Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Ashvamedhika Parva
संवर्त उवाच
गिरेर्हिमवतः पृष्ठे मुञ्जवान्नाम पर्वतःतप्यते यत्र भगवांस्तपो नित्यमुमापतिः ॥१॥
वनस्पतीनां मूलेषु टङ्केषु शिखरेषु चगुहासु शैलराजस्य यथाकामं यथासुखम् ॥२॥
उमासहायो भगवान्यत्र नित्यं महेश्वरःआस्ते शूली महातेजा नानाभूतगणावृतः ॥३॥
तत्र रुद्राश्च साध्याश्च विश्वेऽथ वसवस्तथायमश्च वरुणश्चैव कुबेरश्च सहानुगः ॥४॥
भूतानि च पिशाचाश्च नासत्यावश्विनावपिगन्धर्वाप्सरसश्चैव यक्षा देवर्षयस्तथा ॥५॥
आदित्या मरुतश्चैव यातुधानाश्च सर्वशःउपासन्ते महात्मानं बहुरूपमुमापतिम् ॥६॥
रमते भगवांस्तत्र कुबेरानुचरैः सहविकृतैर्विकृताकारैः क्रीडद्भिः पृथिवीपतेश्रिया ज्वलन्दृश्यते वै बालादित्यसमद्युतिः ॥७॥
न रूपं दृश्यते तस्य संस्थानं वा कथंचननिर्देष्टुं प्राणिभिः कैश्चित्प्राकृतैर्मांसलोचनैः ॥८॥
नोष्णं न शिशिरं तत्र न वायुर्न च भास्करःन जरा क्षुत्पिपासे वा न मृत्युर्न भयं नृप ॥९॥
तस्य शैलस्य पार्श्वेषु सर्वेषु जयतां वरधातवो जातरूपस्य रश्मयः सवितुर्यथा ॥१०॥
रक्ष्यन्ते ते कुबेरस्य सहायैरुद्यतायुधैःचिकीर्षद्भिः प्रियं राजन्कुबेरस्य महात्मनः ॥११॥
तस्मै भगवते कृत्वा नमः शर्वाय वेधसेरुद्राय शितिकण्ठाय सुरूपाय सुवर्चसे ॥१२॥
कपर्दिने करालाय हर्यक्ष्णे वरदाय चत्र्यक्ष्णे पूष्णो दन्तभिदे वामनाय शिवाय च ॥१३॥
याम्यायाव्यक्तकेशाय सद्वृत्ते शंकराय चक्षेम्याय हरिनेत्राय स्थाणवे पुरुषाय च ॥१४॥
हरिकेशाय मुण्डाय कृशायोत्तारणाय चभास्कराय सुतीर्थाय देवदेवाय रंहसे ॥१५॥
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषेगिरिशाय प्रशान्ताय यतये चीरवाससे ॥१६॥
बिल्वदण्डाय सिद्धाय सर्वदण्डधराय चमृगव्याधाय महते धन्विनेऽथ भवाय च ॥१७॥
वराय सौम्यवक्त्राय पशुहस्ताय वर्षिणेहिरण्यबाहवे राजन्नुग्राय पतये दिशाम् ॥१८॥
पशूनां पतये चैव भूतानां पतये तथावृषाय मातृभक्ताय सेनान्ये मध्यमाय च ॥१९॥
स्रुवहस्ताय पतये धन्विने भार्गवाय चअजाय कृष्णनेत्राय विरूपाक्षाय चैव ह ॥२०॥
तीक्ष्णदंष्ट्राय तीक्ष्णाय वैश्वानरमुखाय चमहाद्युतयेऽनङ्गाय सर्वाङ्गाय प्रजावते ॥२१॥
तथा शुक्राधिपतये पृथवे कृत्तिवाससेकपालमालिने नित्यं सुवर्णमुकुटाय च ॥२२॥
महादेवाय कृष्णाय त्र्यम्बकायानघाय चक्रोधनाय नृशंसाय मृदवे बाहुशालिने ॥२३॥
दण्डिने तप्ततपसे तथैव क्रूरकर्मणेसहस्रशिरसे चैव सहस्रचरणाय चनमः स्वधास्वरूपाय बहुरूपाय दंष्ट्रिणे ॥२४॥
पिनाकिनं महादेवं महायोगिनमव्ययम्त्रिशूलपाणिं वरदं त्र्यम्बकं भुवनेश्वरम् ॥२५॥
त्रिपुरघ्नं त्रिनयनं त्रिलोकेशं महौजसम्प्रभवं सर्वभूतानां धारणं धरणीधरम् ॥२६॥
ईशानं शंकरं सर्वं शिवं विश्वेश्वरं भवम्उमापतिं पशुपतिं विश्वरूपं महेश्वरम् ॥२७॥
विरूपाक्षं दशभुजं तिष्यगोवृषभध्वजम्उग्रं स्थाणुं शिवं घोरं शर्वं गौरीशमीश्वरम् ॥२८॥
शितिकण्ठमजं शुक्रं पृथुं पृथुहरं हरम्विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम् ॥२९॥
प्रणम्य शिरसा देवमनङ्गाङ्गहरं हरम्शरण्यं शरणं याहि महादेवं चतुर्मुखम् ॥३०॥
एवं कृत्वा नमस्तस्मै महादेवाय रंहसेमहात्मने क्षितिपते तत्सुवर्णमवाप्स्यसिसुवर्णमाहरिष्यन्तस्तत्र गच्छन्तु ते नराः ॥३१॥
व्यास उवाच
इत्युक्तः स वचस्तस्य चक्रे कारंधमात्मजःततोऽतिमानुषं सर्वं चक्रे यज्ञस्य संविधिम्सौवर्णानि च भाण्डानि संचक्रुस्तत्र शिल्पिनः ॥३२॥
बृहस्पतिस्तु तां श्रुत्वा मरुत्तस्य महीपतेःसमृद्धिमति देवेभ्यः संतापमकरोद्भृशम् ॥३३॥
स तप्यमानो वैवर्ण्यं कृशत्वं चागमत्परम्भविष्यति हि मे शत्रुः संवर्तो वसुमानिति ॥३४॥
तं श्रुत्वा भृशसंतप्तं देवराजो बृहस्पतिम्अभिगम्यामरवृतः प्रोवाचेदं वचस्तदा ॥३५॥
End of chapter ॥
1
Mahabharata · Ashvamedhika Parva

Adhyaya 8

0
Adhyaya 8Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0