महाभारत, पुस्तक रूप में
॥ ॐ ॥यदि आपको इस मंच का अनुभव अच्छा लगा हो…॥ दान ॥तो कृपया दान करेंइससे ये ग्रंथ सबके लिए खुले और निःशुल्क रहते हैं।दान करेंमहाभारत · अनुशासन पर्व
॥ श्रीः ॥
अध्याय 96
महाभारत · अनुशासन पर्व
भीष्म उवाच
अत्रैवोदाहरन्तीममितिहासं पुरातनम्यद्वृत्तं तीर्थयात्रायां शपथं प्रति तच्छृणु ॥१॥
पुष्करार्थं कृतं स्तैन्यं पुरा भरतसत्तमराजर्षिभिर्महाराज तथैव च द्विजर्षिभिः ॥२॥
ऋषयः समेताः पश्चिमे वै प्रभासे; समागता मन्त्रममन्त्रयन्तचराम सर्वे पृथिवीं पुण्यतीर्थां; तन्नः कार्यं हन्त गच्छाम सर्वे ॥३॥
शुक्रोऽङ्गिराश्चैव कविश्च विद्वां;स्तथागस्त्यो नारदपर्वतौ चभृगुर्वसिष्ठः कश्यपो गौतमश्च; विश्वामित्रो जमदग्निश्च राजन् ॥४॥
ऋषिस्तथा गालवोऽथाष्टकश्च; भरद्वाजोऽरुन्धती वालखिल्याःशिबिर्दिलीपो नहुषोऽम्बरीषो; राजा ययातिर्धुन्धुमारोऽथ पूरुः ॥५॥
जग्मुः पुरस्कृत्य महानुभावं; शतक्रतुं वृत्रहणं नरेन्द्रतीर्थानि सर्वाणि परिक्रमन्तो; माघ्यां ययुः कौशिकीं पुण्यतीर्थाम् ॥६॥
सर्वेषु तीर्थेष्वथ धूतपापा; जग्मुस्ततो ब्रह्मसरः सुपुण्यम्देवस्य तीर्थे जलमग्निकल्पा; विगाह्य ते भुक्तबिसप्रसूनाः ॥७॥
केचिद्बिसान्यखनंस्तत्र राज;न्नन्ये मृणालान्यखनंस्तत्र विप्राःअथापश्यन्पुष्करं ते ह्रियन्तं; ह्रदादगस्त्येन समुद्धृतं वै ॥८॥
तानाह सर्वानृषिमुख्यानगस्त्यः; केनादत्तं पुष्करं मे सुजातम्युष्माञ्शङ्के दीयतां पुष्करं मे; न वै भवन्तो हर्तुमर्हन्ति पद्मम् ॥९॥
शृणोमि कालो हिंसते धर्मवीर्यं; सेयं प्राप्ता वर्धते धर्मपीडापुराधर्मो वर्धते नेह याव;त्तावद्गच्छामि परलोकं चिराय ॥१०॥
पुरा वेदान्ब्राह्मणा ग्राममध्ये; घुष्टस्वरा वृषलाञ्श्रावयन्तिपुरा राजा व्यवहारानधर्म्या;न्पश्यत्यहं परलोकं व्रजामि ॥११॥
पुरावरान्प्रत्यवरान्गरीयसो; यावन्नरा नावमंस्यन्ति सर्वेतमोत्तरं यावदिदं न वर्तते; तावद्व्रजामि परलोकं चिराय ॥१२॥
पुरा प्रपश्यामि परेण मर्त्या;न्बलीयसा दुर्बलान्भुज्यमानान्तस्माद्यास्यामि परलोकं चिराय; न ह्युत्सहे द्रष्टुमीदृङ्नृलोके ॥१३॥
तमाहुरार्ता ऋषयो महर्षिं; न ते वयं पुष्करं चोरयामःमिथ्याभिषङ्गो भवता न कार्यः; शपाम तीक्ष्णाञ्शपथान्महर्षे ॥१४॥
ते निश्चितास्तत्र महर्षयस्तु; संमन्यन्तो धर्ममेवं नरेन्द्रततोऽशपञ्शपथान्पर्ययेण; सहैव ते पार्थिव पुत्रपौत्रैः ॥१५॥
भृगुरुवाचप्रत्याक्रोशेदिहाक्रुष्टस्ताडितः प्रतिताडयेत्खादेच्च पृष्ठमांसानि यस्ते हरति पुष्करम् ॥१६॥
वसिष्ठ उवाच
अस्वाध्यायपरो लोके श्वानं च परिकर्षतुपुरे च भिक्षुर्भवतु यस्ते हरति पुष्करम् ॥१७॥
कश्यप उवाच
सर्वत्र सर्वं पणतु न्यासे लोभं करोतु चकूटसाक्षित्वमभ्येतु यस्ते हरति पुष्करम् ॥१८॥
गौतम उवाच
जीवत्वहंकृतो बुद्ध्या विपणत्वधमेन सःकर्षको मत्सरी चास्तु यस्ते हरति पुष्करम् ॥१९॥
अङ्गिरा उवाच
अशुचिर्ब्रह्मकूटोऽस्तु श्वानं च परिकर्षतुब्रह्महानिकृतिश्चास्तु यस्ते हरति पुष्करम् ॥२०॥
धुन्धुमार उवाच
अकृतज्ञोऽस्तु मित्राणां शूद्रायां तु प्रजायतुएकः संपन्नमश्नातु यस्ते हरति पुष्करम् ॥२१॥
पूरुरुवाचचिकित्सायां प्रचरतु भार्यया चैव पुष्यतुश्वशुरात्तस्य वृत्तिः स्याद्यस्ते हरति पुष्करम् ॥२२॥
दिलीप उवाच
उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिःतस्य लोकान्स व्रजतु यस्ते हरति पुष्करम् ॥२३॥
शुक्र उवाच
पृष्ठमांसं समश्नातु दिवा गच्छतु मैथुनम्प्रेष्यो भवतु राज्ञश्च यस्ते हरति पुष्करम् ॥२४॥
जमदग्निरुवाचअनध्यायेष्वधीयीत मित्रं श्राद्धे च भोजयेत्श्राद्धे शूद्रस्य चाश्नीयाद्यस्ते हरति पुष्करम् ॥२५॥
शिबिरुवाचअनाहिताग्निर्म्रियतां यज्ञे विघ्नं करोतु चतपस्विभिर्विरुध्येत यस्ते हरति पुष्करम् ॥२६॥
ययातिरुवाचअनृतौ जटी व्रतिन्यां वै भार्यायां संप्रजायतुनिराकरोतु वेदांश्च यस्ते हरति पुष्करम् ॥२७॥
नहुष उवाच
अतिथिं गृहस्थो नुदतु कामवृत्तोऽस्तु दीक्षितःविद्यां प्रयच्छतु भृतो यस्ते हरति पुष्करम् ॥२८॥
अम्बरीष उवाच
नृशंसस्त्यक्तधर्मोऽस्तु स्त्रीषु ज्ञातिषु गोषु चब्राह्मणं चापि जहतु यस्ते हरति पुष्करम् ॥२९॥
नारद उवाच
गूढोऽज्ञानी बहिः शास्त्रं पठतां विस्वरं पदम्गरीयसोऽवजानातु यस्ते हरति पुष्करम् ॥३०॥
नाभाग उवाच
अनृतं भाषतु सदा सद्भिश्चैव विरुध्यतुशुल्केन कन्यां ददतु यस्ते हरति पुष्करम् ॥३१॥
कविरुवाचपदा स गां ताडयतु सूर्यं च प्रति मेहतुशरणागतं च त्यजतु यस्ते हरति पुष्करम् ॥३२॥
विश्वामित्र उवाच
करोतु भृतकोऽवर्षां राज्ञश्चास्तु पुरोहितःऋत्विगस्तु ह्ययाज्यस्य यस्ते हरति पुष्करम् ॥३३॥
पर्वत उवाच
ग्रामे चाधिकृतः सोऽस्तु खरयानेन गच्छतुशुनः कर्षतु वृत्त्यर्थे यस्ते हरति पुष्करम् ॥३४॥
भरद्वाज उवाच
सर्वपापसमादानं नृशंसे चानृते च यत्तत्तस्यास्तु सदा पापं यस्ते हरति पुष्करम् ॥३५॥
अष्टक उवाच
स राजास्त्वकृतप्रज्ञः कामवृत्तिश्च पापकृत्अधर्मेणानुशास्तूर्वीं यस्ते हरति पुष्करम् ॥३६॥
गालव उवाच
पापिष्ठेभ्यस्त्वनर्घार्हः स नरोऽस्तु स्वपापकृत्दत्त्वा दानं कीर्तयतु यस्ते हरति पुष्करम् ॥३७॥
अरुन्धत्युवाचश्वश्र्वापवादं वदतु भर्तुर्भवतु दुर्मनाःएका स्वादु समश्नातु या ते हरति पुष्करम् ॥३८॥
वालखिल्या ऊचुःएकपादेन वृत्त्यर्थं ग्रामद्वारे स तिष्ठतुधर्मज्ञस्त्यक्तधर्मोऽस्तु यस्ते हरति पुष्करम् ॥३९॥
पशुसख उवाच
अग्निहोत्रमनादृत्य सुखं स्वपतु स द्विजःपरिव्राट्कामवृत्तोऽस्तु यस्ते हरति पुष्करम् ॥४०॥
सुरभ्युवाचबाल्वजेन निदानेन कांस्यं भवतु दोहनम्दुह्येत परवत्सेन या ते हरति पुष्करम् ॥४१॥
भीष्म उवाच
ततस्तु तैः शपथैः शप्यमानै;र्नानाविधैर्बहुभिः कौरवेन्द्रसहस्राक्षो देवराट्संप्रहृष्टः; समीक्ष्य तं कोपनं विप्रमुख्यम् ॥४२॥
अथाब्रवीन्मघवा प्रत्ययं स्वं; समाभाष्य तमृषिं जातरोषम्ब्रह्मर्षिदेवर्षिनृपर्षिमध्ये; यत्तन्निबोधेह ममाद्य राजन् ॥४३॥
शक्र उवाच
अध्वर्यवे दुहितरं ददातु; च्छन्दोगे वा चरितब्रह्मचर्येआथर्वणं वेदमधीत्य विप्रः; स्नायीत यः पुष्करमाददाति ॥४४॥
सर्वान्वेदानधीयीत पुण्यशीलोऽस्तु धार्मिकःब्रह्मणः सदनं यातु यस्ते हरति पुष्करम् ॥४५॥
अगस्त्य उवाच
आशीर्वादस्त्वया प्रोक्तः शपथो बलसूदनदीयतां पुष्करं मह्यमेष धर्मः सनातनः ॥४६॥
इन्द्र उवाच
न मया भगवँल्लोभाद्धृतं पुष्करमद्य वैधर्मं तु श्रोतुकामेन हृतं न क्रोद्धुमर्हसि ॥४७॥
धर्मः श्रुतिसमुत्कर्षो धर्मसेतुरनामयःआर्षो वै शाश्वतो नित्यमव्ययोऽयं मया श्रुतः ॥४८॥
तदिदं गृह्यतां विद्वन्पुष्करं मुनिसत्तमअतिक्रमं मे भगवन्क्षन्तुमर्हस्यनिन्दित ॥४९॥
इत्युक्तः स महेन्द्रेण तपस्वी कोपनो भृशम्जग्राह पुष्करं धीमान्प्रसन्नश्चाभवन्मुनिः ॥५०॥
प्रययुस्ते ततो भूयस्तीर्थानि वनगोचराःपुण्यतीर्थेषु च तथा गात्राण्याप्लावयन्ति ते ॥५१॥
आख्यानं य इदं युक्तः पठेत्पर्वणि पर्वणिन मूर्खं जनयेत्पुत्रं न भवेच्च निराकृतिः ॥५२॥
न तमापत्स्पृशेत्काचिन्न ज्वरो न रुजश्च हविरजाः श्रेयसा युक्तः प्रेत्य स्वर्गमवाप्नुयात् ॥५३॥
यश्च शास्त्रमनुध्यायेदृषिभिः परिपालितम्स गच्छेद्ब्रह्मणो लोकमव्ययं च नरोत्तम ॥५४॥
अध्याय समाप्त ॥
१

0
पृष्ठ पलटने के लिए कोना खींचें, स्वाइप करें या तीर कुंजियाँ दबाएँ
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0