Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Anushasana Parva
युधिष्ठिर उवाच
विधिं गवां परमहं श्रोतुमिच्छामि तत्त्वतःयेन ताञ्शाश्वताँल्लोकानखिलानश्नुवीमहि ॥१॥
भीष्म उवाच
न गोदानात्परं किंचिद्विद्यते वसुधाधिपगौर्हि न्यायागता दत्ता सद्यस्तारयते कुलम् ॥२॥
सतामर्थे सम्यगुत्पादितो यः; स वै कॢप्तः सम्यगिष्टः प्रजाभ्यःतस्मात्पूर्वं ह्यादिकाले प्रवृत्तं; गवां दाने शृणु राजन्विधिं मे ॥३॥
पुरा गोषूपनीतासु गोषु संदिग्धदर्शिनामान्धात्रा प्रकृतं प्रश्नं बृहस्पतिरभाषत ॥४॥
द्विजातिमभिसत्कृत्य श्वः कालमभिवेद्य चप्रदानार्थे नियुञ्जीत रोहिणीं नियतव्रतः ॥५॥
आह्वानं च प्रयुञ्जीत समङ्गे बहुलेति चप्रविश्य च गवां मध्यमिमां श्रुतिमुदाहरेत् ॥६॥
गौर्मे माता गोवृषभः पिता मे; दिवं शर्म जगती मे प्रतिष्ठाप्रपद्यैवं शर्वरीमुष्य गोषु; मुनिर्वाणीमुत्सृजेद्गोप्रदाने ॥७॥
स तामेकां निशां गोभिः समसख्यः समव्रतःऐकात्म्यगमनात्सद्यः कल्मषाद्विप्रमुच्यते ॥८॥
उत्सृष्टवृषवत्सा हि प्रदेया सूर्यदर्शनेत्रिविधं प्रतिपत्तव्यमर्थवादाशिषः स्तवाः ॥९॥
ऊर्जस्विन्य ऊर्जमेधाश्च यज्ञो; गर्भोऽमृतस्य जगतश्च प्रतिष्ठाक्षितौ राधःप्रभवः शश्वदेव; प्राजापत्याः सर्वमित्यर्थवादः ॥१०॥
गावो ममैनः प्रणुदन्तु सौर्या;स्तथा सौम्याः स्वर्गयानाय सन्तुआम्नाता मे ददतीराश्रयं तु; तथानुक्ताः सन्तु सर्वाशिषो मे ॥११॥
शेषोत्सर्गे कर्मभिर्देहमोक्षे; सरस्वत्यः श्रेयसि संप्रवृत्ताःयूयं नित्यं पुण्यकर्मोपवाह्या; दिशध्वं मे गतिमिष्टां प्रपन्नाः ॥१२॥
या वै यूयं सोऽहमद्यैकभावो; युष्मान्दत्त्वा चाहमात्मप्रदातामनश्च्युता मनएवोपपन्नाः; संधुक्षध्वं सौम्यरूपोग्ररूपाः ॥१३॥
एवं तस्याग्रे पूर्वमर्धं वदेत; गवां दाता विधिवत्पूर्वदृष्टम्प्रतिब्रूयाच्छेषमर्धं द्विजातिः; प्रतिगृह्णन्वै गोप्रदाने विधिज्ञः ॥१४॥
गां ददानीति वक्तव्यमर्घ्यवस्त्रवसुप्रदःऊधस्या भरितव्या च वैष्णवीति च चोदयेत् ॥१५॥
नाम संकीर्तयेत्तस्या यथासंख्योत्तरं स वैफलं षड्विंशदष्टौ च सहस्राणि च विंशतिः ॥१६॥
एवमेतान्गुणान्वृद्धान्गवादीनां यथाक्रमम्गोप्रदाता समाप्नोति समस्तानष्टमे क्रमे ॥१७॥
गोदः शीली निर्भयश्चार्घदाता; न स्याद्दुःखी वसुदाता च कामीऊधस्योढा भारत यश्च विद्वा;न्व्याख्यातास्ते वैष्णवाश्चन्द्रलोकाः ॥१८॥
गा वै दत्त्वा गोव्रती स्यात्त्रिरात्रं; निशां चैकां संवसेतेह ताभिःकाम्याष्टम्यां वर्तितव्यं त्रिरात्रं; रसैर्वा गोः शकृता प्रस्नवैर्वा ॥१९॥
वेदव्रती स्याद्वृषभप्रदाता; वेदावाप्तिर्गोयुगस्य प्रदानेतथा गवां विधिमासाद्य यज्वा; लोकानग्र्यान्विन्दते नाविधिज्ञः ॥२०॥
कामान्सर्वान्पार्थिवानेकसंस्था;न्यो वै दद्यात्कामदुघां च धेनुम्सम्यक्ताः स्युर्हव्यकव्यौघवत्य;स्तासामुक्ष्णां ज्यायसां संप्रदानम् ॥२१॥
न चाशिष्यायाव्रतायोपकुर्या;न्नाश्रद्दधानाय न वक्रबुद्धयेगुह्यो ह्ययं सर्वलोकस्य धर्मो; नेमं धर्मं यत्र तत्र प्रजल्पेत् ॥२२॥
सन्ति लोके श्रद्दधाना मनुष्याः; सन्ति क्षुद्रा राक्षसा मानुषेषुयेषां दानं दीयमानं ह्यनिष्टं; नास्तिक्यं चाप्याश्रयन्ते ह्यपुण्याः ॥२३॥
बार्हस्पत्यं वाक्यमेतन्निशम्य; ये राजानो गोप्रदानानि कृत्वालोकान्प्राप्ताः पुण्यशीलाः सुवृत्ता;स्तान्मे राजन्कीर्त्यमानान्निबोध ॥२४॥
उशीनरो विष्वगश्वो नृगश्च; भगीरथो विश्रुतो यौवनाश्वःमान्धाता वै मुचुकुन्दश्च राजा; भूरिद्युम्नो नैषधः सोमकश्च ॥२५॥
पुरूरवा भरतश्चक्रवर्ती; यस्यान्वये भारताः सर्व एवतथा वीरो दाशरथिश्च रामो; ये चाप्यन्ये विश्रुताः कीर्तिमन्तः ॥२६॥
तथा राजा पृथुकर्मा दिलीपो; दिवं प्राप्तो गोप्रदाने विधिज्ञःयज्ञैर्दानैस्तपसा राजधर्मै;र्मान्धाताभूद्गोप्रदानैश्च युक्तः ॥२७॥
तस्मात्पार्थ त्वमपीमां मयोक्तां; बार्हस्पतीं भारतीं धारयस्वद्विजाग्र्येभ्यः संप्रयच्छ प्रतीतो; गाः पुण्या वै प्राप्य राज्यं कुरूणाम् ॥२८॥
वैशंपायन उवाच
तथा सर्वं कृतवान्धर्मराजो; भीष्मेणोक्तो विधिवद्गोप्रदानेस मान्धातुर्देवदेवोपदिष्टं; सम्यग्धर्मं धारयामास राजा ॥२९॥
इति नृप सततं गवां प्रदाने; यवशकलान्सह गोमयैः पिबानःक्षितितलशयनः शिखी यतात्मा; वृष इव राजवृषस्तदा बभूव ॥३०॥
स नृपतिरभवत्सदैव ताभ्यः; प्रयतमना ह्यभिसंस्तुवंश्च गा वैनृपधुरि च न गामयुङ्क्त भूय;स्तुरगवरैरगमच्च यत्र तत्र ॥३१॥
End of chapter ॥
1
Mahabharata · Anushasana Parva

Adhyaya 75

0
Adhyaya 75Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0