Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Anushasana Parva
देवा ऊचुःअसुरस्तारको नाम त्वया दत्तवरः प्रभोसुरानृषींश्च क्लिश्नाति वधस्तस्य विधीयताम् ॥१॥
तस्माद्भयं समुत्पन्नमस्माकं वै पितामहपरित्रायस्व नो देव न ह्यन्या गतिरस्ति नः ॥२॥
ब्रह्मोवाचसमोऽहं सर्वभूतानामधर्मं नेह रोचयेहन्यतां तारकः क्षिप्रं सुरर्षिगणबाधकः ॥३॥
वेदा धर्माश्च नोत्सादं गच्छेयुः सुरसत्तमाःविहितं पूर्वमेवात्र मया वै व्येतु वो ज्वरः ॥४॥
देवा ऊचुःवरदानाद्भगवतो दैतेयो बलगर्वितःदेवैर्न शक्यते हन्तुं स कथं प्रशमं व्रजेत् ॥५॥
स हि नैव स्म देवानां नासुराणां न रक्षसाम्वध्यः स्यामिति जग्राह वरं त्वत्तः पितामह ॥६॥
देवाश्च शप्ता रुद्राण्या प्रजोच्छेदे पुरा कृतेन भविष्यति वोऽपत्यमिति सर्वजगत्पते ॥७॥
ब्रह्मोवाचहुताशनो न तत्रासीच्छापकाले सुरोत्तमाःस उत्पादयितापत्यं वधार्थं त्रिदशद्विषाम् ॥८॥
तद्वै सर्वानतिक्रम्य देवदानवराक्षसान्मानुषानथ गन्धर्वान्नागानथ च पक्षिणः ॥९॥
अस्त्रेणामोघपातेन शक्त्या तं घातयिष्यतियतो वो भयमुत्पन्नं ये चान्ये सुरशत्रवः ॥१०॥
सनातनो हि संकल्पः काम इत्यभिधीयतेरुद्रस्य तेजः प्रस्कन्नमग्नौ निपतितं च तत् ॥११॥
तत्तेजोऽग्निर्महद्भूतं द्वितीयमिव पावकम्वधार्थं देवशत्रूणां गङ्गायां जनयिष्यति ॥१२॥
स तु नावाप तं शापं नष्टः स हुतभुक्तदातस्माद्वो भयहृद्देवाः समुत्पत्स्यति पावकिः ॥१३॥
अन्विष्यतां वै ज्वलनस्तथा चाद्य नियुज्यताम्तारकस्य वधोपायः कथितो वै मयानघाः ॥१४॥
न हि तेजस्विनां शापास्तेजःसु प्रभवन्ति वैबलान्यतिबलं प्राप्य नबलानि भवन्ति वै ॥१५॥
हन्यादवध्यान्वरदानपि चैव तपस्विनःसंकल्पाभिरुचिः कामः सनातनतमोऽनलः ॥१६॥
जगत्पतिरनिर्देश्यः सर्वगः सर्वभावनःहृच्छयः सर्वभूतानां ज्येष्ठो रुद्रादपि प्रभुः ॥१७॥
अन्विष्यतां स तु क्षिप्रं तेजोराशिर्हुताशनःस वो मनोगतं कामं देवः संपादयिष्यति ॥१८॥
एतद्वाक्यमुपश्रुत्य ततो देवा महात्मनःजग्मुः संसिद्धसंकल्पाः पर्येषन्तो विभावसुम् ॥१९॥
ततस्त्रैलोक्यमृषयो व्यचिन्वन्त सुरैः सहकाङ्क्षन्तो दर्शनं वह्नेः सर्वे तद्गतमानसाः ॥२०॥
परेण तपसा युक्ताः श्रीमन्तो लोकविश्रुताःलोकानन्वचरन्सिद्धाः सर्व एव भृगूद्वहनष्टमात्मनि संलीनं नाधिजग्मुर्हुताशनम् ॥२१॥
ततः संजातसंत्रासानग्नेर्दर्शनलालसान्जलेचरः क्लान्तमनास्तेजसाग्नेः प्रदीपितःउवाच देवान्मण्डूको रसातलतलोत्थितः ॥२२॥
रसातलतले देवा वसत्यग्निरिति प्रभोसंतापादिह संप्राप्तः पावकप्रभवादहम् ॥२३॥
स संसुप्तो जले देवा भगवान्हव्यवाहनःअपः संसृज्य तेजोभिस्तेन संतापिता वयम् ॥२४॥
तस्य दर्शनमिष्टं वो यदि देवा विभावसोःतत्रैनमभिगच्छध्वं कार्यं वो यदि वह्निना ॥२५॥
गम्यतां साधयिष्यामो वयं ह्यग्निभयात्सुराःएतावदुक्त्वा मण्डूकस्त्वरितो जलमाविशत् ॥२६॥
हुताशनस्तु बुबुधे मण्डूकस्याथ पैशुनम्शशाप स तमासाद्य न रसान्वेत्स्यसीति वै ॥२७॥
तं स संयुज्य शापेन मण्डूकं पावको ययौअन्यत्र वासाय विभुर्न च देवानदर्शयत् ॥२८॥
देवास्त्वनुग्रहं चक्रुर्मण्डूकानां भृगूद्वहयत्तच्छृणु महाबाहो गदतो मम सर्वशः ॥२९॥
देवा ऊचुःअग्निशापादजिह्वापि रसज्ञानबहिष्कृताःसरस्वतीं बहुविधां यूयमुच्चारयिष्यथ ॥३०॥
बिलवासगतांश्चैव निरादानानचेतसःगतासूनपि वः शुष्कान्भूमिः संधारयिष्यतितमोगतायामपि च निशायां विचरिष्यथ ॥३१॥
इत्युक्त्वा तांस्ततो देवाः पुनरेव महीमिमाम्परीयुर्ज्वलनस्यार्थे न चाविन्दन्हुताशनम् ॥३२॥
अथ तान्द्विरदः कश्चित्सुरेन्द्रद्विरदोपमःअश्वत्थस्थोऽग्निरित्येवं प्राह देवान्भृगूद्वह ॥३३॥
शशाप ज्वलनः सर्वान्द्विरदान्क्रोधमूर्छितःप्रतीपा भवतां जिह्वा भवित्रीति भृगूद्वह ॥३४॥
इत्युक्त्वा निःसृतोऽश्वत्थादग्निर्वारणसूचितःप्रविवेश शमीगर्भमथ वह्निः सुषुप्सया ॥३५॥
अनुग्रहं तु नागानां यं चक्रुः शृणु तं प्रभोदेवा भृगुकुलश्रेष्ठ प्रीताः सत्यपराक्रमाः ॥३६॥
देवा ऊचुःप्रतीपया जिह्वयापि सर्वाहारान्करिष्यथवाचं चोच्चारयिष्यध्वमुच्चैरव्यञ्जिताक्षरम्इत्युक्त्वा पुनरेवाग्निमनुसस्रुर्दिवौकसः ॥३७॥
अश्वत्थान्निःसृतश्चाग्निः शमीगर्भगतस्तदाशुकेन ख्यापितो विप्र तं देवाः समुपाद्रवन् ॥३८॥
शशाप शुकमग्निस्तु वाग्विहीनो भविष्यसिजिह्वां चावर्तयामास तस्यापि हुतभुक्तदा ॥३९॥
दृष्ट्वा तु ज्वलनं देवाः शुकमूचुर्दयान्विताःभविता न त्वमत्यन्तं शकुने नष्टवागिति ॥४०॥
आवृत्तजिह्वस्य सतो वाक्यं कान्तं भविष्यतिबालस्येव प्रवृद्धस्य कलमव्यक्तमद्भुतम् ॥४१॥
इत्युक्त्वा तं शमीगर्भे वह्निमालक्ष्य देवताःतदेवायतनं चक्रुः पुण्यं सर्वक्रियास्वपि ॥४२॥
ततःप्रभृति चाप्यग्निः शमीगर्भेषु दृश्यतेउत्पादने तथोपायमनुजग्मुश्च मानवाः ॥४३॥
आपो रसातले यास्तु संसृष्टाश्चित्रभानुनाताः पर्वतप्रस्रवणैरूष्मां मुञ्चन्ति भार्गवपावकेनाधिशयता संतप्तास्तस्य तेजसा ॥४४॥
ततोऽग्निर्देवता दृष्ट्वा बभूव व्यथितस्तदाकिमागमनमित्येवं तानपृच्छत पावकः ॥४५॥
तमूचुर्विबुधाः सर्वे ते चैव परमर्षयःत्वां नियोक्ष्यामहे कार्ये तद्भवान्कर्तुमर्हतिकृते च तस्मिन्भविता तवापि सुमहान्गुणः ॥४६॥
अग्निरुवाचब्रूत यद्भवतां कार्यं सर्वं कर्तास्मि तत्सुराःभवतां हि नियोज्योऽहं मा वोऽत्रास्तु विचारणा ॥४७॥
देवा ऊचुःअसुरस्तारको नाम ब्रह्मणो वरदर्पितःअस्मान्प्रबाधते वीर्याद्वधस्तस्य विधीयताम् ॥४८॥
इमान्देवगणांस्तात प्रजापतिगणांस्तथाऋषींश्चापि महाभागान्परित्रायस्व पावक ॥४९॥
अपत्यं तेजसा युक्तं प्रवीरं जनय प्रभोयद्भयं नोऽसुरात्तस्मान्नाशयेद्धव्यवाहन ॥५०॥
शप्तानां नो महादेव्या नान्यदस्ति परायणम्अन्यत्र भवतो वीर्यं तस्मात्त्रायस्व नस्ततः ॥५१॥
इत्युक्तः स तथेत्युक्त्वा भगवान्हव्यकव्यभुक्जगामाथ दुराधर्षो गङ्गां भागीरथीं प्रति ॥५२॥
तया चाप्यभवन्मिश्रो गर्भश्चास्याभवत्तदाववृधे स तदा गर्भः कक्षे कृष्णगतिर्यथा ॥५३॥
तेजसा तस्य गर्भस्य गङ्गा विह्वलचेतनासंतापमगमत्तीव्रं सा सोढुं न शशाक ह ॥५४॥
आहिते ज्वलनेनाथ गर्भे तेजःसमन्वितेगङ्गायामसुरः कश्चिद्भैरवं नादमुत्सृजत् ॥५५॥
अबुद्धापतितेनाथ नादेन विपुलेन सावित्रस्तोद्भ्रान्तनयना गङ्गा विप्लुतलोचनाविसंज्ञा नाशकद्गर्भं संधारयितुमात्मना ॥५६॥
सा तु तेजःपरीताङ्गी कम्पमाना च जाह्नवीउवाच वचनं विप्र तदा गर्भबलोद्धतान ते शक्तास्मि भगवंस्तेजसोऽस्य विधारणे ॥५७॥
विमूढास्मि कृतानेन तथास्वास्थ्यं कृतं परम्विह्वला चास्मि भगवंस्तेजो नष्टं च मेऽनघ ॥५८॥
धारणे नास्य शक्ताहं गर्भस्य तपतां वरउत्स्रक्ष्येऽहमिमं दुःखान्न तु कामात्कथंचन ॥५९॥
न चेतसोऽस्ति संस्पर्शो मम देव विभावसोआपदर्थे हि संबन्धः सुसूक्ष्मोऽपि महाद्युते ॥६०॥
यदत्र गुणसंपन्नमितरं वा हुताशनत्वय्येव तदहं मन्ये धर्माधर्मौ च केवलौ ॥६१॥
तामुवाच ततो वह्निर्धार्यतां धार्यतामयम्गर्भो मत्तेजसा युक्तो महागुणफलोदयः ॥६२॥
शक्ता ह्यसि महीं कृत्स्नां वोढुं धारयितुं तथान हि ते किंचिदप्राप्यं मद्रेतोधारणादृते ॥६३॥
सा वह्निना वार्यमाणा देवैश्चापि सरिद्वरासमुत्ससर्ज तं गर्भं मेरौ गिरिवरे तदा ॥६४॥
समर्था धारणे चापि रुद्रतेजःप्रधर्षितानाशकत्तं तदा गर्भं संधारयितुमोजसा ॥६५॥
सा समुत्सृज्य तं दुःखाद्दीप्तवैश्वानरप्रभम्दर्शयामास चाग्निस्तां तदा गङ्गां भृगूद्वहपप्रच्छ सरितां श्रेष्ठां कच्चिद्गर्भः सुखोदयः ॥६६॥
कीदृग्वर्णोऽपि वा देवि कीदृग्रूपश्च दृश्यतेतेजसा केन वा युक्तः सर्वमेतद्ब्रवीहि मे ॥६७॥
गङ्गोवाचजातरूपः स गर्भो वै तेजसा त्वमिवानलसुवर्णो विमलो दीप्तः पर्वतं चावभासयत् ॥६८॥
पद्मोत्पलविमिश्राणां ह्रदानामिव शीतलःगन्धोऽस्य स कदम्बानां तुल्यो वै तपतां वर ॥६९॥
तेजसा तस्य गर्भस्य भास्करस्येव रश्मिभिःयद्द्रव्यं परिसंसृष्टं पृथिव्यां पर्वतेषु वातत्सर्वं काञ्चनीभूतं समन्तात्प्रत्यदृश्यत ॥७०॥
पर्यधावत शैलांश्च नदीः प्रस्रवणानि चव्यदीपयत्तेजसा च त्रैलोक्यं सचराचरम् ॥७१॥
एवंरूपः स भगवान्पुत्रस्ते हव्यवाहनसूर्यवैश्वानरसमः कान्त्या सोम इवापरःएवमुक्त्वा तु सा देवी तत्रैवान्तरधीयत ॥७२॥
पावकश्चापि तेजस्वी कृत्वा कार्यं दिवौकसाम्जगामेष्टं ततो देशं तदा भार्गवनन्दन ॥७३॥
एतैः कर्मगुणैर्लोके नामाग्नेः परिगीयतेहिरण्यरेता इति वै ऋषिभिर्विबुधैस्तथापृथिवी च तदा देवी ख्याता वसुमतीति वै ॥७४॥
स तु गर्भो महातेजा गाङ्गेयः पावकोद्भवःदिव्यं शरवणं प्राप्य ववृधेऽद्भुतदर्शनः ॥७५॥
ददृशुः कृत्तिकास्तं तु बालार्कसदृशद्युतिम्जातस्नेहाश्च तं बालं पुपुषुः स्तन्यविस्रवैः ॥७६॥
ततः स कार्त्तिकेयत्वमवाप परमद्युतिःस्कन्नत्वात्स्कन्दतां चापि गुहावासाद्गुहोऽभवत् ॥७७॥
एवं सुवर्णमुत्पन्नमपत्यं जातवेदसःतत्र जाम्बूनदं श्रेष्ठं देवानामपि भूषणम् ॥७८॥
ततःप्रभृति चाप्येतज्जातरूपमुदाहृतम्यत्सुवर्णं स भगवानग्निरीशः प्रजापतिः ॥७९॥
पवित्राणां पवित्रं हि कनकं द्विजसत्तमअग्नीषोमात्मकं चैव जातरूपमुदाहृतम् ॥८०॥
रत्नानामुत्तमं रत्नं भूषणानां तथोत्तमम्पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् ॥८१॥
End of chapter ॥
1
Mahabharata · Anushasana Parva

Adhyaya 84

0
Adhyaya 84Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0