Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Anushasana Parva
युधिष्ठिर उवाच
विस्रम्भितोऽहं भवता धर्मान्प्रवदता विभोप्रवक्ष्यामि तु संदेहं तन्मे ब्रूहि पितामह ॥१॥
व्रतानां किं फलं प्रोक्तं कीदृशं वा महाद्युतेनियमानां फलं किं च स्वधीतस्य च किं फलम् ॥२॥
दमस्येह फलं किं च वेदानां धारणे च किम्अध्यापने फलं किं च सर्वमिच्छामि वेदितुम् ॥३॥
अप्रतिग्राहके किं च फलं लोके पितामहतस्य किं च फलं दृष्टं श्रुतं यः संप्रयच्छति ॥४॥
स्वकर्मनिरतानां च शूराणां चापि किं फलम्सत्ये च किं फलं प्रोक्तं ब्रह्मचर्ये च किं फलम् ॥५॥
पितृशुश्रूषणे किं च मातृशुश्रूषणे तथाआचार्यगुरुशुश्रूषास्वनुक्रोशानुकम्पने ॥६॥
एतत्सर्वमशेषेण पितामह यथातथम्वेत्तुमिच्छामि धर्मज्ञ परं कौतूहलं हि मे ॥७॥
भीष्म उवाच
यो व्रतं वै यथोद्दिष्टं तथा संप्रतिपद्यतेअखण्डं सम्यगारब्धं तस्य लोकाः सनातनाः ॥८॥
नियमानां फलं राजन्प्रत्यक्षमिह दृश्यतेनियमानां क्रतूनां च त्वयावाप्तमिदं फलम् ॥९॥
स्वधीतस्यापि च फलं दृश्यतेऽमुत्र चेह चइहलोकेऽर्थवान्नित्यं ब्रह्मलोके च मोदते ॥१०॥
दमस्य तु फलं राजञ्शृणु त्वं विस्तरेण मेदान्ताः सर्वत्र सुखिनो दान्ताः सर्वत्र निर्वृताः ॥११॥
यत्रेच्छागामिनो दान्ताः सर्वशत्रुनिषूदनाःप्रार्थयन्ति च यद्दान्ता लभन्ते तन्न संशयः ॥१२॥
युज्यन्ते सर्वकामैर्हि दान्ताः सर्वत्र पाण्डवस्वर्गे तथा प्रमोदन्ते तपसा विक्रमेण च ॥१३॥
दानैर्यज्ञैश्च विविधैर्यथा दान्ताः क्षमान्विताःदाता कुप्यति नो दान्तस्तस्माद्दानात्परो दमः ॥१४॥
यस्तु दद्यादकुप्यन्हि तस्य लोकाः सनातनाःक्रोधो हन्ति हि यद्दानं तस्माद्दानात्परो दमः ॥१५॥
अदृश्यानि महाराज स्थानान्ययुतशो दिविऋषीणां सर्वलोकेषु यानीतो यान्ति देवताः ॥१६॥
दमेन यानि नृपते गच्छन्ति परमर्षयःकामयाना महत्स्थानं तस्माद्दानात्परो दमः ॥१७॥
अध्यापकः परिक्लेशादक्षयं फलमश्नुतेविधिवत्पावकं हुत्वा ब्रह्मलोके नराधिप ॥१८॥
अधीत्यापि हि यो वेदान्न्यायविद्भ्यः प्रयच्छतिगुरुकर्मप्रशंसी च सोऽपि स्वर्गे महीयते ॥१९॥
क्षत्रियोऽध्ययने युक्तो यजने दानकर्मणियुद्धे यश्च परित्राता सोऽपि स्वर्गे महीयते ॥२०॥
वैश्यः स्वकर्मनिरतः प्रदानाल्लभते महत्शूद्रः स्वकर्मनिरतः स्वर्गं शुश्रूषयार्च्छति ॥२१॥
शूरा बहुविधाः प्रोक्तास्तेषामर्थांश्च मे शृणुशूरान्वयानां निर्दिष्टं फलं शूरस्य चैव ह ॥२२॥
यज्ञशूरा दमे शूराः सत्यशूरास्तथापरेयुद्धशूरास्तथैवोक्ता दानशूराश्च मानवाः ॥२३॥
बुद्धिशूरास्तथैवान्ये क्षमाशूरास्तथापरेआर्जवे च तथा शूराः शमे वर्तन्ति मानवाः ॥२४॥
तैस्तैस्तु नियमैः शूरा बहवः सन्ति चापरेवेदाध्ययनशूराश्च शूराश्चाध्यापने रताः ॥२५॥
गुरुशुश्रूषया शूराः पितृशुश्रूषयापरेमातृशुश्रूषया शूरा भैक्ष्यशूरास्तथापरे ॥२६॥
सांख्यशूराश्च बहवो योगशूरास्तथापरेअरण्ये गृहवासे च शूराश्चातिथिपूजनेसर्वे यान्ति पराँल्लोकान्स्वकर्मफलनिर्जितान् ॥२७॥
धारणं सर्ववेदानां सर्वतीर्थावगाहनम्सत्यं च ब्रुवतो नित्यं समं वा स्यान्न वा समम् ॥२८॥
अश्वमेधसहस्रं च सत्यं च तुलया धृतम्अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥२९॥
सत्येन सूर्यस्तपति सत्येनाग्निः प्रदीप्यतेसत्येन मारुतो वाति सर्वं सत्ये प्रतिष्ठितम् ॥३०॥
सत्येन देवान्प्रीणाति पितॄन्वै ब्राह्मणांस्तथासत्यमाहुः परं धर्मं तस्मात्सत्यं न लङ्घयेत् ॥३१॥
मुनयः सत्यनिरता मुनयः सत्यविक्रमाःमुनयः सत्यशपथास्तस्मात्सत्यं विशिष्यतेसत्यवन्तः स्वर्गलोके मोदन्ते भरतर्षभ ॥३२॥
दमः सत्यफलावाप्तिरुक्ता सर्वात्मना मयाअसंशयं विनीतात्मा सर्वः स्वर्गे महीयते ॥३३॥
ब्रह्मचर्यस्य तु गुणाञ्शृणु मे वसुधाधिपआ जन्ममरणाद्यस्तु ब्रह्मचारी भवेदिहन तस्य किंचिदप्राप्यमिति विद्धि जनाधिप ॥३४॥
बह्व्यः कोट्यस्त्वृषीणां तु ब्रह्मलोके वसन्त्युतसत्ये रतानां सततं दान्तानामूर्ध्वरेतसाम् ॥३५॥
ब्रह्मचर्यं दहेद्राजन्सर्वपापान्युपासितम्ब्राह्मणेन विशेषेण ब्राह्मणो ह्यग्निरुच्यते ॥३६॥
प्रत्यक्षं च तवाप्येतद्ब्राह्मणेषु तपस्विषुबिभेति हि यथा शक्रो ब्रह्मचारिप्रधर्षितःतद्ब्रह्मचर्यस्य फलमृषीणामिह दृश्यते ॥३७॥
मातापित्रोः पूजने यो धर्मस्तमपि मे शृणुशुश्रूषते यः पितरं न चासूयेत्कथंचनमातरं वानहंवादी गुरुमाचार्यमेव च ॥३८॥
तस्य राजन्फलं विद्धि स्वर्लोके स्थानमुत्तमम्न च पश्येत नरकं गुरुशुश्रूषुरात्मवान् ॥३९॥
End of chapter ॥
1
Mahabharata · Anushasana Parva

Adhyaya 74

0
Adhyaya 74Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0