Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Anushasana Parva
भीष्म उवाच
अत्रैव कीर्त्यते सद्भिर्ब्राह्मणस्वाभिमर्शनेनृगेण सुमहत्कृच्छ्रं यदवाप्तं कुरूद्वह ॥१॥
निविशन्त्यां पुरा पार्थ द्वारवत्यामिति श्रुतिःअदृश्यत महाकूपस्तृणवीरुत्समावृतः ॥२॥
प्रयत्नं तत्र कुर्वाणास्तस्मात्कूपाज्जलार्थिनःश्रमेण महता युक्तास्तस्मिंस्तोये सुसंवृते ॥३॥
ददृशुस्ते महाकायं कृकलासमवस्थितम्तस्य चोद्धरणे यत्नमकुर्वंस्ते सहस्रशः ॥४॥
प्रग्रहैश्चर्मपट्टैश्च तं बद्ध्वा पर्वतोपमम्नाशक्नुवन्समुद्धर्तुं ततो जग्मुर्जनार्दनम् ॥५॥
खमावृत्योदपानस्य कृकलासः स्थितो महान्तस्य नास्ति समुद्धर्तेत्यथ कृष्णे न्यवेदयन् ॥६॥
स वासुदेवेन समुद्धृतश्च; पृष्टश्च कामान्निजगाद राजानृगस्तदात्मानमथो न्यवेदय;त्पुरातनं यज्ञसहस्रयाजिनम् ॥७॥
तथा ब्रुवाणं तु तमाह माधवः; शुभं त्वया कर्म कृतं न पापकम्कथं भवान्दुर्गतिमीदृशीं गतो; नरेन्द्र तद्ब्रूहि किमेतदीदृशम् ॥८॥
शतं सहस्राणि शतं गवां पुनः; पुनः शतान्यष्ट शतायुतानित्वया पुरा दत्तमितीह शुश्रुम; नृप द्विजेभ्यः क्व नु तद्गतं तव ॥९॥
नृगस्ततोऽब्रवीत्कृष्णं ब्राह्मणस्याग्निहोत्रिणःप्रोषितस्य परिभ्रष्टा गौरेका मम गोधने ॥१०॥
गवां सहस्रे संख्याता तदा सा पशुपैर्ममसा ब्राह्मणाय मे दत्ता प्रेत्यार्थमभिकाङ्क्षता ॥११॥
अपश्यत्परिमार्गंश्च तां यां परगृहे द्विजःममेयमिति चोवाच ब्राह्मणो यस्य साभवत् ॥१२॥
तावुभौ समनुप्राप्तौ विवदन्तौ भृशज्वरौभवान्दाता भवान्हर्तेत्यथ तौ मां तदोचतुः ॥१३॥
शतेन शतसंख्येन गवां विनिमयेन वैयाचे प्रतिग्रहीतारं स तु मामब्रवीदिदम् ॥१४॥
देशकालोपसंपन्ना दोग्ध्री क्षान्तातिवत्सलास्वादुक्षीरप्रदा धन्या मम नित्यं निवेशने ॥१५॥
कृशं च भरते या गौर्मम पुत्रमपस्तनम्न सा शक्या मया हातुमित्युक्त्वा स जगाम ह ॥१६॥
ततस्तमपरं विप्रं याचे विनिमयेन वैगवां शतसहस्रं वै तत्कृते गृह्यतामिति ॥१७॥
ब्राह्मण उवाच
न राज्ञां प्रतिगृह्णामि शक्तोऽहं स्वस्य मार्गणेसैव गौर्दीयतां शीघ्रं ममेति मधुसूदन ॥१८॥
रुक्ममश्वांश्च ददतो रजतं स्यन्दनांस्तथान जग्राह ययौ चापि तदा स ब्राह्मणर्षभः ॥१९॥
एतस्मिन्नेव काले तु चोदितः कालधर्मणापितृलोकमहं प्राप्य धर्मराजमुपागमम् ॥२०॥
यमस्तु पूजयित्वा मां ततो वचनमब्रवीत्नान्तः संख्यायते राजंस्तव पुण्यस्य कर्मणः ॥२१॥
अस्ति चैव कृतं पापमज्ञानात्तदपि त्वयाचरस्व पापं पश्चाद्वा पूर्वं वा त्वं यथेच्छसि ॥२२॥
रक्षितास्मीति चोक्तं ते प्रतिज्ञा चानृता तवब्राह्मणस्वस्य चादानं त्रिविधस्ते व्यतिक्रमः ॥२३॥
पूर्वं कृच्छ्रं चरिष्येऽहं पश्चाच्छुभमिति प्रभोधर्मराजं ब्रुवन्नेवं पतितोऽस्मि महीतले ॥२४॥
अश्रौषं प्रच्युतश्चाहं यमस्योच्चैः प्रभाषतःवासुदेवः समुद्धर्ता भविता ते जनार्दनः ॥२५॥
पूर्णे वर्षसहस्रान्ते क्षीणे कर्मणि दुष्कृतेप्राप्स्यसे शाश्वताँल्लोकाञ्जितान्स्वेनैव कर्मणा ॥२६॥
कूपेऽऽत्मानमधःशीर्षमपश्यं पतितं च हतिर्यग्योनिमनुप्राप्तं न तु मामजहात्स्मृतिः ॥२७॥
त्वया तु तारितोऽस्म्यद्य किमन्यत्र तपोबलात्अनुजानीहि मां कृष्ण गच्छेयं दिवमद्य वै ॥२८॥
अनुज्ञातः स कृष्णेन नमस्कृत्य जनार्दनम्विमानं दिव्यमास्थाय ययौ दिवमरिंदम ॥२९॥
ततस्तस्मिन्दिवं प्राप्ते नृगे भरतसत्तमवासुदेव इमं श्लोकं जगाद कुरुनन्दन ॥३०॥
ब्राह्मणस्वं न हर्तव्यं पुरुषेण विजानताब्राह्मणस्वं हृतं हन्ति नृगं ब्राह्मणगौरिव ॥३१॥
सतां समागमः सद्भिर्नाफलः पार्थ विद्यतेविमुक्तं नरकात्पश्य नृगं साधुसमागमात् ॥३२॥
प्रदानं फलवत्तत्र द्रोहस्तत्र तथाफलःअपचारं गवां तस्माद्वर्जयेत युधिष्ठिर ॥३३॥
End of chapter ॥
1
Mahabharata · Anushasana Parva

Adhyaya 69

0
Adhyaya 69Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0