Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Anushasana Parva
युधिष्ठिर उवाच
एवं तदा प्रयाचन्तं भास्करं मुनिसत्तमःजमदग्निर्महातेजाः किं कार्यं प्रत्यपद्यत ॥१॥
भीष्म उवाच
तथा प्रयाचमानस्य मुनिरग्निसमप्रभःजमदग्निः शमं नैव जगाम कुरुनन्दन ॥२॥
ततः सूर्यो मधुरया वाचा तमिदमब्रवीत्कृताञ्जलिर्विप्ररूपी प्रणम्येदं विशां पते ॥३॥
चलं निमित्तं विप्रर्षे सदा सूर्यस्य गच्छतःकथं चलं वेत्स्यसि त्वं सदा यान्तं दिवाकरम् ॥४॥
जमदग्निरुवाचस्थिरं वापि चलं वापि जाने त्वां ज्ञानचक्षुषाअवश्यं विनयाधानं कार्यमद्य मया तव ॥५॥
अपराह्णे निमेषार्धं तिष्ठसि त्वं दिवाकरतत्र वेत्स्यामि सूर्य त्वां न मेऽत्रास्ति विचारणा ॥६॥
सूर्य उवाच
असंशयं मां विप्रर्षे वेत्स्यसे धन्विनां वरअपकारिणं तु मां विद्धि भगवञ्शरणागतम् ॥७॥
भीष्म उवाच
ततः प्रहस्य भगवाञ्जमदग्निरुवाच तम्न भीः सूर्य त्वया कार्या प्रणिपातगतो ह्यसि ॥८॥
ब्राह्मणेष्वार्जवं यच्च स्थैर्यं च धरणीतलेसौम्यतां चैव सोमस्य गाम्भीर्यं वरुणस्य च ॥९॥
दीप्तिमग्नेः प्रभां मेरोः प्रतापं तपनस्य चएतान्यतिक्रमेद्यो वै स हन्याच्छरणागतम् ॥१०॥
भवेत्स गुरुतल्पी च ब्रह्महा च तथा भवेत्सुरापानं च कुर्यात्स यो हन्याच्छरणागतम् ॥११॥
एतस्य त्वपनीतस्य समाधिं तात चिन्तययथा सुखगमः पन्था भवेत्त्वद्रश्मितापितः ॥१२॥
भीष्म उवाच
एतावदुक्त्वा स तदा तूष्णीमासीद्भृगूद्वहःअथ सूर्यो ददौ तस्मै छत्रोपानहमाशु वै ॥१३॥
सूर्य उवाच
महर्षे शिरसस्त्राणं छत्रं मद्रश्मिवारणम्प्रतिगृह्णीष्व पद्भ्यां च त्राणार्थं चर्मपादुके ॥१४॥
अद्यप्रभृति चैवैतल्लोके संप्रचरिष्यतिपुण्यदानेषु सर्वेषु परमक्षय्यमेव च ॥१५॥
भीष्म उवाच
उपानच्छत्रमेतद्वै सूर्येणेह प्रवर्तितम्पुण्यमेतदभिख्यातं त्रिषु लोकेषु भारत ॥१६॥
तस्मात्प्रयच्छ विप्रेभ्यश्छत्रोपानहमुत्तमम्धर्मस्ते सुमहान्भावी न मेऽत्रास्ति विचारणा ॥१७॥
छत्रं हि भरतश्रेष्ठ यः प्रदद्याद्द्विजातयेशुभ्रं शतशलाकं वै स प्रेत्य सुखमेधते ॥१८॥
स शक्रलोके वसति पूज्यमानो द्विजातिभिःअप्सरोभिश्च सततं देवैश्च भरतर्षभ ॥१९॥
दह्यमानाय विप्राय यः प्रयच्छत्युपानहौस्नातकाय महाबाहो संशिताय द्विजातये ॥२०॥
सोऽपि लोकानवाप्नोति दैवतैरभिपूजितान्गोलोके स मुदा युक्तो वसति प्रेत्य भारत ॥२१॥
एतत्ते भरतश्रेष्ठ मया कार्त्स्न्येन कीर्तितम्छत्रोपानहदानस्य फलं भरतसत्तम ॥२२॥
End of chapter ॥
1
Mahabharata · Anushasana Parva

Adhyaya 98

0
Adhyaya 98Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0