Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Anushasana Parva
भीष्म उवाच
अथात्रिप्रमुखा राजन्वने तस्मिन्महर्षयःव्यचरन्भक्षयन्तो वै मूलानि च फलानि च ॥१॥
अथापश्यन्सुपीनांसपाणिपादमुखोदरम्परिव्रजन्तं स्थूलाङ्गं परिव्राजं शुनःसखम् ॥२॥
अरुन्धती तु तं दृष्ट्वा सर्वाङ्गोपचितं शुभाभवितारो भवन्तो वै नैवमित्यब्रवीदृषीन् ॥३॥
वसिष्ठ उवाच
नैतस्येह यथास्माकमग्निहोत्रमनिर्हुतम्सायं प्रातश्च होतव्यं तेन पीवाञ्शुनःसखः ॥४॥
अत्रिरुवाचनैतस्येह यथास्माकं क्षुधा वीर्यं समाहतम्कृच्छ्राधीतं प्रनष्टं च तेन पीवाञ्शुनःसखः ॥५॥
विश्वामित्र उवाच
नैतस्येह यथास्माकं शश्वच्छास्त्रं जरद्गवःअलसः क्षुत्परो मूर्खस्तेन पीवाञ्शुनःसखः ॥६॥
जमदग्निरुवाचनैतस्येह यथास्माकं भक्तमिन्धनमेव चसंचिन्त्य वार्षिकं किंचित्तेन पीवाञ्शुनःसखः ॥७॥
कश्यप उवाच
नैतस्येह यथास्माकं चत्वारश्च सहोदराःदेहि देहीति भिक्षन्ति तेन पीवाञ्शुनःसखः ॥८॥
भरद्वाज उवाच
नैतस्येह यथास्माकं ब्रह्मबन्धोरचेतसःशोको भार्यापवादेन तेन पीवाञ्शुनःसखः ॥९॥
गौतम उवाच
नैतस्येह यथास्माकं त्रिकौशेयं हि राङ्कवम्एकैकं वै त्रिवार्षीयं तेन पीवाञ्शुनःसखः ॥१०॥
भीष्म उवाच
अथ दृष्ट्वा परिव्राट्स तान्महर्षीञ्शुनःसखःअभिगम्य यथान्यायं पाणिस्पर्शमथाचरत् ॥११॥
परिचर्यां वने तां तु क्षुत्प्रतीघातकारिकाम्अन्योन्येन निवेद्याथ प्रातिष्ठन्त सहैव ते ॥१२॥
एकनिश्चयकार्याश्च व्यचरन्त वनानि तेआददानाः समुद्धृत्य मूलानि च फलानि च ॥१३॥
कदाचिद्विचरन्तस्ते वृक्षैरविरलैर्वृताम्शुचिवारिप्रसन्नोदां ददृशुः पद्मिनीं शुभाम् ॥१४॥
बालादित्यवपुःप्रख्यैः पुष्करैरुपशोभिताम्वैदूर्यवर्णसदृशैः पद्मपत्रैरथावृताम् ॥१५॥
नानाविधैश्च विहगैर्जलप्रकरसेविभिःएकद्वारामनादेयां सूपतीर्थामकर्दमाम् ॥१६॥
वृषादर्भिप्रयुक्ता तु कृत्या विकृतदर्शनायातुधानीति विख्याता पद्मिनीं तामरक्षत ॥१७॥
शुनःसखसहायास्तु बिसार्थं ते महर्षयःपद्मिनीमभिजग्मुस्ते सर्वे कृत्याभिरक्षिताम् ॥१८॥
ततस्ते यातुधानीं तां दृष्ट्वा विकृतदर्शनाम्स्थितां कमलिनीतीरे कृत्यामूचुर्महर्षयः ॥१९॥
एका तिष्ठसि का नु त्वं कस्यार्थे किं प्रयोजनम्पद्मिनीतीरमाश्रित्य ब्रूहि त्वं किं चिकीर्षसि ॥२०॥
यातुधान्युवाचयास्मि सास्म्यनुयोगो मे न कर्तव्यः कथंचनआरक्षिणीं मां पद्मिन्या वित्त सर्वे तपोधनाः ॥२१॥
ऋषय ऊचुःसर्व एव क्षुधार्ताः स्म न चान्यत्किंचिदस्ति नःभवत्याः संमते सर्वे गृह्णीमहि बिसान्युत ॥२२॥
यातुधान्युवाचसमयेन बिसानीतो गृह्णीध्वं कामकारतःएकैको नाम मे प्रोक्त्वा ततो गृह्णीत माचिरम् ॥२३॥
भीष्म उवाच
विज्ञाय यातुधानीं तां कृत्यामृषिवधैषिणीम्अत्रिः क्षुधापरीतात्मा ततो वचनमब्रवीत् ॥२४॥
अरात्रिरत्रेः सा रात्रिर्यां नाधीते त्रिरद्य वैअरात्रिरत्रिरित्येव नाम मे विद्धि शोभने ॥२५॥
यातुधान्युवाचयथोदाहृतमेतत्ते मयि नाम महामुनेदुर्धार्यमेतन्मनसा गच्छावतर पद्मिनीम् ॥२६॥
वसिष्ठ उवाच
वसिष्ठोऽस्मि वरिष्ठोऽस्मि वसे वासं गृहेष्वपिवरिष्ठत्वाच्च वासाच्च वसिष्ठ इति विद्धि माम् ॥२७॥
यातुधान्युवाचनामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥२८॥
कश्यप उवाच
कुलं कुलं च कुपपः कुपयः कश्यपो द्विजःकाश्यः काशनिकाशत्वादेतन्मे नाम धारय ॥२९॥
यातुधान्युवाचयथोदाहृतमेतत्ते मयि नाम महामुनेदुर्धार्यमेतन्मनसा गच्छावतर पद्मिनीम् ॥३०॥
भरद्वाज उवाच
भरे सुतान्भरे शिष्यान्भरे देवान्भरे द्विजान्भरे भार्यामनव्याजो भरद्वाजोऽस्मि शोभने ॥३१॥
यातुधान्युवाचनामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥३२॥
गौतम उवाच
गोदमो दमगोऽधूमो दमो दुर्दर्शनश्च तेविद्धि मां गौतमं कृत्ये यातुधानि निबोध मे ॥३३॥
यातुधान्युवाचयथोदाहृतमेतत्ते मयि नाम महामुनेनैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥३४॥
विश्वामित्र उवाच
विश्वेदेवाश्च मे मित्रं मित्रमस्मि गवां तथाविश्वामित्रमिति ख्यातं यातुधानि निबोध मे ॥३५॥
यातुधान्युवाचनामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥३६॥
जमदग्निरुवाचजाजमद्यजजा नाम मृजा माह जिजायिषेजमदग्निरिति ख्यातमतो मां विद्धि शोभने ॥३७॥
यातुधान्युवाचयथोदाहृतमेतत्ते मयि नाम महामुनेनैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥३८॥
अरुन्धत्युवाचधरां धरित्रीं वसुधां भर्तुस्तिष्ठाम्यनन्तरम्मनोऽनुरुन्धती भर्तुरिति मां विद्ध्यरुन्धतीम् ॥३९॥
यातुधान्युवाचनामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥४०॥
गण्डोवाचगण्डं गण्डं गतवती गण्डगण्डेति संज्ञितागण्डगण्डेव गण्डेति विद्धि मानलसंभवे ॥४१॥
यातुधान्युवाचनामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥४२॥
पशुसख उवाच
सखा सखे यः सख्येयः पशूनां च सखा सदागौणं पशुसखेत्येवं विद्धि मामग्निसंभवे ॥४३॥
यातुधान्युवाचनामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥४४॥
शुनःसख उवाच
एभिरुक्तं यथा नाम नाहं वक्तुमिहोत्सहेशुनःसखसखायं मां यातुधान्युपधारय ॥४५॥
यातुधान्युवाचनाम तेऽव्यक्तमुक्तं वै वाक्यं संदिग्धया गिरातस्मात्सकृदिदानीं त्वं ब्रूहि यन्नाम ते द्विज ॥४६॥
शुनःसख उवाच
सकृदुक्तं मया नाम न गृहीतं यदा त्वयातस्मात्त्रिदण्डाभिहता गच्छ भस्मेति माचिरम् ॥४७॥
भीष्म उवाच
सा ब्रह्मदण्डकल्पेन तेन मूर्ध्नि हता तदाकृत्या पपात मेदिन्यां भस्मसाच्च जगाम ह ॥४८॥
शुनःसखश्च हत्वा तां यातुधानीं महाबलाम्भुवि त्रिदण्डं विष्टभ्य शाद्वले समुपाविशत् ॥४९॥
ततस्ते मुनयः सर्वे पुष्कराणि बिसानि चयथाकाममुपादाय समुत्तस्थुर्मुदान्विताः ॥५०॥
श्रमेण महता युक्तास्ते बिसानि कलापशःतीरे निक्षिप्य पद्मिन्यास्तर्पणं चक्रुरम्भसा ॥५१॥
अथोत्थाय जलात्तस्मात्सर्वे ते वै समागमन्नापश्यंश्चापि ते तानि बिसानि पुरुषर्षभ ॥५२॥
ऋषय ऊचुःकेन क्षुधाभिभूतानामस्माकं पापकर्मणानृशंसेनापनीतानि बिसान्याहारकाङ्क्षिणाम् ॥५३॥
ते शङ्कमानास्त्वन्योन्यं पप्रच्छुर्द्विजसत्तमाःत ऊचुः शपथं सर्वे कुर्म इत्यरिकर्शन ॥५४॥
त उक्त्वा बाढमित्येव सर्व एव शुनःसखम्क्षुधार्ताः सुपरिश्रान्ताः शपथायोपचक्रमुः ॥५५॥
अत्रिरुवाचस गां स्पृशतु पादेन सूर्यं च प्रतिमेहतुअनध्यायेष्वधीयीत बिसस्तैन्यं करोति यः ॥५६॥
वसिष्ठ उवाच
अनध्यायपरो लोके शुनः स परिकर्षतुपरिव्राट्कामवृत्तोऽस्तु बिसस्तैन्यं करोति यः ॥५७॥
शरणागतं हन्तु मित्रं स्वसुतां चोपजीवतुअर्थान्काङ्क्षतु कीनाशाद्बिसस्तैन्यं करोति यः ॥५८॥
कश्यप उवाच
सर्वत्र सर्वं पणतु न्यासलोपं करोतु चकूटसाक्षित्वमभ्येतु बिसस्तैन्यं करोति यः ॥५९॥
वृथामांसं समश्नातु वृथादानं करोतु चयातु स्त्रियं दिवा चैव बिसस्तैन्यं करोति यः ॥६०॥
भरद्वाज उवाच
नृशंसस्त्यक्तधर्मास्तु स्त्रीषु ज्ञातिषु गोषु चब्राह्मणं चापि जयतां बिसस्तैन्यं करोति यः ॥६१॥
उपाध्यायमधः कृत्वा ऋचोऽध्येतु यजूंषि चजुहोतु च स कक्षाग्नौ बिसस्तैन्यं करोति यः ॥६२॥
जमदग्निरुवाचपुरीषमुत्सृजत्वप्सु हन्तु गां चापि दोहिनीम्अनृतौ मैथुनं यातु बिसस्तैन्यं करोति यः ॥६३॥
द्वेष्यो भार्योपजीवी स्याद्दूरबन्धुश्च वैरवान्अन्योन्यस्यातिथिश्चास्तु बिसस्तैन्यं करोति यः ॥६४॥
गौतम उवाच
अधीत्य वेदांस्त्यजतु त्रीनग्नीनपविध्यतुविक्रीणातु तथा सोमं बिसस्तैन्यं करोति यः ॥६५॥
उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिःतस्य सालोक्यतां यातु बिसस्तैन्यं करोति यः ॥६६॥
विश्वामित्र उवाच
जीवतो वै गुरून्भृत्यान्भरन्त्वस्य परे जनाःअगतिर्बहुपुत्रः स्याद्बिसस्तैन्यं करोति यः ॥६७॥
अशुचिर्ब्रह्मकूटोऽस्तु ऋद्ध्या चैवाप्यहंकृतःकर्षको मत्सरी चास्तु बिसस्तैन्यं करोति यः ॥६८॥
वर्षान्करोतु भृतको राज्ञश्चास्तु पुरोहितःअयाज्यस्य भवेदृत्विग्बिसस्तैन्यं करोति यः ॥६९॥
अरुन्धत्युवाचनित्यं परिवदेच्छ्वश्रूं भर्तुर्भवतु दुर्मनाःएका स्वादु समश्नातु बिसस्तैन्यं करोति या ॥७०॥
ज्ञातीनां गृहमध्यस्था सक्तूनत्तु दिनक्षयेअभाग्यावीरसूरस्तु बिसस्तैन्यं करोति या ॥७१॥
गण्डोवाचअनृतं भाषतु सदा साधुभिश्च विरुध्यतुददातु कन्यां शुल्केन बिसस्तैन्यं करोति या ॥७२॥
साधयित्वा स्वयं प्राशेद्दास्ये जीवतु चैव हविकर्मणा प्रमीयेत बिसस्तैन्यं करोति या ॥७३॥
पशुसख उवाच
दास्य एव प्रजायेत सोऽप्रसूतिरकिंचनःदैवतेष्वनमस्कारो बिसस्तैन्यं करोति यः ॥७४॥
शुनःसख उवाच
अध्वर्यवे दुहितरं ददातु; च्छन्दोगे वा चरितब्रह्मचर्येआथर्वणं वेदमधीत्य विप्रः; स्नायीत यो वै हरते बिसानि ॥७५॥
ऋषय ऊचुःइष्टमेतद्द्विजातीनां योऽयं ते शपथः कृतःत्वया कृतं बिसस्तैन्यं सर्वेषां नः शुनःसख ॥७६॥
शुनःसख उवाच
न्यस्तमाद्यमपश्यद्भिर्यदुक्तं कृतकर्मभिःसत्यमेतन्न मिथ्यैतद्बिसस्तैन्यं कृतं मया ॥७७॥
मया ह्यन्तर्हितानीह बिसानीमानि पश्यतपरीक्षार्थं भगवतां कृतमेतन्मयानघाःरक्षणार्थं च सर्वेषां भवतामहमागतः ॥७८॥
यातुधानी ह्यतिक्रुद्धा कृत्यैषा वो वधैषिणीवृषादर्भिप्रयुक्तैषा निहता मे तपोधनाः ॥७९॥
दुष्टा हिंस्यादियं पापा युष्मान्प्रत्यग्निसंभवातस्मादस्म्यागतो विप्रा वासवं मां निबोधत ॥८०॥
अलोभादक्षया लोकाः प्राप्ता वः सार्वकामिकाःउत्तिष्ठध्वमितः क्षिप्रं तानवाप्नुत वै द्विजाः ॥८१॥
भीष्म उवाच
ततो महर्षयः प्रीतास्तथेत्युक्त्वा पुरंदरम्सहैव त्रिदशेन्द्रेण सर्वे जग्मुस्त्रिविष्टपम् ॥८२॥
एवमेते महात्मानो भोगैर्बहुविधैरपिक्षुधा परमया युक्ताश्छन्द्यमाना महात्मभिःनैव लोभं तदा चक्रुस्ततः स्वर्गमवाप्नुवन् ॥८३॥
तस्मात्सर्वास्ववस्थासु नरो लोभं विवर्जयेत्एष धर्मः परो राजन्नलोभ इति विश्रुतः ॥८४॥
इदं नरः सच्चरितं समवायेषु कीर्तयेत्सुखभागी च भवति न च दुर्गाण्यवाप्नुते ॥८५॥
प्रीयन्ते पितरश्चास्य ऋषयो देवतास्तथायशोधर्मार्थभागी च भवति प्रेत्य मानवः ॥८६॥
End of chapter ॥
1
Mahabharata · Anushasana Parva

Adhyaya 95

0
Adhyaya 95Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0