Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Anushasana Parva
वसिष्ठ उवाच
अपि चेदं पुरा राम श्रुतं मे ब्रह्मदर्शनम्पितामहस्य यद्वृत्तं ब्रह्मणः परमात्मनः ॥१॥
देवस्य महतस्तात वारुणीं बिभ्रतस्तनुम्ऐश्वर्ये वारुणे राम रुद्रस्येशस्य वै प्रभो ॥२॥
आजग्मुर्मुनयः सर्वे देवाश्चाग्निपुरोगमाःयज्ञाङ्गानि च सर्वाणि वषट्कारश्च मूर्तिमान् ॥३॥
मूर्तिमन्ति च सामानि यजूंषि च सहस्रशःऋग्वेदश्चागमत्तत्र पदक्रमविभूषितः ॥४॥
लक्षणानि स्वराः स्तोभा निरुक्तं स्वरभक्तयःओंकारश्चावसन्नेत्रे निग्रहप्रग्रहौ तथा ॥५॥
वेदाश्च सोपनिषदो विद्या सावित्र्यथापि चभूतं भव्यं भविष्यच्च दधार भगवाञ्शिवःजुह्वच्चात्मन्यथात्मानं स्वयमेव तदा प्रभो ॥६॥
देवपत्न्यश्च कन्याश्च देवानां चैव मातरःआजग्मुः सहितास्तत्र तदा भृगुकुलोद्वह ॥७॥
यज्ञं पशुपतेः प्रीता वरुणस्य महात्मनःस्वयंभुवस्तु ता दृष्ट्वा रेतः समपतद्भुवि ॥८॥
तस्य शुक्रस्य निष्पन्दात्पांसून्संगृह्य भूमितःप्रास्यत्पूषा कराभ्यां वै तस्मिन्नेव हुताशने ॥९॥
ततस्तस्मिन्संप्रवृत्ते सत्रे ज्वलितपावकेब्रह्मणो जुह्वतस्तत्र प्रादुर्भावो बभूव ह ॥१०॥
स्कन्नमात्रं च तच्छुक्रं स्रुवेण प्रतिगृह्य सःआज्यवन्मन्त्रवच्चापि सोऽजुहोद्भृगुनन्दन ॥११॥
ततः संजनयामास भूतग्रामं स वीर्यवान्ततस्तु तेजसस्तस्माज्जज्ञे लोकेषु तैजसम् ॥१२॥
तमसस्तामसा भावा व्यापि सत्त्वं तथोभयम्सगुणस्तेजसो नित्यं तमस्याकाशमेव च ॥१३॥
सर्वभूतेष्वथ तथा सत्त्वं तेजस्तथा तमःशुक्रे हुतेऽग्नौ तस्मिंस्तु प्रादुरासंस्त्रयः प्रभो ॥१४॥
पुरुषा वपुषा युक्ता युक्ताः प्रसवजैर्गुणैःभृगित्येव भृगुः पूर्वमङ्गारेभ्योऽङ्गिराभवत् ॥१५॥
अङ्गारसंश्रयाच्चैव कविरित्यपरोऽभवत्सह ज्वालाभिरुत्पन्नो भृगुस्तस्माद्भृगुः स्मृतः ॥१६॥
मरीचिभ्यो मरीचिस्तु मारीचः कश्यपो ह्यभूत्अङ्गारेभ्योऽङ्गिरास्तात वालखिल्याः शिलोच्चयात्अत्रैवात्रेति च विभो जातमत्रिं वदन्त्यपि ॥१७॥
तथा भस्मव्यपोहेभ्यो ब्रह्मर्षिगणसंमिताःवैखानसाः समुत्पन्नास्तपःश्रुतगुणेप्सवःअश्रुतोऽस्य समुत्पन्नावश्विनौ रूपसंमतौ ॥१८॥
शेषाः प्रजानां पतयः स्रोतोभ्यस्तस्य जज्ञिरेऋषयो लोमकूपेभ्यः स्वेदाच्छन्दो मलात्मकम् ॥१९॥
एतस्मात्कारणादाहुरग्निं सर्वास्तु देवताःऋषयः श्रुतसंपन्ना वेदप्रामाण्यदर्शनात् ॥२०॥
यानि दारूणि ते मासा निर्यासाः पक्षसंज्ञिताःअहोरात्रा मुहूर्तास्तु पित्तं ज्योतिश्च वारुणम् ॥२१॥
रौद्रं लोहितमित्याहुर्लोहितात्कनकं स्मृतम्तन्मैत्रमिति विज्ञेयं धूमाच्च वसवः स्मृताः ॥२२॥
अर्चिषो याश्च ते रुद्रास्तथादित्या महाप्रभाःउद्दिष्टास्ते तथाङ्गारा ये धिष्ण्येषु दिवि स्थिताः ॥२३॥
आदिनाथश्च लोकस्य तत्परं ब्रह्म तद्ध्रुवम्सर्वकामदमित्याहुस्तत्र हव्यमुदावहत् ॥२४॥
ततोऽब्रवीन्महादेवो वरुणः परमात्मकःमम सत्रमिदं दिव्यमहं गृहपतिस्त्विह ॥२५॥
त्रीणि पूर्वाण्यपत्यानि मम तानि न संशयःइति जानीत खगमा मम यज्ञफलं हि तत् ॥२६॥
अग्निरुवाचमदङ्गेभ्यः प्रसूतानि मदाश्रयकृतानि चममैव तान्यपत्यानि वरुणो ह्यवशात्मकः ॥२७॥
अथाब्रवील्लोकगुरुर्ब्रह्मा लोकपितामहःममैव तान्यपत्यानि मम शुक्रं हुतं हि तत् ॥२८॥
अहं वक्ता च मन्त्रस्य होता शुक्रस्य चैव हयस्य बीजं फलं तस्य शुक्रं चेत्कारणं मतम् ॥२९॥
ततोऽब्रुवन्देवगणाः पितामहमुपेत्य वैकृताञ्जलिपुटाः सर्वे शिरोभिरभिवन्द्य च ॥३०॥
वयं च भगवन्सर्वे जगच्च सचराचरम्तवैव प्रसवाः सर्वे तस्मादग्निर्विभावसुःवरुणश्चेश्वरो देवो लभतां काममीप्सितम् ॥३१॥
निसर्गाद्वरुणश्चापि ब्रह्मणो यादसां पतिःजग्राह वै भृगुं पूर्वमपत्यं सूर्यवर्चसम् ॥३२॥
ईश्वरोऽङ्गिरसं चाग्नेरपत्यार्थेऽभ्यकल्पयत्पितामहस्त्वपत्यं वै कविं जग्राह तत्त्ववित् ॥३३॥
तदा स वारुणः ख्यातो भृगुः प्रसवकर्मकृत्आग्नेयस्त्वङ्गिराः श्रीमान्कविर्ब्राह्मो महायशाःभार्गवाङ्गिरसौ लोके लोकसंतानलक्षणौ ॥३४॥
एते विप्रवराः सर्वे प्रजानां पतयस्त्रयःसर्वं संतानमेतेषामिदमित्युपधारय ॥३५॥
भृगोस्तु पुत्रास्तत्रासन्सप्त तुल्या भृगोर्गुणैःच्यवनो वज्रशीर्षश्च शुचिरौर्वस्तथैव च ॥३६॥
शुक्रो वरेण्यश्च विभुः सवनश्चेति सप्त तेभार्गवा वारुणाः सर्वे येषां वंशे भवानपि ॥३७॥
अष्टौ चाङ्गिरसः पुत्रा वारुणास्तेऽप्युदाहृताःबृहस्पतिरुतथ्यश्च वयस्यः शान्तिरेव च ॥३८॥
घोरो विरूपः संवर्तः सुधन्वा चाष्टमः स्मृतःएतेऽष्टावग्निजाः सर्वे ज्ञाननिष्ठा निरामयाः ॥३९॥
ब्राह्मणस्य कवेः पुत्रा वारुणास्तेऽप्युदाहृताःअष्टौ प्रसवजैर्युक्ता गुणैर्ब्रह्मविदः शुभाः ॥४०॥
कविः काव्यश्च विष्णुश्च बुद्धिमानुशनास्तथाभृगुश्च विरजाश्चैव काशी चोग्रश्च धर्मवित् ॥४१॥
अष्टौ कविसुता ह्येते सर्वमेभिर्जगत्ततम्प्रजापतय एते हि प्रजानां यैरिमाः प्रजाः ॥४२॥
एवमङ्गिरसश्चैव कवेश्च प्रसवान्वयैःभृगोश्च भृगुशार्दूल वंशजैः सततं जगत् ॥४३॥
वरुणश्चादितो विप्र जग्राह प्रभुरीश्वरःकविं तात भृगुं चैव तस्मात्तौ वारुणौ स्मृतौ ॥४४॥
जग्राहाङ्गिरसं देवः शिखी तस्माद्धुताशनःतस्मादङ्गिरसो ज्ञेयाः सर्व एव तदन्वयाः ॥४५॥
ब्रह्मा पितामहः पूर्वं देवताभिः प्रसादितःइमे नः संतरिष्यन्ति प्रजाभिर्जगदीश्वराः ॥४६॥
सर्वे प्रजानां पतयः सर्वे चातितपस्विनःत्वत्प्रसादादिमं लोकं तारयिष्यन्ति शाश्वतम् ॥४७॥
तथैव वंशकर्तारस्तव तेजोविवर्धनाःभवेयुर्वेदविदुषः सर्वे वाक्पतयस्तथा ॥४८॥
देवपक्षधराः सौम्याः प्राजापत्या महर्षयःआप्नुवन्ति तपश्चैव ब्रह्मचर्यं परं तथा ॥४९॥
सर्वे हि वयमेते च तवैव प्रसवः प्रभोदेवानां ब्राह्मणानां च त्वं हि कर्ता पितामह ॥५०॥
मरीचिमादितः कृत्वा सर्वे चैवाथ भार्गवाःअपत्यानीति संप्रेक्ष्य क्षमयाम पितामह ॥५१॥
ते त्वनेनैव रूपेण प्रजनिष्यन्ति वै प्रजाःस्थापयिष्यन्ति चात्मानं युगादिनिधने तथा ॥५२॥
एवमेतत्पुरा वृत्तं तस्य यज्ञे महात्मनःदेवश्रेष्ठस्य लोकादौ वारुणीं बिभ्रतस्तनुम् ॥५३॥
अग्निर्ब्रह्मा पशुपतिः शर्वो रुद्रः प्रजापतिःअग्नेरपत्यमेतद्वै सुवर्णमिति धारणा ॥५४॥
अग्न्यभावे च कुर्वन्ति वह्निस्थानेषु काञ्चनम्जामदग्न्य प्रमाणज्ञा वेदश्रुतिनिदर्शनात् ॥५५॥
कुशस्तम्बे जुहोत्यग्निं सुवर्णं तत्र संस्थितम्हुते प्रीतिकरीमृद्धिं भगवांस्तत्र मन्यते ॥५६॥
तस्मादग्निपराः सर्वा देवता इति शुश्रुमब्रह्मणो हि प्रसूतोऽग्निरग्नेरपि च काञ्चनम् ॥५७॥
तस्माद्ये वै प्रयच्छन्ति सुवर्णं धर्मदर्शिनःदेवतास्ते प्रयच्छन्ति समस्ता इति नः श्रुतम् ॥५८॥
तस्य चातमसो लोका गच्छतः परमां गतिम्स्वर्लोके राजराज्येन सोऽभिषिच्येत भार्गव ॥५९॥
आदित्योदयने प्राप्ते विधिमन्त्रपुरस्कृतम्ददाति काञ्चनं यो वै दुःस्वप्नं प्रतिहन्ति सः ॥६०॥
ददात्युदितमात्रे यस्तस्य पाप्मा विधूयतेमध्याह्ने ददतो रुक्मं हन्ति पापमनागतम् ॥६१॥
ददाति पश्चिमां संध्यां यः सुवर्णं धृतव्रतःब्रह्मवाय्वग्निसोमानां सालोक्यमुपयाति सः ॥६२॥
सेन्द्रेषु चैव लोकेषु प्रतिष्ठां प्राप्नुते शुभाम्इह लोके यशः प्राप्य शान्तपाप्मा प्रमोदते ॥६३॥
ततः संपद्यतेऽन्येषु लोकेष्वप्रतिमः सदाअनावृतगतिश्चैव कामचारी भवत्युत ॥६४॥
न च क्षरति तेभ्यः स शश्वच्चैवाप्नुते महत्सुवर्णमक्षयं दत्त्वा लोकानाप्नोति पुष्कलान् ॥६५॥
यस्तु संजनयित्वाग्निमादित्योदयनं प्रतिदद्याद्वै व्रतमुद्दिश्य सर्वान्कामान्समश्नुते ॥६६॥
अग्निरित्येव तत्प्राहुः प्रदानं वै सुखावहम्यथेष्टगुणसंपन्नं प्रवर्तकमिति स्मृतम् ॥६७॥
भीष्म उवाच
इत्युक्तः स वसिष्ठेन जामदग्न्यः प्रतापवान्ददौ सुवर्णं विप्रेभ्यो व्यमुच्यत च किल्बिषात् ॥६८॥
एतत्ते सर्वमाख्यातं सुवर्णस्य महीपतेप्रदानस्य फलं चैव जन्म चाग्न्यमनुत्तमम् ॥६९॥
तस्मात्त्वमपि विप्रेभ्यः प्रयच्छ कनकं बहुददत्सुवर्णं नृपते किल्बिषाद्विप्रमोक्ष्यसि ॥७०॥
End of chapter ॥
1
Mahabharata · Anushasana Parva

Adhyaya 85

0
Adhyaya 85Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0