Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Ashvamedhika Parva
वैशंपायन उवाच
एतस्मिन्नेव काले तु वासुदेवोऽपि वीर्यवान्उपायाद्वृष्णिभिः सार्धं पुरं वारणसाह्वयम् ॥१॥
समयं वाजिमेधस्य विदित्वा पुरुषर्षभःयथोक्तो धर्मपुत्रेण व्रजन्स स्वपुरीं प्रति ॥२॥
रौक्मिणेयेन सहितो युयुधानेन चैव हचारुदेष्णेन साम्बेन गदेन कृतवर्मणा ॥३॥
सारणेन च वीरेण निशठेनोल्मुकेन चबलदेवं पुरस्कृत्य सुभद्रासहितस्तदा ॥४॥
द्रौपदीमुत्तरां चैव पृथां चाप्यवलोककःसमाश्वासयितुं चापि क्षत्रिया निहतेश्वराः ॥५॥
तानागतान्समीक्ष्यैव धृतराष्ट्रो महीपतिःप्रत्यगृह्णाद्यथान्यायं विदुरश्च महामनाः ॥६॥
तत्रैव न्यवसत्कृष्णः स्वर्चितः पुरुषर्षभःविदुरेण महातेजास्तथैव च युयुत्सुना ॥७॥
वसत्सु वृष्णिवीरेषु तत्राथ जनमेजयजज्ञे तव पिता राजन्परिक्षित्परवीरहा ॥८॥
स तु राजा महाराज ब्रह्मास्त्रेणाभिपीडितःशवो बभूव निश्चेष्टो हर्षशोकविवर्धनः ॥९॥
हृष्टानां सिंहनादेन जनानां तत्र निस्वनःआविश्य प्रदिशः सर्वाः पुनरेव व्युपारमत् ॥१०॥
ततः सोऽतित्वरः कृष्णो विवेशान्तःपुरं तदायुयुधानद्वितीयो वै व्यथितेन्द्रियमानसः ॥११॥
ततस्त्वरितमायान्तीं ददर्श स्वां पितृष्वसाम्क्रोशन्तीमभिधावेति वासुदेवं पुनः पुनः ॥१२॥
पृष्ठतो द्रौपदीं चैव सुभद्रां च यशस्विनीम्सविक्रोशं सकरुणं बान्धवानां स्त्रियो नृप ॥१३॥
ततः कृष्णं समासाद्य कुन्ती राजसुता तदाप्रोवाच राजशार्दूल बाष्पगद्गदया गिरा ॥१४॥
वासुदेव महाबाहो सुप्रजा देवकी त्वयात्वं नो गतिः प्रतिष्ठा च त्वदायत्तमिदं कुलम् ॥१५॥
यदुप्रवीर योऽयं ते स्वस्रीयस्यात्मजः प्रभोअश्वत्थाम्ना हतो जातस्तमुज्जीवय केशव ॥१६॥
त्वया ह्येतत्प्रतिज्ञातमैषीके यदुनन्दनअहं संजीवयिष्यामि मृतं जातमिति प्रभो ॥१७॥
सोऽयं जातो मृतस्तात पश्यैनं पुरुषर्षभउत्तरां च सुभद्रां च द्रौपदीं मां च माधव ॥१८॥
धर्मपुत्रं च भीमं च फल्गुनं नकुलं तथासहदेवं च दुर्धर्ष सर्वान्नस्त्रातुमर्हसि ॥१९॥
अस्मिन्प्राणाः समायत्ताः पाण्डवानां ममैव चपाण्डोश्च पिण्डो दाशार्ह तथैव श्वशुरस्य मे ॥२०॥
अभिमन्योश्च भद्रं ते प्रियस्य सदृशस्य चप्रियमुत्पादयाद्य त्वं प्रेतस्यापि जनार्दन ॥२१॥
उत्तरा हि प्रियोक्तं वै कथयत्यरिसूदनअभिमन्योर्वचः कृष्ण प्रियत्वात्ते न संशयः ॥२२॥
अब्रवीत्किल दाशार्ह वैराटीमार्जुनिः पुरामातुलस्य कुलं भद्रे तव पुत्रो गमिष्यति ॥२३॥
गत्वा वृष्ण्यन्धककुलं धनुर्वेदं ग्रहीष्यतिअस्त्राणि च विचित्राणि नीतिशास्त्रं च केवलम् ॥२४॥
इत्येतत्प्रणयात्तात सौभद्रः परवीरहाकथयामास दुर्धर्षस्तथा चैतन्न संशयः ॥२५॥
तास्त्वां वयं प्रणम्येह याचामो मधुसूदनकुलस्यास्य हितार्थं त्वं कुरु कल्याणमुत्तमम् ॥२६॥
एवमुक्त्वा तु वार्ष्णेयं पृथा पृथुललोचनाउच्छ्रित्य बाहू दुःखार्ता ताश्चान्याः प्रापतन्भुवि ॥२७॥
अब्रुवंश्च महाराज सर्वाः सास्राविलेक्षणाःस्वस्रीयो वासुदेवस्य मृतो जात इति प्रभो ॥२८॥
एवमुक्ते ततः कुन्तीं प्रत्यगृह्णाज्जनार्दनःभूमौ निपतितां चैनां सान्त्वयामास भारत ॥२९॥
End of chapter ॥
1
Mahabharata · Ashvamedhika Parva

Adhyaya 65

0
Adhyaya 65Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0