Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Anushasana Parva
युधिष्ठिर उवाच
तिलानां कीदृशं दानमथ दीपस्य चैव हअन्नानां वाससां चैव भूय एव ब्रवीहि मे ॥१॥
भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्ब्राह्मणस्य च संवादं यमस्य च युधिष्ठिर ॥२॥
मध्यदेशे महान्ग्रामो ब्राह्मणानां बभूव हगङ्गायमुनयोर्मध्ये यामुनस्य गिरेरधः ॥३॥
पर्णशालेति विख्यातो रमणीयो नराधिपविद्वांसस्तत्र भूयिष्ठा ब्राह्मणाश्चावसंस्तदा ॥४॥
अथ प्राह यमः कंचित्पुरुषं कृष्णवाससम्रक्ताक्षमूर्ध्वरोमाणं काकजङ्घाक्षिनासिकम् ॥५॥
गच्छ त्वं ब्राह्मणग्रामं ततो गत्वा तमानयअगस्त्यं गोत्रतश्चापि नामतश्चापि शर्मिणम् ॥६॥
शमे निविष्टं विद्वांसमध्यापकमनादृतम्मा चान्यमानयेथास्त्वं सगोत्रं तस्य पार्श्वतः ॥७॥
स हि तादृग्गुणस्तेन तुल्योऽध्ययनजन्मनाअपत्येषु तथा वृत्ते समस्तेनैव धीमतातमानय यथोद्दिष्टं पूजा कार्या हि तस्य मे ॥८॥
स गत्वा प्रतिकूलं तच्चकार यमशासनम्तमाक्रम्यानयामास प्रतिषिद्धो यमेन यः ॥९॥
तस्मै यमः समुत्थाय पूजां कृत्वा च वीर्यवान्प्रोवाच नीयतामेष सोऽन्य आनीयतामिति ॥१०॥
एवमुक्ते तु वचने धर्मराजेन स द्विजःउवाच धर्मराजानं निर्विण्णोऽध्ययनेन वैयो मे कालो भवेच्छेषस्तं वसेयमिहाच्युत ॥११॥
यम उवाच
नाहं कालस्य विहितं प्राप्नोमीह कथंचनयो हि धर्मं चरति वै तं तु जानामि केवलम् ॥१२॥
गच्छ विप्र त्वमद्यैव आलयं स्वं महाद्युतेब्रूहि वा त्वं यथा स्वैरं करवाणि किमित्युत ॥१३॥
ब्राह्मण उवाच
यत्तत्र कृत्वा सुमहत्पुण्यं स्यात्तद्ब्रवीहि मेसर्वस्य हि प्रमाणं त्वं त्रैलोक्यस्यापि सत्तम ॥१४॥
यम उवाच
शृणु तत्त्वेन विप्रर्षे प्रदानविधिमुत्तमम्तिलाः परमकं दानं पुण्यं चैवेह शाश्वतम् ॥१५॥
तिलाश्च संप्रदातव्या यथाशक्ति द्विजर्षभनित्यदानात्सर्वकामांस्तिला निर्वर्तयन्त्युत ॥१६॥
तिलाञ्श्राद्धे प्रशंसन्ति दानमेतद्ध्यनुत्तमम्तान्प्रयच्छस्व विप्रेभ्यो विधिदृष्टेन कर्मणा ॥१७॥
तिला भक्षयितव्याश्च सदा त्वालभनं च तैःकार्यं सततमिच्छद्भिः श्रेयः सर्वात्मना गृहे ॥१८॥
तथापः सर्वदा देयाः पेयाश्चैव न संशयःपुष्करिण्यस्तडागानि कूपांश्चैवात्र खानयेत् ॥१९॥
एतत्सुदुर्लभतरमिह लोके द्विजोत्तमआपो नित्यं प्रदेयास्ते पुण्यं ह्येतदनुत्तमम् ॥२०॥
प्रपाश्च कार्याः पानार्थं नित्यं ते द्विजसत्तमभुक्तेऽप्यथ प्रदेयं ते पानीयं वै विशेषतः ॥२१॥
इत्युक्ते स तदा तेन यमदूतेन वै गृहान्नीतश्चकार च तथा सर्वं तद्यमशासनम् ॥२२॥
नीत्वा तं यमदूतोऽपि गृहीत्वा शर्मिणं तदाययौ स धर्मराजाय न्यवेदयत चापि तम् ॥२३॥
तं धर्मराजो धर्मज्ञं पूजयित्वा प्रतापवान्कृत्वा च संविदं तेन विससर्ज यथागतम् ॥२४॥
तस्यापि च यमः सर्वमुपदेशं चकार हप्रत्येत्य च स तत्सर्वं चकारोक्तं यमेन तत् ॥२५॥
तथा प्रशंसते दीपान्यमः पितृहितेप्सयातस्माद्दीपप्रदो नित्यं संतारयति वै पितॄन् ॥२६॥
दातव्याः सततं दीपास्तस्माद्भरतसत्तमदेवानां च पितॄणां च चक्षुष्यास्ते मताः प्रभो ॥२७॥
रत्नदानं च सुमहत्पुण्यमुक्तं जनाधिपतानि विक्रीय यजते ब्राह्मणो ह्यभयंकरः ॥२८॥
यद्वै ददाति विप्रेभ्यो ब्राह्मणः प्रतिगृह्य वैउभयोः स्यात्तदक्षय्यं दातुरादातुरेव च ॥२९॥
यो ददाति स्थितः स्थित्यां तादृशाय प्रतिग्रहम्उभयोरक्षयं धर्मं तं मनुः प्राह धर्मवित् ॥३०॥
वाससां तु प्रदानेन स्वदारनिरतो नरःसुवस्त्रश्च सुवेषश्च भवतीत्यनुशुश्रुम ॥३१॥
गावः सुवर्णं च तथा तिलाश्चैवानुवर्णिताःबहुशः पुरुषव्याघ्र वेदप्रामाण्यदर्शनात् ॥३२॥
विवाहांश्चैव कुर्वीत पुत्रानुत्पादयेत चपुत्रलाभो हि कौरव्य सर्वलाभाद्विशिष्यते ॥३३॥
End of chapter ॥
1
Mahabharata · Anushasana Parva

Adhyaya 67

0
Adhyaya 67Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0