्नुयात् ॥४९॥
End of chapter ॥
1
Mahabharata · Anushasana Parva

Adhyaya 6

0
Adhyaya 6Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0