Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Ashvamedhika Parva
वैशंपायन उवाच
दीक्षाकाले तु संप्राप्ते ततस्ते सुमहर्त्विजःविधिवद्दीक्षयामासुरश्वमेधाय पार्थिवम् ॥१॥
कृत्वा स पशुबन्धांश्च दीक्षितः पाण्डुनन्दनःधर्मराजो महातेजाः सहर्त्विग्भिर्व्यरोचत ॥२॥
हयश्च हयमेधार्थं स्वयं स ब्रह्मवादिनाउत्सृष्टः शास्त्रविधिना व्यासेनामिततेजसा ॥३॥
स राजा धर्मजो राजन्दीक्षितो विबभौ तदाहेममाली रुक्मकण्ठः प्रदीप्त इव पावकः ॥४॥
कृष्णाजिनी दण्डपाणिः क्षौमवासाः स धर्मजःविबभौ द्युतिमान्भूयः प्रजापतिरिवाध्वरे ॥५॥
तथैवास्यर्त्विजः सर्वे तुल्यवेषा विशां पतेबभूवुरर्जुनश्चैव प्रदीप्त इव पावकः ॥६॥
श्वेताश्वः कृष्णसारं तं ससाराश्वं धनंजयःविधिवत्पृथिवीपाल धर्मराजस्य शासनात् ॥७॥
विक्षिपन्गाण्डिवं राजन्बद्धगोधाङ्गुलित्रवान्तमश्वं पृथिवीपाल मुदा युक्तः ससार ह ॥८॥
आकुमारं तदा राजन्नागमत्तत्पुरं विभोद्रष्टुकामं कुरुश्रेष्ठं प्रयास्यन्तं धनंजयम् ॥९॥
तेषामन्योन्यसंमर्दादूष्मेव समजायतदिदृक्षूणां हयं तं च तं चैव हयसारिणम् ॥१०॥
ततः शब्दो महाराज दशाशाः प्रतिपूरयन्बभूव प्रेक्षतां नॄणां कुन्तीपुत्रं धनंजयम् ॥११॥
एष गच्छति कौन्तेयस्तुरगश्चैव दीप्तिमान्यमन्वेति महाबाहुः संस्पृशन्धनुरुत्तमम् ॥१२॥
एवं शुश्राव वदतां गिरो जिष्णुरुदारधीःस्वस्ति तेऽस्तु व्रजारिष्टं पुनश्चैहीति भारत ॥१३॥
अथापरे मनुष्येन्द्र पुरुषा वाक्यमब्रुवन्नैनं पश्याम संमर्दे धनुरेतत्प्रदृश्यते ॥१४॥
एतद्धि भीमनिर्ह्रादं विश्रुतं गाण्डिवं धनुःस्वस्ति गच्छत्वरिष्टं वै पन्थानमकुतोभयम्निवृत्तमेनं द्रक्ष्यामः पुनरेवं च तेऽब्रुवन् ॥१५॥
एवमाद्या मनुष्याणां स्त्रीणां च भरतर्षभशुश्राव मधुरा वाचः पुनः पुनरुदीरिताः ॥१६॥
याज्ञवल्क्यस्य शिष्यश्च कुशलो यज्ञकर्मणिप्रायात्पार्थेन सहितः शान्त्यर्थं वेदपारगः ॥१७॥
ब्राह्मणाश्च महीपाल बहवो वेदपारगाःअनुजग्मुर्महात्मानं क्षत्रियाश्च विशोऽपि च ॥१८॥
पाण्डवैः पृथिवीमश्वो निर्जितामस्त्रतेजसाचचार स महाराज यथादेशं स सत्तम ॥१९॥
तत्र युद्धानि वृत्तानि यान्यासन्पाण्डवस्य हतानि वक्ष्यामि ते वीर विचित्राणि महान्ति च ॥२०॥
स हयः पृथिवीं राजन्प्रदक्षिणमरिंदमससारोत्तरतः पूर्वं तन्निबोध महीपते ॥२१॥
अवमृद्नन्स राष्ट्राणि पार्थिवानां हयोत्तमःशनैस्तदा परिययौ श्वेताश्वश्च महारथः ॥२२॥
तत्र संकलना नास्ति राज्ञामयुतशस्तदायेऽयुध्यन्त महाराज क्षत्रिया हतबान्धवाः ॥२३॥
किराता विकृता राजन्बहवोऽसिधनुर्धराःम्लेच्छाश्चान्ये बहुविधाः पूर्वं विनिकृता रणे ॥२४॥
आर्याश्च पृथिवीपालाः प्रहृष्टनरवाहनाःसमीयुः पाण्डुपुत्रेण बहवो युद्धदुर्मदाः ॥२५॥
एवं युद्धानि वृत्तानि तत्र तत्र महीपतेअर्जुनस्य महीपालैर्नानादेशनिवासिभिः ॥२६॥
यानि तूभयतो राजन्प्रतप्तानि महान्ति चतानि युद्धानि वक्ष्यामि कौन्तेयस्य तवानघ ॥२७॥
End of chapter ॥
1
Mahabharata · Ashvamedhika Parva

Adhyaya 72

0
Adhyaya 72Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0