Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Anushasana Parva
युधिष्ठिर उवाच
आरामाणां तडागानां यत्फलं कुरुनन्दनतदहं श्रोतुमिच्छामि त्वत्तोऽद्य भरतर्षभ ॥१॥
भीष्म उवाच
सुप्रदर्शा वनवती चित्रधातुविभूषिताउपेता सर्वबीजैश्च श्रेष्ठा भूमिरिहोच्यते ॥२॥
तस्याः क्षेत्रविशेषं च तडागानां निवेशनम्औदकानि च सर्वाणि प्रवक्ष्याम्यनुपूर्वशः ॥३॥
तडागानां च वक्ष्यामि कृतानां चापि ये गुणाःत्रिषु लोकेषु सर्वत्र पूजितो यस्तडागवान् ॥४॥
अथ वा मित्रसदनं मैत्रं मित्रविवर्धनम्कीर्तिसंजननं श्रेष्ठं तडागानां निवेशनम् ॥५॥
धर्मस्यार्थस्य कामस्य फलमाहुर्मनीषिणःतडागं सुकृतं देशे क्षेत्रमेव महाश्रयम् ॥६॥
चतुर्विधानां भूतानां तडागमुपलक्षयेत्तडागानि च सर्वाणि दिशन्ति श्रियमुत्तमाम् ॥७॥
देवा मनुष्या गन्धर्वाः पितरोरगराक्षसाःस्थावराणि च भूतानि संश्रयन्ति जलाशयम् ॥८॥
तस्मात्तांस्ते प्रवक्ष्यामि तडागे ये गुणाः स्मृताःया च तत्र फलावाप्तिरृषिभिः समुदाहृता ॥९॥
वर्षमात्रे तडागे तु सलिलं यस्य तिष्ठतिअग्निहोत्रफलं तस्य फलमाहुर्मनीषिणः ॥१०॥
शरत्काले तु सलिलं तडागे यस्य तिष्ठतिगोसहस्रस्य स प्रेत्य लभते फलमुत्तमम् ॥११॥
हेमन्तकाले सलिलं तडागे यस्य तिष्ठतिस वै बहुसुवर्णस्य यज्ञस्य लभते फलम् ॥१२॥
यस्य वै शैशिरे काले तडागे सलिलं भवेत्अग्निष्टोमस्य यज्ञस्य फलमाहुर्मनीषिणः ॥१३॥
तडागं सुकृतं यस्य वसन्ते तु महाश्रयम्अतिरात्रस्य यज्ञस्य फलं स समुपाश्नुते ॥१४॥
निदाघकाले पानीयं तडागे यस्य तिष्ठतिवाजपेयसमं तस्य फलं वै मुनयो विदुः ॥१५॥
स कुलं तारयेत्सर्वं यस्य खाते जलाशयेगावः पिबन्ति पानीयं साधवश्च नराः सदा ॥१६॥
तडागे यस्य गावस्तु पिबन्ति तृषिता जलम्मृगपक्षिमनुष्याश्च सोऽश्वमेधफलं लभेत् ॥१७॥
यत्पिबन्ति जलं तत्र स्नायन्ते विश्रमन्ति चतडागदस्य तत्सर्वं प्रेत्यानन्त्याय कल्पते ॥१८॥
दुर्लभं सलिलं तात विशेषेण परत्र वैपानीयस्य प्रदानेन प्रीतिर्भवति शाश्वती ॥१९॥
तिलान्ददत पानीयं दीपान्ददत जाग्रतज्ञातिभिः सह मोदध्वमेतत्प्रेतेषु दुर्लभम् ॥२०॥
सर्वदानैर्गुरुतरं सर्वदानैर्विशिष्यतेपानीयं नरशार्दूल तस्माद्दातव्यमेव हि ॥२१॥
एवमेतत्तडागेषु कीर्तितं फलमुत्तमम्अत ऊर्ध्वं प्रवक्ष्यामि वृक्षाणामपि रोपणे ॥२२॥
स्थावराणां च भूतानां जातयः षट्प्रकीर्तिताःवृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः ॥२३॥
एता जात्यस्तु वृक्षाणां तेषां रोपे गुणास्त्विमेकीर्तिश्च मानुषे लोके प्रेत्य चैव फलं शुभम् ॥२४॥
लभते नाम लोके च पितृभिश्च महीयतेदेवलोकगतस्यापि नाम तस्य न नश्यति ॥२५॥
अतीतानागते चोभे पितृवंशं च भारततारयेद्वृक्षरोपी च तस्माद्वृक्षान्प्ररोपयेत् ॥२६॥
तस्य पुत्रा भवन्त्येते पादपा नात्र संशयःपरलोकगतः स्वर्गं लोकांश्चाप्नोति सोऽव्ययान् ॥२७॥
पुष्पैः सुरगणान्वृक्षाः फलैश्चापि तथा पितॄन्छायया चातिथींस्तात पूजयन्ति महीरुहाः ॥२८॥
किंनरोरगरक्षांसि देवगन्धर्वमानवाःतथा ऋषिगणाश्चैव संश्रयन्ति महीरुहान् ॥२९॥
पुष्पिताः फलवन्तश्च तर्पयन्तीह मानवान्वृक्षदं पुत्रवद्वृक्षास्तारयन्ति परत्र च ॥३०॥
तस्मात्तडागे वृक्षा वै रोप्याः श्रेयोर्थिना सदापुत्रवत्परिपाल्याश्च पुत्रास्ते धर्मतः स्मृताः ॥३१॥
तडागकृद्वृक्षरोपी इष्टयज्ञश्च यो द्विजःएते स्वर्गे महीयन्ते ये चान्ये सत्यवादिनः ॥३२॥
तस्मात्तडागं कुर्वीत आरामांश्चैव रोपयेत्यजेच्च विविधैर्यज्ञैः सत्यं च सततं वदेत् ॥३३॥
End of chapter ॥
1
Mahabharata · Anushasana Parva

Adhyaya 99

0
Adhyaya 99Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0