Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Ashvamedhika Parva
वैशंपायन उवाच
त्रिगर्तैरभवद्युद्धं कृतवैरैः किरीटिनःमहारथसमाज्ञातैर्हतानां पुत्रनप्तृभिः ॥१॥
ते समाज्ञाय संप्राप्तं यज्ञियं तुरगोत्तमम्विषयान्ते ततो वीरा दंशिताः पर्यवारयन् ॥२॥
रथिनो बद्धतूणीराः सदश्वैः समलंकृतैःपरिवार्य हयं राजन्ग्रहीतुं संप्रचक्रमुः ॥३॥
ततः किरीटी संचिन्त्य तेषां राज्ञां चिकीर्षितम्वारयामास तान्वीरान्सान्त्वपूर्वमरिंदमः ॥४॥
तमनादृत्य ते सर्वे शरैरभ्यहनंस्तदातमोरजोभ्यां संछन्नांस्तान्किरीटी न्यवारयत् ॥५॥
अब्रवीच्च ततो जिष्णुः प्रहसन्निव भारतनिवर्तध्वमधर्मज्ञाः श्रेयो जीवितमेव वः ॥६॥
स हि वीरः प्रयास्यन्वै धर्मराजेन वारितःहतबान्धवा न ते पार्थ हन्तव्याः पार्थिवा इति ॥७॥
स तदा तद्वचः श्रुत्वा धर्मराजस्य धीमतःतान्निवर्तध्वमित्याह न न्यवर्तन्त चापि ते ॥८॥
ततस्त्रिगर्तराजानं सूर्यवर्माणमाहवेवितत्य शरजालेन प्रजहास धनंजयः ॥९॥
ततस्ते रथघोषेण खुरनेमिस्वनेन चपूरयन्तो दिशः सर्वा धनंजयमुपाद्रवन् ॥१०॥
सूर्यवर्मा ततः पार्थे शराणां नतपर्वणाम्शतान्यमुञ्चद्राजेन्द्र लघ्वस्त्रमभिदर्शयन् ॥११॥
तथैवान्ये महेष्वासा ये तस्यैवानुयायिनःमुमुचुः शरवर्षाणि धनंजयवधैषिणः ॥१२॥
स ताञ्ज्यापुङ्खनिर्मुक्तैर्बहुभिः सुबहूञ्शरान्चिच्छेद पाण्डवो राजंस्ते भूमौ न्यपतंस्तदा ॥१३॥
केतुवर्मा तु तेजस्वी तस्यैवावरजो युवायुयुधे भ्रातुरर्थाय पाण्डवेन महात्मना ॥१४॥
तमापतन्तं संप्रेक्ष्य केतुवर्माणमाहवेअभ्यघ्नन्निशितैर्बाणैर्बीभत्सुः परवीरहा ॥१५॥
केतुवर्मण्यभिहते धृतवर्मा महारथःरथेनाशु समावृत्य शरैर्जिष्णुमवाकिरत् ॥१६॥
तस्य तां शीघ्रतामीक्ष्य तुतोषातीव वीर्यवान्गुडाकेशो महातेजा बालस्य धृतवर्मणः ॥१७॥
न संदधानं ददृशे नाददानं च तं तदाकिरन्तमेव स शरान्ददृशे पाकशासनिः ॥१८॥
स तु तं पूजयामास धृतवर्माणमाहवेमनसा स मुहूर्तं वै रणे समभिहर्षयन् ॥१९॥
तं पन्नगमिव क्रुद्धं कुरुवीरः स्मयन्निवप्रीतिपूर्वं महाराज प्राणैर्न व्यपरोपयत् ॥२०॥
स तथा रक्ष्यमाणो वै पार्थेनामिततेजसाधृतवर्मा शरं तीक्ष्णं मुमोच विजये तदा ॥२१॥
स तेन विजयस्तूर्णमस्यन्विद्धः करे भृशम्मुमोच गाण्डीवं दुःखात्तत्पपाताथ भूतले ॥२२॥
धनुषः पततस्तस्य सव्यसाचिकराद्विभोइन्द्रस्येवायुधस्यासीद्रूपं भरतसत्तम ॥२३॥
तस्मिन्निपतिते दिव्ये महाधनुषि पार्थिवजहास सस्वनं हासं धृतवर्मा महाहवे ॥२४॥
ततो रोषान्वितो जिष्णुः प्रमृज्य रुधिरं करात्धनुरादत्त तद्दिव्यं शरवर्षं ववर्ष च ॥२५॥
ततो हलहलाशब्दो दिवस्पृगभवत्तदानानाविधानां भूतानां तत्कर्मातीव शंसताम् ॥२६॥
ततः संप्रेक्ष्य तं क्रुद्धं कालान्तकयमोपमम्जिष्णुं त्रैगर्तका योधास्त्वरिताः पर्यवारयन् ॥२७॥
अभिसृत्य परीप्सार्थं ततस्ते धृतवर्मणःपरिवव्रुर्गुडाकेशं तत्राक्रुध्यद्धनंजयः ॥२८॥
ततो योधाञ्जघानाशु तेषां स दश चाष्ट चमहेन्द्रवज्रप्रतिमैरायसैर्निशितैः शरैः ॥२९॥
तांस्तु प्रभग्नान्संप्रेक्ष्य त्वरमाणो धनंजयःशरैराशीविषाकारैर्जघान स्वनवद्धसन् ॥३०॥
ते भग्नमनसः सर्वे त्रैगर्तकमहारथाःदिशो विदुद्रुवुः सर्वा धनंजयशरार्दिताः ॥३१॥
त ऊचुः पुरुषव्याघ्रं संशप्तकनिषूदनम्तव स्म किंकराः सर्वे सर्वे च वशगास्तव ॥३२॥
आज्ञापयस्व नः पार्थ प्रह्वान्प्रेष्यानवस्थितान्करिष्यामः प्रियं सर्वं तव कौरवनन्दन ॥३३॥
एतदाज्ञाय वचनं सर्वांस्तानब्रवीत्तदाजीवितं रक्षत नृपाः शासनं गृह्यतामिति ॥३४॥
End of chapter ॥
1
Mahabharata · Ashvamedhika Parva

Adhyaya 73

0
Adhyaya 73Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0