Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Anushasana Parva
भीष्म उवाच
ये च गाः संप्रयच्छन्ति हुतशिष्टाशिनश्च येतेषां सत्राणि यज्ञाश्च नित्यमेव युधिष्ठिर ॥१॥
ऋते दधिघृतेनेह न यज्ञः संप्रवर्ततेतेन यज्ञस्य यज्ञत्वमतोमूलं च लक्ष्यते ॥२॥
दानानामपि सर्वेषां गवां दानं प्रशस्यतेगावः श्रेष्ठाः पवित्राश्च पावनं ह्येतदुत्तमम् ॥३॥
पुष्ट्यर्थमेताः सेवेत शान्त्यर्थमपि चैव हपयो दधि घृतं यासां सर्वपापप्रमोचनम् ॥४॥
गावस्तेजः परं प्रोक्तमिह लोके परत्र चन गोभ्यः परमं किंचित्पवित्रं पुरुषर्षभ ॥५॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्पितामहस्य संवादमिन्द्रस्य च युधिष्ठिर ॥६॥
पराभूतेषु दैत्येषु शक्रे त्रिभुवनेश्वरेप्रजाः समुदिताः सर्वाः सत्यधर्मपरायणाः ॥७॥
अथर्षयः सगन्धर्वाः किंनरोरगराक्षसाःदेवासुरसुपर्णाश्च प्रजानां पतयस्तथापर्युपासन्त कौरव्य कदाचिद्वै पितामहम् ॥८॥
नारदः पर्वतश्चैव विश्वावसुहहाहुहूदिव्यतानेषु गायन्तः पर्युपासन्त तं प्रभुम् ॥९॥
तत्र दिव्यानि पुष्पाणि प्रावहत्पवनस्तथाआजह्रुरृतवश्चापि सुगन्धीनि पृथक्पृथक् ॥१०॥
तस्मिन्देवसमावाये सर्वभूतसमागमेदिव्यवादित्रसंघुष्टे दिव्यस्त्रीचारणावृतेइन्द्रः पप्रच्छ देवेशमभिवाद्य प्रणम्य च ॥११॥
देवानां भगवन्कस्माल्लोकेशानां पितामहउपरिष्टाद्गवां लोक एतदिच्छामि वेदितुम् ॥१२॥
किं तपो ब्रह्मचर्यं वा गोभिः कृतमिहेश्वरदेवानामुपरिष्टाद्यद्वसन्त्यरजसः सुखम् ॥१३॥
ततः प्रोवाच तं ब्रह्मा शक्रं बलनिसूदनम्अवज्ञातास्त्वया नित्यं गावो बलनिसूदन ॥१४॥
तेन त्वमासां माहात्म्यं न वेत्थ शृणु तत्प्रभोगवां प्रभावं परमं माहात्म्यं च सुरर्षभ ॥१५॥
यज्ञाङ्गं कथिता गावो यज्ञ एव च वासवएताभिश्चाप्यृते यज्ञो न प्रवर्तेत्कथंचन ॥१६॥
धारयन्ति प्रजाश्चैव पयसा हविषा तथाएतासां तनयाश्चापि कृषियोगमुपासते ॥१७॥
जनयन्ति च धान्यानि बीजानि विविधानि चततो यज्ञाः प्रवर्तन्ते हव्यं कव्यं च सर्वशः ॥१८॥
पयो दधि घृतं चैव पुण्याश्चैताः सुराधिपवहन्ति विविधान्भारान्क्षुत्तृष्णापरिपीडिताः ॥१९॥
मुनींश्च धारयन्तीह प्रजाश्चैवापि कर्मणावासवाकूटवाहिन्यः कर्मणा सुकृतेन चउपरिष्टात्ततोऽस्माकं वसन्त्येताः सदैव हि ॥२०॥
एतत्ते कारणं शक्र निवासकृतमद्य वैगवां देवोपरिष्टाद्धि समाख्यातं शतक्रतो ॥२१॥
एता हि वरदत्ताश्च वरदाश्चैव वासवसौरभ्यः पुण्यकर्मिण्यः पावनाः शुभलक्षणाः ॥२२॥
यदर्थं गा गताश्चैव सौरभ्यः सुरसत्तमतच्च मे शृणु कार्त्स्न्येन वदतो बलसूदन ॥२३॥
पुरा देवयुगे तात दैत्येन्द्रेषु महात्मसुत्रीँल्लोकाननुशासत्सु विष्णौ गर्भत्वमागते ॥२४॥
अदित्यास्तप्यमानायास्तपो घोरं सुदुश्चरम्पुत्रार्थममरश्रेष्ठ पादेनैकेन नित्यदा ॥२५॥
तां तु दृष्ट्वा महादेवीं तप्यमानां महत्तपःदक्षस्य दुहिता देवी सुरभिर्नाम नामतः ॥२६॥
अतप्यत तपो घोरं हृष्टा धर्मपरायणाकैलासशिखरे रम्ये देवगन्धर्वसेविते ॥२७॥
व्यतिष्ठदेकपादेन परमं योगमास्थितादश वर्षसहस्राणि दश वर्षशतानि च ॥२८॥
संतप्तास्तपसा तस्या देवाः सर्षिमहोरगाःतत्र गत्वा मया सार्धं पर्युपासन्त तां शुभाम् ॥२९॥
अथाहमब्रुवं तत्र देवीं तां तपसान्विताम्किमर्थं तप्यते देवि तपो घोरमनिन्दिते ॥३०॥
प्रीतस्तेऽहं महाभागे तपसानेन शोभनेवरयस्व वरं देवि दातास्मीति पुरंदर ॥३१॥
सुरभ्युवाचवरेण भगवन्मह्यं कृतं लोकपितामहएष एव वरो मेऽद्य यत्प्रीतोऽसि ममानघ ॥३२॥
ब्रह्मोवाचतामेवं ब्रुवतीं देवीं सुरभीं त्रिदशेश्वरप्रत्यब्रुवं यद्देवेन्द्र तन्निबोध शचीपते ॥३३॥
अलोभकाम्यया देवि तपसा च शुभेन तेप्रसन्नोऽहं वरं तस्मादमरत्वं ददानि ते ॥३४॥
त्रयाणामपि लोकानामुपरिष्टान्निवत्स्यसिमत्प्रसादाच्च विख्यातो गोलोकः स भविष्यति ॥३५॥
मानुषेषु च कुर्वाणाः प्रजाः कर्म सुतास्तवनिवत्स्यन्ति महाभागे सर्वा दुहितरश्च ते ॥३६॥
मनसा चिन्तिता भोगास्त्वया वै दिव्यमानुषाःयच्च स्वर्गसुखं देवि तत्ते संपत्स्यते शुभे ॥३७॥
तस्या लोकाः सहस्राक्ष सर्वकामसमन्विताःन तत्र क्रमते मृत्युर्न जरा न च पावकःन दैन्यं नाशुभं किंचिद्विद्यते तत्र वासव ॥३८॥
तत्र दिव्यान्यरण्यानि दिव्यानि भवनानि चविमानानि च युक्तानि कामगानि च वासव ॥३९॥
व्रतैश्च विविधैः पुण्यैस्तथा तीर्थानुसेवनात्तपसा महता चैव सुकृतेन च कर्मणाशक्यः समासादयितुं गोलोकः पुष्करेक्षण ॥४०॥
एतत्ते सर्वमाख्यातं मया शक्रानुपृच्छतेन ते परिभवः कार्यो गवामरिनिसूदन ॥४१॥
भीष्म उवाच
एतच्छ्रुत्वा सहस्राक्षः पूजयामास नित्यदागाश्चक्रे बहुमानं च तासु नित्यं युधिष्ठिर ॥४२॥
एतत्ते सर्वमाख्यातं पावनं च महाद्युतेपवित्रं परमं चापि गवां माहात्म्यमुत्तमम्कीर्तितं पुरुषव्याघ्र सर्वपापविनाशनम् ॥४३॥
य इदं कथयेन्नित्यं ब्राह्मणेभ्यः समाहितःहव्यकव्येषु यज्ञेषु पितृकार्येषु चैव हसार्वकामिकमक्षय्यं पितॄंस्तस्योपतिष्ठति ॥४४॥
गोषु भक्तश्च लभते यद्यदिच्छति मानवःस्त्रियोऽपि भक्ता या गोषु ताश्च कामानवाप्नुयुः ॥४५॥
पुत्रार्थी लभते पुत्रं कन्या पतिमवाप्नुयात्धनार्थी लभते वित्तं धर्मार्थी धर्ममाप्नुयात् ॥४६॥
विद्यार्थी प्राप्नुयाद्विद्यां सुखार्थी प्राप्नुयात्सुखम्न किंचिद्दुर्लभं चैव गवां भक्तस्य भारत ॥४७॥
End of chapter ॥
1
Mahabharata · Anushasana Parva

Adhyaya 82

0
Adhyaya 82Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0