Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Ashvamedhika Parva
ब्राह्मण उवाच
एकः शास्ता न द्वितीयोऽस्ति शास्ता; यथा नियुक्तोऽस्मि तथा चरामिहृद्येष तिष्ठन्पुरुषः शास्ति शास्ता; तेनैव युक्तः प्रवणादिवोदकम् ॥१॥
एको गुरुर्नास्ति ततो द्वितीयो; यो हृच्छयस्तमहमनुब्रवीमितेनानुशिष्टा गुरुणा सदैव; पराभूता दानवाः सर्व एव ॥२॥
एको बन्धुर्नास्ति ततो द्वितीयो; यो हृच्छयस्तमहमनुब्रवीमितेनानुशिष्टा बान्धवा बन्धुमन्तः; सप्तर्षयः सप्त दिवि प्रभान्ति ॥३॥
एकः श्रोता नास्ति ततो द्वितीयो; यो हृच्छयस्तमहमनुब्रवीमितस्मिन्गुरौ गुरुवासं निरुष्य; शक्रो गतः सर्वलोकामरत्वम् ॥४॥
एको द्वेष्टा नास्ति ततो द्वितीयो; यो हृच्छयस्तमहमनुब्रवीमितेनानुशिष्टा गुरुणा सदैव; लोकद्विष्टाः पन्नगाः सर्व एव ॥५॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्प्रजापतौ पन्नगानां देवर्षीणां च संविदम् ॥६॥
देवर्षयश्च नागाश्च असुराश्च प्रजापतिम्पर्यपृच्छन्नुपासीनाः श्रेयो नः प्रोच्यतामिति ॥७॥
तेषां प्रोवाच भगवाञ्श्रेयः समनुपृच्छताम्ओमित्येकाक्षरं ब्रह्म ते श्रुत्वा प्राद्रवन्दिशः ॥८॥
तेषां प्राद्रवमाणानामुपदेशार्थमात्मनःसर्पाणां दशने भावः प्रवृत्तः पूर्वमेव तु ॥९॥
असुराणां प्रवृत्तस्तु दम्भभावः स्वभावजःदानं देवा व्यवसिता दममेव महर्षयः ॥१०॥
एकं शास्तारमासाद्य शब्देनैकेन संस्कृताःनाना व्यवसिताः सर्वे सर्पदेवर्षिदानवाः ॥११॥
शृणोत्ययं प्रोच्यमानं गृह्णाति च यथातथम्पृच्छतस्तावतो भूयो गुरुरन्योऽनुमन्यते ॥१२॥
तस्य चानुमते कर्म ततः पश्चात्प्रवर्ततेगुरुर्बोद्धा च शत्रुश्च द्वेष्टा च हृदि संश्रितः ॥१३॥
पापेन विचरँल्लोके पापचारी भवत्ययम्शुभेन विचरँल्लोके शुभचारी भवत्युत ॥१४॥
कामचारी तु कामेन य इन्द्रियसुखे रतःव्रतचारी सदैवैष य इन्द्रियजये रतः ॥१५॥
अपेतव्रतकर्मा तु केवलं ब्रह्मणि श्रितःब्रह्मभूतश्चरँल्लोके ब्रह्मचारी भवत्ययम् ॥१६॥
ब्रह्मैव समिधस्तस्य ब्रह्माग्निर्ब्रह्मसंस्तरःआपो ब्रह्म गुरुर्ब्रह्म स ब्रह्मणि समाहितः ॥१७॥
एतदेतादृशं सूक्ष्मं ब्रह्मचर्यं विदुर्बुधाःविदित्वा चान्वपद्यन्त क्षेत्रज्ञेनानुदर्शिनः ॥१८॥
End of chapter ॥
1
Mahabharata · Ashvamedhika Parva

Adhyaya 26

0
Adhyaya 26Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0