Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Ashvamedhika Parva
ब्रह्मोवाचयदादिमध्यपर्यन्तं ग्रहणोपायमेव चनामलक्षणसंयुक्तं सर्वं वक्ष्यामि तत्त्वतः ॥१॥
अहः पूर्वं ततो रात्रिर्मासाः शुक्लादयः स्मृताःश्रविष्ठादीनि ऋक्षाणि ऋतवः शिशिरादयः ॥२॥
भूमिरादिस्तु गन्धानां रसानामाप एव चरूपाणां ज्योतिरादिस्तु स्पर्शादिर्वायुरुच्यतेशब्दस्यादिस्तथाकाशमेष भूतकृतो गुणः ॥३॥
अतः परं प्रवक्ष्यामि भूतानामादिमुत्तमम्आदित्यो ज्योतिषामादिरग्निर्भूतादिरिष्यते ॥४॥
सावित्री सर्वविद्यानां देवतानां प्रजापतिःओंकारः सर्ववेदानां वचसां प्राण एव चयद्यस्मिन्नियतं लोके सर्वं सावित्रमुच्यते ॥५॥
गायत्री छन्दसामादिः पशूनामज उच्यतेगावश्चतुष्पदामादिर्मनुष्याणां द्विजातयः ॥६॥
श्येनः पतत्रिणामादिर्यज्ञानां हुतमुत्तमम्परिसर्पिणां तु सर्वेषां ज्येष्ठः सर्पो द्विजोत्तमाः ॥७॥
कृतमादिर्युगानां च सर्वेषां नात्र संशयःहिरण्यं सर्वरत्नानामोषधीनां यवास्तथा ॥८॥
सर्वेषां भक्ष्यभोज्यानामन्नं परममुच्यतेद्रवाणां चैव सर्वेषां पेयानामाप उत्तमाः ॥९॥
स्थावराणां च भूतानां सर्वेषामविशेषतःब्रह्मक्षेत्रं सदा पुण्यं प्लक्षः प्रथमजः स्मृतः ॥१०॥
अहं प्रजापतीनां च सर्वेषां नात्र संशयःमम विष्णुरचिन्त्यात्मा स्वयंभूरिति स स्मृतः ॥११॥
पर्वतानां महामेरुः सर्वेषामग्रजः स्मृतःदिशां च प्रदिशां चोर्ध्वा दिग्जाता प्रथमं तथा ॥१२॥
तथा त्रिपथगा गङ्गा नदीनामग्रजा स्मृतातथा सरोदपानानां सर्वेषां सागरोऽग्रजः ॥१३॥
देवदानवभूतानां पिशाचोरगरक्षसाम्नरकिंनरयक्षाणां सर्वेषामीश्वरः प्रभुः ॥१४॥
आदिर्विश्वस्य जगतो विष्णुर्ब्रह्ममयो महान्भूतं परतरं तस्मात्त्रैलोक्ये नेह विद्यते ॥१५॥
आश्रमाणां च गार्हस्थ्यं सर्वेषां नात्र संशयःलोकानामादिरव्यक्तं सर्वस्यान्तस्तदेव च ॥१६॥
अहान्यस्तमयान्तानि उदयान्ता च शर्वरीसुखस्यान्तः सदा दुःखं दुःखस्यान्तः सदा सुखम् ॥१७॥
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाःसंयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥१८॥
सर्वं कृतं विनाशान्तं जातस्य मरणं ध्रुवम्अशाश्वतं हि लोकेऽस्मिन्सर्वं स्थावरजङ्गमम् ॥१९॥
इष्टं दत्तं तपोऽधीतं व्रतानि नियमाश्च येसर्वमेतद्विनाशान्तं ज्ञानस्यान्तो न विद्यते ॥२०॥
तस्माज्ज्ञानेन शुद्धेन प्रसन्नात्मा समाहितःनिर्ममो निरहंकारो मुच्यते सर्वपाप्मभिः ॥२१॥
End of chapter ॥
1
Mahabharata · Ashvamedhika Parva

Adhyaya 44

0
Adhyaya 44Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0