Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Anushasana Parva
भीष्म उवाच
सर्वान्कामान्प्रयच्छन्ति ये प्रयच्छन्ति काञ्चनम्इत्येवं भगवानत्रिः पितामहसुतोऽब्रवीत् ॥१॥
पवित्रं शुच्यथायुष्यं पितॄणामक्षयं च तत्सुवर्णं मनुजेन्द्रेण हरिश्चन्द्रेण कीर्तितम् ॥२॥
पानीयदानं परमं दानानां मनुरब्रवीत्तस्माद्वापीश्च कूपांश्च तडागानि च खानयेत् ॥३॥
अर्धं पापस्य हरति पुरुषस्येह कर्मणःकूपः प्रवृत्तपानीयः सुप्रवृत्तश्च नित्यशः ॥४॥
सर्वं तारयते वंशं यस्य खाते जलाशयेगावः पिबन्ति विप्राश्च साधवश्च नराः सदा ॥५॥
निदाघकाले पानीयं यस्य तिष्ठत्यवारितम्स दुर्गं विषमं कृच्छ्रं न कदाचिदवाप्नुते ॥६॥
बृहस्पतेर्भगवतः पूष्णश्चैव भगस्य चअश्विनोश्चैव वह्नेश्च प्रीतिर्भवति सर्पिषा ॥७॥
परमं भेषजं ह्येतद्यज्ञानामेतदुत्तमम्रसानामुत्तमं चैतत्फलानां चैतदुत्तमम् ॥८॥
फलकामो यशस्कामः पुष्टिकामश्च नित्यदाघृतं दद्याद्द्विजातिभ्यः पुरुषः शुचिरात्मवान् ॥९॥
घृतं मासे आश्वयुजि विप्रेभ्यो यः प्रयच्छतितस्मै प्रयच्छतो रूपं प्रीतौ देवाविहाश्विनौ ॥१०॥
पायसं सर्पिषा मिश्रं द्विजेभ्यो यः प्रयच्छतिगृहं तस्य न रक्षांसि धर्षयन्ति कदाचन ॥११॥
पिपासया न म्रियते सोपच्छन्दश्च दृश्यतेन प्राप्नुयाच्च व्यसनं करकान्यः प्रयच्छति ॥१२॥
प्रयतो ब्राह्मणाग्रेभ्यः श्रद्धया परया युतःउपस्पर्शनषड्भागं लभते पुरुषः सदा ॥१३॥
यः साधनार्थं काष्ठानि ब्राह्मणेभ्यः प्रयच्छतिप्रतापार्थं च राजेन्द्र वृत्तवद्भ्यः सदा नरः ॥१४॥
सिध्यन्त्यर्थाः सदा तस्य कार्याणि विविधानि चउपर्युपरि शत्रूणां वपुषा दीप्यते च सः ॥१५॥
भगवांश्चास्य सुप्रीतो वह्निर्भवति नित्यशःन तं त्यजन्ते पशवः संग्रामे च जयत्यपि ॥१६॥
पुत्राञ्छ्रियं च लभते यश्छत्रं संप्रयच्छतिचक्षुर्व्याधिं न लभते यज्ञभागमथाश्नुते ॥१७॥
निदाघकाले वर्षे वा यश्छत्रं संप्रयच्छतिनास्य कश्चिन्मनोदाहः कदाचिदपि जायतेकृच्छ्रात्स विषमाच्चैव विप्र मोक्षमवाप्नुते ॥१८॥
प्रदानं सर्वदानानां शकटस्य विशिष्यतेएवमाह महाभागः शाण्डिल्यो भगवानृषिः ॥१९॥
End of chapter ॥
1
Mahabharata · Anushasana Parva

Adhyaya 64

0
Adhyaya 64Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0