Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Anushasana Parva
युधिष्ठिर उवाच
उक्तं पितामहेनेदं गवां दानमनुत्तमम्विशेषेण नरेन्द्राणामिति धर्ममवेक्षताम् ॥१॥
राज्यं हि सततं दुःखमाश्रमाश्च सुदुर्विदाःपरिवारेण वै दुःखं दुर्धरं चाकृतात्मभिःभूयिष्ठं च नरेन्द्राणां विद्यते न शुभा गतिः ॥२॥
पूयन्ते तेऽत्र नियतं प्रयच्छन्तो वसुंधराम्पूर्वं च कथिता धर्मास्त्वया मे कुरुनन्दन ॥३॥
एवमेव गवामुक्तं प्रदानं ते नृगेण हऋषिणा नाचिकेतेन पूर्वमेव निदर्शितम् ॥४॥
वेदोपनिषदे चैव सर्वकर्मसु दक्षिणासर्वक्रतुषु चोद्दिष्टं भूमिर्गावोऽथ काञ्चनम् ॥५॥
तत्र श्रुतिस्तु परमा सुवर्णं दक्षिणेति वैएतदिच्छाम्यहं श्रोतुं पितामह यथातथम् ॥६॥
किं सुवर्णं कथं जातं कस्मिन्काले किमात्मकम्किं दानं किं फलं चैव कस्माच्च परमुच्यते ॥७॥
कस्माद्दानं सुवर्णस्य पूजयन्ति मनीषिणःकस्माच्च दक्षिणार्थं तद्यज्ञकर्मसु शस्यते ॥८॥
कस्माच्च पावनं श्रेष्ठं भूमेर्गोभ्यश्च काञ्चनम्परमं दक्षिणार्थे च तद्ब्रवीहि पितामह ॥९॥
भीष्म उवाच
शृणु राजन्नवहितो बहुकारणविस्तरम्जातरूपसमुत्पत्तिमनुभूतं च यन्मया ॥१०॥
पिता मम महातेजाः शंतनुर्निधनं गतःतस्य दित्सुरहं श्राद्धं गङ्गाद्वारमुपागमम् ॥११॥
तत्रागम्य पितुः पुत्र श्राद्धकर्म समारभम्माता मे जाह्नवी चैव साहाय्यमकरोत्तदा ॥१२॥
ततोऽग्रतस्तपःसिद्धानुपवेश्य बहूनृषीन्तोयप्रदानात्प्रभृति कार्याण्यहमथारभम् ॥१३॥
तत्समाप्य यथोद्दिष्टं पूर्वकर्म समाहितःदातुं निर्वपणं सम्यग्यथावदहमारभम् ॥१४॥
ततस्तं दर्भविन्यासं भित्त्वा सुरुचिराङ्गदःप्रलम्बाभरणो बाहुरुदतिष्ठद्विशां पते ॥१५॥
तमुत्थितमहं दृष्ट्वा परं विस्मयमागमम्प्रतिग्रहीता साक्षान्मे पितेति भरतर्षभ ॥१६॥
ततो मे पुनरेवासीत्संज्ञा संचिन्त्य शास्त्रतःनायं वेदेषु विहितो विधिर्हस्त इति प्रभोपिण्डो देयो नरेणेह ततो मतिरभून्मम ॥१७॥
साक्षान्नेह मनुष्यस्य पितरोऽन्तर्हिताः क्वचित्गृह्णन्ति विहितं त्वेवं पिण्डो देयः कुशेष्विति ॥१८॥
ततोऽहं तदनादृत्य पितुर्हस्तनिदर्शनम्शास्त्रप्रमाणात्सूक्ष्मं तु विधिं पार्थिव संस्मरन् ॥१९॥
ततो दर्भेषु तत्सर्वमददं भरतर्षभशास्त्रमार्गानुसारेण तद्विद्धि मनुजर्षभ ॥२०॥
ततः सोऽन्तर्हितो बाहुः पितुर्मम नराधिपततो मां दर्शयामासुः स्वप्नान्ते पितरस्तदा ॥२१॥
प्रीयमाणास्तु मामूचुः प्रीताः स्म भरतर्षभविज्ञानेन तवानेन यन्न मुह्यसि धर्मतः ॥२२॥
त्वया हि कुर्वता शास्त्रं प्रमाणमिह पार्थिवआत्मा धर्मः श्रुतं वेदाः पितरश्च महर्षिभिः ॥२३॥
साक्षात्पितामहो ब्रह्मा गुरवोऽथ प्रजापतिःप्रमाणमुपनीता वै स्थितिश्च न विचालिता ॥२४॥
तदिदं सम्यगारब्धं त्वयाद्य भरतर्षभकिं तु भूमेर्गवां चार्थे सुवर्णं दीयतामिति ॥२५॥
एवं वयं च धर्मश्च सर्वे चास्मत्पितामहाःपाविता वै भविष्यन्ति पावनं परमं हि तत् ॥२६॥
दश पूर्वान्दश परांस्तथा संतारयन्ति तेसुवर्णं ये प्रयच्छन्ति एवं मे पितरोऽब्रुवन् ॥२७॥
ततोऽहं विस्मितो राजन्प्रतिबुद्धो विशां पतेसुवर्णदानेऽकरवं मतिं भरतसत्तम ॥२८॥
इतिहासमिमं चापि शृणु राजन्पुरातनम्जामदग्न्यं प्रति विभो धन्यमायुष्यमेव च ॥२९॥
जामदग्न्येन रामेण तीव्ररोषान्वितेन वैत्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा ॥३०॥
ततो जित्वा महीं कृत्स्नां रामो राजीवलोचनःआजहार क्रतुं वीरो ब्रह्मक्षत्रेण पूजितम् ॥३१॥
वाजिमेधं महाराज सर्वकामसमन्वितम्पावनं सर्वभूतानां तेजोद्युतिविवर्धनम् ॥३२॥
विपाप्मापि स तेजस्वी तेन क्रतुफलेन वैनैवात्मनोऽथ लघुतां जामदग्न्योऽभ्यगच्छत ॥३३॥
स तु क्रतुवरेणेष्ट्वा महात्मा दक्षिणावतापप्रच्छागमसंपन्नानृषीन्देवांश्च भार्गवः ॥३४॥
पावनं यत्परं नॄणामुग्रे कर्मणि वर्तताम्तदुच्यतां महाभागा इति जातघृणोऽब्रवीत् ॥३५॥
वसिष्ठ उवाच
देवतास्ते प्रयच्छन्ति सुवर्णं ये ददत्युतअग्निर्हि देवताः सर्वाः सुवर्णं च तदात्मकम् ॥३६॥
तस्मात्सुवर्णं ददता दत्ताः सर्वाश्च देवताःभवन्ति पुरुषव्याघ्र न ह्यतः परमं विदुः ॥३७॥
भूय एव च माहात्म्यं सुवर्णस्य निबोध मेगदतो मम विप्रर्षे सर्वशस्त्रभृतां वर ॥३८॥
मया श्रुतमिदं पूर्वं पुराणे भृगुनन्दनप्रजापतेः कथयतो मनोः स्वायंभुवस्य वै ॥३९॥
शूलपाणेर्भगवतो रुद्रस्य च महात्मनःगिरौ हिमवति श्रेष्ठे तदा भृगुकुलोद्वह ॥४०॥
देव्या विवाहे निर्वृत्ते रुद्राण्या भृगुनन्दनसमागमे भगवतो देव्या सह महात्मनःततः सर्वे समुद्विग्ना भगवन्तमुपागमन् ॥४१॥
ते महादेवमासीनं देवीं च वरदामुमाम्प्रसाद्य शिरसा सर्वे रुद्रमूचुर्भृगूद्वह ॥४२॥
अयं समागमो देव देव्या सह तवानघतपस्विनस्तपस्विन्या तेजस्विन्यातितेजसःअमोघतेजास्त्वं देव देवी चेयमुमा तथा ॥४३॥
अपत्यं युवयोर्देव बलवद्भविता प्रभोतन्नूनं त्रिषु लोकेषु न किंचिच्छेषयिष्यति ॥४४॥
तदेभ्यः प्रणतेभ्यस्त्वं देवेभ्यः पृथुलोचनवरं प्रयच्छ लोकेश त्रैलोक्यहितकाम्ययाअपत्यार्थं निगृह्णीष्व तेजो ज्वलितमुत्तमम् ॥४५॥
इति तेषां कथयतां भगवान्गोवृषध्वजःएवमस्त्विति देवांस्तान्विप्रर्षे प्रत्यभाषत ॥४६॥
इत्युक्त्वा चोर्ध्वमनयत्तद्रेतो वृषवाहनःऊर्ध्वरेताः समभवत्ततःप्रभृति चापि सः ॥४७॥
रुद्राणी तु ततः क्रुद्धा प्रजोच्छेदे तथा कृतेदेवानथाब्रवीत्तत्र स्त्रीभावात्परुषं वचः ॥४८॥
यस्मादपत्यकामो वै भर्ता मे विनिवर्तितःतस्मात्सर्वे सुरा यूयमनपत्या भविष्यथ ॥४९॥
प्रजोच्छेदो मम कृतो यस्माद्युष्माभिरद्य वैतस्मात्प्रजा वः खगमाः सर्वेषां न भविष्यति ॥५०॥
पावकस्तु न तत्रासीच्छापकाले भृगूद्वहदेवा देव्यास्तथा शापादनपत्यास्तदाभवन् ॥५१॥
रुद्रस्तु तेजोऽप्रतिमं धारयामास तत्तदाप्रस्कन्नं तु ततस्तस्मात्किंचित्तत्रापतद्भुवि ॥५२॥
तत्पपात तदा चाग्नौ ववृधे चाद्भुतोपमम्तेजस्तेजसि संपृक्तमेकयोनित्वमागतम् ॥५३॥
एतस्मिन्नेव काले तु देवाः शक्रपुरोगमाःअसुरस्तारको नाम तेन संतापिता भृशम् ॥५४॥
आदित्या वसवो रुद्रा मरुतोऽथाश्विनावपिसाध्याश्च सर्वे संत्रस्ता दैतेयस्य पराक्रमात् ॥५५॥
स्थानानि देवतानां हि विमानानि पुराणि चऋषीणामाश्रमाश्चैव बभूवुरसुरैर्हृताः ॥५६॥
ते दीनमनसः सर्वे देवाश्च ऋषयश्च हप्रजग्मुः शरणं देवं ब्रह्माणमजरं प्रभुम् ॥५७॥
End of chapter ॥
1
Mahabharata · Anushasana Parva

Adhyaya 83

0
Adhyaya 83Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0