Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Anushasana Parva
भीष्म उवाच
तथा विधौ प्रवृत्ते तु सर्व एव महर्षयःपितृयज्ञानकुर्वन्त विधिदृष्टेन कर्मणा ॥१॥
ऋषयो धर्मनित्यास्तु कृत्वा निवपनान्युततर्पणं चाप्यकुर्वन्त तीर्थाम्भोभिर्यतव्रताः ॥२॥
निवापैर्दीयमानैश्च चातुर्वर्ण्येन भारततर्पिताः पितरो देवास्ते नान्नं जरयन्ति वै ॥३॥
अजीर्णेनाभिहन्यन्ते ते देवाः पितृभिः सहसोममेवाभ्यपद्यन्त निवापान्नाभिपीडिताः ॥४॥
तेऽब्रुवन्सोममासाद्य पितरोऽजीर्णपीडिताःनिवापान्नेन पीड्यामः श्रेयो नोऽत्र विधीयताम् ॥५॥
तान्सोमः प्रत्युवाचाथ श्रेयश्चेदीप्सितं सुराःस्वयंभूसदनं यात स वः श्रेयो विधास्यति ॥६॥
ते सोमवचनाद्देवाः पितृभिः सह भारतमेरुशृङ्गे समासीनं पितामहमुपागमन् ॥७॥
पितर ऊचुःनिवापान्नेन भगवन्भृशं पीड्यामहे वयम्प्रसादं कुरु नो देव श्रेयो नः संविधीयताम् ॥८॥
इति तेषां वचः श्रुत्वा स्वयंभूरिदमब्रवीत्एष मे पार्श्वतो वह्निर्युष्मच्छ्रेयो विधास्यति ॥९॥
अग्निरुवाचसहितास्तात भोक्ष्यामो निवापे समुपस्थितेजरयिष्यथ चाप्यन्नं मया सार्धं न संशयः ॥१०॥
एतच्छ्रुत्वा तु पितरस्ततस्ते विज्वराभवन्एतस्मात्कारणाच्चाग्नेः प्राक्तनं दीयते नृप ॥११॥
निवप्ते चाग्निपूर्वे वै निवापे पुरुषर्षभन ब्रह्मराक्षसास्तं वै निवापं धर्षयन्त्युतरक्षांसि चापवर्तन्ते स्थिते देवे विभावसौ ॥१२॥
पूर्वं पिण्डं पितुर्दद्यात्ततो दद्यात्पितामहेप्रपितामहाय च तत एष श्राद्धविधिः स्मृतः ॥१३॥
ब्रूयाच्छ्राद्धे च सावित्रीं पिण्डे पिण्डे समाहितःसोमायेति च वक्तव्यं तथा पितृमतेति च ॥१४॥
रजस्वला च या नारी व्यङ्गिता कर्णयोश्च यानिवापे नोपतिष्ठेत संग्राह्या नान्यवंशजाः ॥१५॥
जलं प्रतरमाणश्च कीर्तयेत पितामहान्नदीमासाद्य कुर्वीत पितॄणां पिण्डतर्पणम् ॥१६॥
पूर्वं स्ववंशजानां तु कृत्वाद्भिस्तर्पणं पुनःसुहृत्संबन्धिवर्गाणां ततो दद्याज्जलाञ्जलिम् ॥१७॥
कल्माषगोयुगेनाथ युक्तेन तरतो जलम्पितरोऽभिलषन्ते वै नावं चाप्यधिरोहतःसदा नावि जलं तज्ज्ञाः प्रयच्छन्ति समाहिताः ॥१८॥
मासार्धे कृष्णपक्षस्य कुर्यान्निवपनानि वैपुष्टिरायुस्तथा वीर्यं श्रीश्चैव पितृवर्तिनः ॥१९॥
पितामहः पुलस्त्यश्च वसिष्ठः पुलहस्तथाअङ्गिराश्च क्रतुश्चैव कश्यपश्च महानृषिःएते कुरुकुलश्रेष्ठ महायोगेश्वराः स्मृताः ॥२०॥
एते च पितरो राजन्नेष श्राद्धविधिः परःप्रेतास्तु पिण्डसंबन्धान्मुच्यन्ते तेन कर्मणा ॥२१॥
इत्येषा पुरुषश्रेष्ठ श्राद्धोत्पत्तिर्यथागमम्ख्यापिता पूर्वनिर्दिष्टा दानं वक्ष्याम्यतः परम् ॥२२॥
End of chapter ॥
1
Mahabharata · Anushasana Parva

Adhyaya 92

0
Adhyaya 92Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0