Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Anushasana Parva
युधिष्ठिर उवाच
केन संकल्पितं श्राद्धं कस्मिन्काले किमात्मकम्भृग्वङ्गिरसके काले मुनिना कतरेण वा ॥१॥
कानि श्राद्धेषु वर्ज्यानि तथा मूलफलानि चधान्यजातिश्च का वर्ज्या तन्मे ब्रूहि पितामह ॥२॥
भीष्म उवाच
यथा श्राद्धं संप्रवृत्तं यस्मिन्काले यदात्मकम्येन संकल्पितं चैव तन्मे शृणु जनाधिप ॥३॥
स्वायंभुवोऽत्रिः कौरव्य परमर्षिः प्रतापवान्तस्य वंशे महाराज दत्तात्रेय इति स्मृतः ॥४॥
दत्तात्रेयस्य पुत्रोऽभून्निमिर्नाम तपोधनःनिमेश्चाप्यभवत्पुत्रः श्रीमान्नाम श्रिया वृतः ॥५॥
पूर्णे वर्षसहस्रान्ते स कृत्वा दुष्करं तपःकालधर्मपरीतात्मा निधनं समुपागतः ॥६॥
निमिस्तु कृत्वा शौचानि विधिदृष्टेन कर्मणासंतापमगमत्तीव्रं पुत्रशोकपरायणः ॥७॥
अथ कृत्वोपहार्याणि चतुर्दश्यां महामतिःतमेव गणयञ्शोकं विरात्रे प्रत्यबुध्यत ॥८॥
तस्यासीत्प्रतिबुद्धस्य शोकेन पिहितात्मनःमनः संहृत्य विषये बुद्धिर्विस्तरगामिनी ॥९॥
ततः संचिन्तयामास श्राद्धकल्पं समाहितःयानि तस्यैव भोज्यानि मूलानि च फलानि च ॥१०॥
उक्तानि यानि चान्यानि यानि चेष्टानि तस्य हतानि सर्वाणि मनसा विनिश्चित्य तपोधनः ॥११॥
अमावास्यां महाप्राज्ञ विप्रानानाय्य पूजितान्दक्षिणावर्तिकाः सर्वा बृसीः स्वयमथाकरोत् ॥१२॥
सप्त विप्रांस्ततो भोज्ये युगपत्समुपानयत्ऋते च लवणं भोज्यं श्यामाकान्नं ददौ प्रभुः ॥१३॥
दक्षिणाग्रास्ततो दर्भा विष्टरेषु निवेशिताःपादयोश्चैव विप्राणां ये त्वन्नमुपभुञ्जते ॥१४॥
कृत्वा च दक्षिणाग्रान्वै दर्भान्सुप्रयतः शुचिःप्रददौ श्रीमते पिण्डं नामगोत्रमुदाहरन् ॥१५॥
तत्कृत्वा स मुनिश्रेष्ठो धर्मसंकरमात्मनःपश्चात्तापेन महता तप्यमानोऽभ्यचिन्तयत् ॥१६॥
अकृतं मुनिभिः पूर्वं किं मयैतदनुष्ठितम्कथं नु शापेन न मां दहेयुर्ब्राह्मणा इति ॥१७॥
ततः संचिन्तयामास वंशकर्तारमात्मनःध्यातमात्रस्तथा चात्रिराजगाम तपोधनः ॥१८॥
अथात्रिस्तं तथा दृष्ट्वा पुत्रशोकेन कर्शितम्भृशमाश्वासयामास वाग्भिरिष्टाभिरव्ययः ॥१९॥
निमे संकल्पितस्तेऽयं पितृयज्ञस्तपोधनःमा ते भूद्भीः पूर्वदृष्टो धर्मोऽयं ब्रह्मणा स्वयम् ॥२०॥
सोऽयं स्वयंभुविहितो धर्मः संकल्पितस्त्वयाऋते स्वयंभुवः कोऽन्यः श्राद्धेयं विधिमाहरेत् ॥२१॥
आख्यास्यामि च ते भूयः श्राद्धेयं विधिमुत्तमम्स्वयंभुविहितं पुत्र तत्कुरुष्व निबोध मे ॥२२॥
कृत्वाग्निकरणं पूर्वं मन्त्रपूर्वं तपोधनततोऽर्यम्णे च सोमाय वरुणाय च नित्यशः ॥२३॥
विश्वेदेवाश्च ये नित्यं पितृभिः सह गोचराःतेभ्यः संकल्पिता भागाः स्वयमेव स्वयंभुवा ॥२४॥
स्तोतव्या चेह पृथिवी निवापस्येह धारिणीवैष्णवी काश्यपी चेति तथैवेहाक्षयेति च ॥२५॥
उदकानयने चैव स्तोतव्यो वरुणो विभुःततोऽग्निश्चैव सोमश्च आप्याय्याविह तेऽनघ ॥२६॥
देवास्तु पितरो नाम निर्मिता वै स्वयंभुवाऊष्मपाः सुमहाभागास्तेषां भागाः प्रकल्पिताः ॥२७॥
ते श्राद्धेनार्च्यमाना वै विमुच्यन्ते ह किल्बिषात्सप्तकः पितृवंशस्तु पूर्वदृष्टः स्वयंभुवा ॥२८॥
विश्वे चाग्निमुखा देवाः संख्याताः पूर्वमेव तेतेषां नामानि वक्ष्यामि भागार्हाणां महात्मनाम् ॥२९॥
सहः कृतिर्विपाप्मा च पुण्यकृत्पावनस्तथाग्राम्निः क्षेमः समूहश्च दिव्यसानुस्तथैव च ॥३०॥
विवस्वान्वीर्यवान्ह्रीमान्कीर्तिमान्कृत एव चविपूर्वः सोमपूर्वश्च सूर्यश्रीश्चेति नामतः ॥३१॥
सोमपः सूर्यसावित्रो दत्तात्मा पुष्करीयकःउष्णीनाभो नभोदश्च विश्वायुर्दीप्तिरेव च ॥३२॥
चमूहरः सुवेषश्च व्योमारिः शंकरो भवःईशः कर्ता कृतिर्दक्षो भुवनो दिव्यकर्मकृत् ॥३३॥
गणितः पञ्चवीर्यश्च आदित्यो रश्मिमांस्तथासप्तकृत्सोमवर्चाश्च विश्वकृत्कविरेव च ॥३४॥
अनुगोप्ता सुगोप्ता च नप्ता चेश्वर एव चजितात्मा मुनिवीर्यश्च दीप्तलोमा भयंकरः ॥३५॥
अतिकर्मा प्रतीतश्च प्रदाता चांशुमांस्तथाशैलाभः परमक्रोधी धीरोष्णी भूपतिस्तथा ॥३६॥
स्रजी वज्री वरी चैव विश्वेदेवाः सनातनाःकीर्तितास्ते महाभागाः कालस्य गतिगोचराः ॥३७॥
अश्राद्धेयानि धान्यानि कोद्रवाः पुलकास्तथाहिङ्गु द्रव्येषु शाकेषु पलाण्डुं लशुनं तथा ॥३८॥
पलाण्डुः सौभञ्जनकस्तथा गृञ्जनकादयःकूष्माण्डजात्यलाबुं च कृष्णं लवणमेव च ॥३९॥
ग्राम्यं वाराहमांसं च यच्चैवाप्रोक्षितं भवेत्कृष्णाजाजी विडश्चैव शीतपाकी तथैव चअङ्कुराद्यास्तथा वर्ज्या इह शृङ्गाटकानि च ॥४०॥
वर्जयेल्लवणं सर्वं तथा जम्बूफलानि चअवक्षुतावरुदितं तथा श्राद्धेषु वर्जयेत् ॥४१॥
निवापे हव्यकव्ये वा गर्हितं च श्वदर्शनम्पितरश्चैव देवाश्च नाभिनन्दन्ति तद्धविः ॥४२॥
चण्डालश्वपचौ वर्ज्यौ निवापे समुपस्थितेकाषायवासी कुष्ठी वा पतितो ब्रह्महापि वा ॥४३॥
संकीर्णयोनिर्विप्रश्च संबन्धी पतितश्च यःवर्जनीया बुधैरेते निवापे समुपस्थिते ॥४४॥
इत्येवमुक्त्वा भगवान्स्ववंशजमृषिं पुरापितामहसभां दिव्यां जगामात्रिस्तपोधनः ॥४५॥
End of chapter ॥
1
Mahabharata · Anushasana Parva

Adhyaya 91

0
Adhyaya 91Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0