Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Anushasana Parva
युधिष्ठिर उवाच
दह्यमानाय विप्राय यः प्रयच्छत्युपानहौयत्फलं तस्य भवति तन्मे ब्रूहि पितामह ॥१॥
भीष्म उवाच
उपानहौ प्रयच्छेद्यो ब्राह्मणेभ्यः समाहितःमर्दते कण्टकान्सर्वान्विषमान्निस्तरत्यपिस शत्रूणामुपरि च संतिष्ठति युधिष्ठिर ॥२॥
यानं चाश्वतरीयुक्तं तस्य शुभ्रं विशां पतेउपतिष्ठति कौन्तेय रूप्यकाञ्चनभूषणम्शकटं दम्यसंयुक्तं दत्तं भवति चैव हि ॥३॥
युधिष्ठिर उवाच
यत्फलं तिलदाने च भूमिदाने च कीर्तितम्गोप्रदानेऽन्नदाने च भूयस्तद्ब्रूहि कौरव ॥४॥
भीष्म उवाच
शृणुष्व मम कौन्तेय तिलदानस्य यत्फलम्निशम्य च यथान्यायं प्रयच्छ कुरुसत्तम ॥५॥
पितॄणां प्रथमं भोज्यं तिलाः सृष्टाः स्वयंभुवातिलदानेन वै तस्मात्पितृपक्षः प्रमोदते ॥६॥
माघमासे तिलान्यस्तु ब्राह्मणेभ्यः प्रयच्छतिसर्वसत्त्वसमाकीर्णं नरकं स न पश्यति ॥७॥
सर्वकामैः स यजते यस्तिलैर्यजते पितॄन्न चाकामेन दातव्यं तिलश्राद्धं कथंचन ॥८॥
महर्षेः कश्यपस्यैते गात्रेभ्यः प्रसृतास्तिलाःततो दिव्यं गता भावं प्रदानेषु तिलाः प्रभो ॥९॥
पौष्टिका रूपदाश्चैव तथा पापविनाशनाःतस्मात्सर्वप्रदानेभ्यस्तिलदानं विशिष्यते ॥१०॥
आपस्तम्बश्च मेधावी शङ्खश्च लिखितस्तथामहर्षिर्गौतमश्चापि तिलदानैर्दिवं गताः ॥११॥
तिलहोमपरा विप्राः सर्वे संयतमैथुनाःसमा गव्येन हविषा प्रवृत्तिषु च संस्थिताः ॥१२॥
सर्वेषामेव दानानां तिलदानं परं स्मृतम्अक्षयं सर्वदानानां तिलदानमिहोच्यते ॥१३॥
उत्पन्ने च पुरा हव्ये कुशिकर्षिः परंतपतिलैरग्नित्रयं हुत्वा प्राप्तवान्गतिमुत्तमाम् ॥१४॥
इति प्रोक्तं कुरुश्रेष्ठ तिलदानमनुत्तमम्विधानं येन विधिना तिलानामिह शस्यते ॥१५॥
अत ऊर्ध्वं निबोधेदं देवानां यष्टुमिच्छताम्समागमं महाराज ब्रह्मणा वै स्वयंभुवा ॥१६॥
देवाः समेत्य ब्रह्माणं भूमिभागं यियक्षवःशुभं देशमयाचन्त यजेम इति पार्थिव ॥१७॥
देवा ऊचुःभगवंस्त्वं प्रभुर्भूमेः सर्वस्य त्रिदिवस्य चयजेमहि महाभाग यज्ञं भवदनुज्ञयानाननुज्ञातभूमिर्हि यज्ञस्य फलमश्नुते ॥१८॥
त्वं हि सर्वस्य जगतः स्थावरस्य चरस्य चप्रभुर्भवसि तस्मात्त्वं समनुज्ञातुमर्हसि ॥१९॥
ब्रह्मोवाचददामि मेदिनीभागं भवद्भ्योऽहं सुरर्षभाःयस्मिन्देशे करिष्यध्वं यज्ञं काश्यपनन्दनाः ॥२०॥
देवा ऊचुःभगवन्कृतकामाः स्मो यक्ष्यामस्त्वाप्तदक्षिणैःइमं तु देशं मुनयः पर्युपासन्त नित्यदा ॥२१॥
भीष्म उवाच
ततोऽगस्त्यश्च कण्वश्च भृगुरत्रिर्वृषाकपिःअसितो देवलश्चैव देवयज्ञमुपागमन् ॥२२॥
ततो देवा महात्मान ईजिरे यज्ञमच्युततथा समापयामासुर्यथाकालं सुरर्षभाः ॥२३॥
त इष्टयज्ञास्त्रिदशा हिमवत्यचलोत्तमेषष्ठमंशं क्रतोस्तस्य भूमिदानं प्रचक्रिरे ॥२४॥
प्रादेशमात्रं भूमेस्तु यो दद्यादनुपस्कृतम्न सीदति स कृच्छ्रेषु न च दुर्गाण्यवाप्नुते ॥२५॥
शीतवातातपसहां गृहभूमिं सुसंस्कृताम्प्रदाय सुरलोकस्थः पुण्यान्तेऽपि न चाल्यते ॥२६॥
मुदितो वसते प्राज्ञः शक्रेण सह पार्थिवप्रतिश्रयप्रदाता च सोऽपि स्वर्गे महीयते ॥२७॥
अध्यापककुले जातः श्रोत्रियो नियतेन्द्रियःगृहे यस्य वसेत्तुष्टः प्रधानं लोकमश्नुते ॥२८॥
तथा गवार्थे शरणं शीतवर्षसहं महत्आसप्तमं तारयति कुलं भरतसत्तम ॥२९॥
क्षेत्रभूमिं ददल्लोके पुत्र श्रियमवाप्नुयात्रत्नभूमिं प्रदत्त्वा तु कुलवंशं विवर्धयेत् ॥३०॥
न चोषरां न निर्दग्धां महीं दद्यात्कथंचनन श्मशानपरीतां च न च पापनिषेविताम् ॥३१॥
पारक्ये भूमिदेशे तु पितॄणां निर्वपेत्तु यःतद्भूमिस्वामिपितृभिः श्राद्धकर्म विहन्यते ॥३२॥
तस्मात्क्रीत्वा महीं दद्यात्स्वल्पामपि विचक्षणःपिण्डः पितृभ्यो दत्तो वै तस्यां भवति शाश्वतः ॥३३॥
अटवीपर्वताश्चैव नदीतीर्थानि यानि चसर्वाण्यस्वामिकान्याहुर्न हि तत्र परिग्रहः ॥३४॥
इत्येतद्भूमिदानस्य फलमुक्तं विशां पतेअतः परं तु गोदानं कीर्तयिष्यामि तेऽनघ ॥३५॥
गावोऽधिकास्तपस्विभ्यो यस्मात्सर्वेभ्य एव चतस्मान्महेश्वरो देवस्तपस्ताभिः समास्थितः ॥३६॥
ब्रह्मलोके वसन्त्येताः सोमेन सह भारतआसां ब्रह्मर्षयः सिद्धाः प्रार्थयन्ति परां गतिम् ॥३७॥
पयसा हविषा दध्ना शकृताप्यथ चर्मणाअस्थिभिश्चोपकुर्वन्ति शृङ्गैर्वालैश्च भारत ॥३८॥
नासां शीतातपौ स्यातां सदैताः कर्म कुर्वतेन वर्षं विषमं वापि दुःखमासां भवत्युत ॥३९॥
ब्राह्मणैः सहिता यान्ति तस्मात्परतरं पदम्एकं गोब्राह्मणं तस्मात्प्रवदन्ति मनीषिणः ॥४०॥
रन्तिदेवस्य यज्ञे ताः पशुत्वेनोपकल्पिताःततश्चर्मण्वती राजन्गोचर्मभ्यः प्रवर्तिता ॥४१॥
पशुत्वाच्च विनिर्मुक्ताः प्रदानायोपकल्पिताःता इमा विप्रमुख्येभ्यो यो ददाति महीपतेनिस्तरेदापदं कृच्छ्रां विषमस्थोऽपि पार्थिव ॥४२॥
गवां सहस्रदः प्रेत्य नरकं न प्रपश्यतिसर्वत्र विजयं चापि लभते मनुजाधिप ॥४३॥
अमृतं वै गवां क्षीरमित्याह त्रिदशाधिपःतस्माद्ददाति यो धेनुममृतं स प्रयच्छति ॥४४॥
अग्नीनामव्ययं ह्येतद्धौम्यं वेदविदो विदुःतस्माद्ददाति यो धेनुं स हौम्यं संप्रयच्छति ॥४५॥
स्वर्गो वै मूर्तिमानेष वृषभं यो गवां पतिम्विप्रे गुणयुते दद्यात्स वै स्वर्गे महीयते ॥४६॥
प्राणा वै प्राणिनामेते प्रोच्यन्ते भरतर्षभतस्माद्ददाति यो धेनुं प्राणान्वै स प्रयच्छति ॥४७॥
गावः शरण्या भूतानामिति वेदविदो विदुःतस्माद्ददाति यो धेनुं शरणं संप्रयच्छति ॥४८॥
न वधार्थं प्रदातव्या न कीनाशे न नास्तिकेगोजीविने न दातव्या तथा गौः पुरुषर्षभ ॥४९॥
ददाति तादृशानां वै नरो गाः पापकर्मणाम्अक्षयं नरकं यातीत्येवमाहुर्मनीषिणः ॥५०॥
न कृशां पापवत्सां वा वन्ध्यां रोगान्वितां तथान व्यङ्गां न परिश्रान्तां दद्याद्गां ब्राह्मणाय वै ॥५१॥
दशगोसहस्रदः सम्यक्शक्रेण सह मोदतेअक्षयाँल्लभते लोकान्नरः शतसहस्रदः ॥५२॥
इत्येतद्गोप्रदानं च तिलदानं च कीर्तितम्तथा भूमिप्रदानं च शृणुष्वान्ने च भारत ॥५३॥
अन्नदानं प्रधानं हि कौन्तेय परिचक्षतेअन्नस्य हि प्रदानेन रन्तिदेवो दिवं गतः ॥५४॥
श्रान्ताय क्षुधितायान्नं यः प्रयच्छति भूमिपस्वायंभुवं महाभागं स पश्यति नराधिप ॥५५॥
न हिरण्यैर्न वासोभिर्नाश्वदानेन भारतप्राप्नुवन्ति नराः श्रेयो यथेहान्नप्रदाः प्रभो ॥५६॥
अन्नं वै परमं द्रव्यमन्नं श्रीश्च परा मताअन्नात्प्राणः प्रभवति तेजो वीर्यं बलं तथा ॥५७॥
सद्भ्यो ददाति यश्चान्नं सदैकाग्रमना नरःन स दुर्गाण्यवाप्नोतीत्येवमाह पराशरः ॥५८॥
अर्चयित्वा यथान्यायं देवेभ्योऽन्नं निवेदयेत्यदन्नो हि नरो राजंस्तदन्नास्तस्य देवताः ॥५९॥
कौमुद्यां शुक्लपक्षे तु योऽन्नदानं करोत्युतस संतरति दुर्गाणि प्रेत्य चानन्त्यमश्नुते ॥६०॥
अभुक्त्वातिथये चान्नं प्रयच्छेद्यः समाहितःस वै ब्रह्मविदां लोकान्प्राप्नुयाद्भरतर्षभ ॥६१॥
सुकृच्छ्रामापदं प्राप्तश्चान्नदः पुरुषस्तरेत्पापं तरति चैवेह दुष्कृतं चापकर्षति ॥६२॥
इत्येतदन्नदानस्य तिलदानस्य चैव हभूमिदानस्य च फलं गोदानस्य च कीर्तितम् ॥६३॥
End of chapter ॥
1
Mahabharata · Anushasana Parva

Adhyaya 65

0
Adhyaya 65Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0