Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Ashvamedhika Parva
ब्रह्मोवाचबुद्धिसारं मनस्तम्भमिन्द्रियग्रामबन्धनम्महाभूतारविष्कम्भं निमेषपरिवेष्टनम् ॥१॥
जराशोकसमाविष्टं व्याधिव्यसनसंचरम्देशकालविचारीदं श्रमव्यायामनिस्वनम् ॥२॥
अहोरात्रपरिक्षेपं शीतोष्णपरिमण्डलम्सुखदुःखान्तसंक्लेशं क्षुत्पिपासावकीलनम् ॥३॥
छायातपविलेखं च निमेषोन्मेषविह्वलम्घोरमोहजनाकीर्णं वर्तमानमचेतनम् ॥४॥
मासार्धमासगणितं विषमं लोकसंचरम्तमोनिचयपङ्कं च रजोवेगप्रवर्तकम् ॥५॥
सत्त्वालंकारदीप्तं च गुणसंघातमण्डलम्स्वरविग्रहनाभीकं शोकसंघातवर्तनम् ॥६॥
क्रियाकारणसंयुक्तं रागविस्तारमायतम्लोभेप्सापरिसंख्यातं विविक्तज्ञानसंभवम् ॥७॥
भयमोहपरीवारं भूतसंमोहकारकम्आनन्दप्रीतिधारं च कामक्रोधपरिग्रहम् ॥८॥
महदादिविशेषान्तमसक्तप्रभवाव्ययम्मनोजवनमश्रान्तं कालचक्रं प्रवर्तते ॥९॥
एतद्द्वंद्वसमायुक्तं कालचक्रमचेतनम्विसृजेत्संक्षिपेच्चापि बोधयेत्सामरं जगत् ॥१०॥
कालचक्रप्रवृत्तिं च निवृत्तिं चैव तत्त्वतःयस्तु वेद नरो नित्यं न स भूतेषु मुह्यति ॥११॥
विमुक्तः सर्वसंक्लेशैः सर्वद्वंद्वातिगो मुनिःविमुक्तः सर्वपापेभ्यः प्राप्नोति परमां गतिम् ॥१२॥
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकःचत्वार आश्रमाः प्रोक्ताः सर्वे गार्हस्थ्यमूलकाः ॥१३॥
यः कश्चिदिह लोके च ह्यागमः संप्रकीर्तितःतस्यान्तगमनं श्रेयः कीर्तिरेषा सनातनी ॥१४॥
संस्कारैः संस्कृतः पूर्वं यथावच्चरितव्रतःजातौ गुणविशिष्टायां समावर्तेत वेदवित् ॥१५॥
स्वदारनिरतो दान्तः शिष्टाचारो जितेन्द्रियःपञ्चभिश्च महायज्ञैः श्रद्दधानो यजेत ह ॥१६॥
देवतातिथिशिष्टाशी निरतो वेदकर्मसुइज्याप्रदानयुक्तश्च यथाशक्ति यथाविधि ॥१७॥
न पाणिपादचपलो न नेत्रचपलो मुनिःन च वागङ्गचपल इति शिष्टस्य गोचरः ॥१८॥
नित्ययज्ञोपवीती स्याच्छुक्लवासाः शुचिव्रतःनियतो दमदानाभ्यां सदा शिष्टैश्च संविशेत् ॥१९॥
जितशिश्नोदरो मैत्रः शिष्टाचारसमाहितःवैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् ॥२०॥
अधीत्याध्यापनं कुर्यात्तथा यजनयाजनेदानं प्रतिग्रहं चैव षड्गुणां वृत्तिमाचरेत् ॥२१॥
त्रीणि कर्माणि यानीह ब्राह्मणानां तु जीविकायाजनाध्यापने चोभे शुद्धाच्चापि प्रतिग्रहः ॥२२॥
अवशेषाणि चान्यानि त्रीणि कर्माणि यानि तुदानमध्ययनं यज्ञो धर्मयुक्तानि तानि तु ॥२३॥
तेष्वप्रमादं कुर्वीत त्रिषु कर्मसु धर्मवित्दान्तो मैत्रः क्षमायुक्तः सर्वभूतसमो मुनिः ॥२४॥
सर्वमेतद्यथाशक्ति विप्रो निर्वर्तयञ्शुचिःएवं युक्तो जयेत्स्वर्गं गृहस्थः संशितव्रतः ॥२५॥
End of chapter ॥
1
Mahabharata · Ashvamedhika Parva

Adhyaya 45

0
Adhyaya 45Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0