महाभारत, पुस्तक रूप में
॥ ॐ ॥यदि आपको इस मंच का अनुभव अच्छा लगा हो…॥ दान ॥तो कृपया दान करेंइससे ये ग्रंथ सबके लिए खुले और निःशुल्क रहते हैं।दान करेंमहाभारत · आश्वमेधिक पर्व
॥ श्रीः ॥
अध्याय 80
महाभारत · आश्वमेधिक पर्व
वैशंपायन उवाच
तथा विलप्योपरता भर्तुः पादौ प्रगृह्य साउपविष्टाभवद्देवी सोच्छ्वासं पुत्रमीक्षती ॥१॥
ततः संज्ञां पुनर्लब्ध्वा स राजा बभ्रुवाहनःमातरं तामथालोक्य रणभूमावथाब्रवीत् ॥२॥
इतो दुःखतरं किं नु यन्मे माता सुखैधिताभूमौ निपतितं वीरमनुशेते मृतं पतिम् ॥३॥
निहन्तारं रणेऽरीणां सर्वशस्त्रभृतां वरम्मया विनिहतं संख्ये प्रेक्षते दुर्मरं बत ॥४॥
अहोऽस्या हृदयं देव्या दृढं यन्न विदीर्यतेव्यूढोरस्कं महाबाहुं प्रेक्षन्त्या निहतं पतिम् ॥५॥
दुर्मरं पुरुषेणेह मन्ये ह्यध्वन्यनागतेयत्र नाहं न मे माता विप्रयुज्येत जीवितात् ॥६॥
अहो धिक्कुरुवीरस्य ह्युरःस्थं काञ्चनं भुविव्यपविद्धं हतस्येह मया पुत्रेण पश्यत ॥७॥
भो भो पश्यत मे वीरं पितरं ब्राह्मणा भुविशयानं वीरशयने मया पुत्रेण पातितम् ॥८॥
ब्राह्मणाः कुरुमुख्यस्य प्रयुक्ता हयसारिणःकुर्वन्तु शान्तिकां त्वद्य रणे योऽयं मया हतः ॥९॥
व्यादिशन्तु च किं विप्राः प्रायश्चित्तमिहाद्य मेसुनृशंसस्य पापस्य पितृहन्तू रणाजिरे ॥१०॥
दुश्चरा द्वादश समा हत्वा पितरमद्य वैममेह सुनृशंसस्य संवीतस्यास्य चर्मणा ॥११॥
शिरःकपाले चास्यैव भुञ्जतः पितुरद्य मेप्रायश्चित्तं हि नास्त्यन्यद्धत्वाद्य पितरं मम ॥१२॥
पश्य नागोत्तमसुते भर्तारं निहतं मयाकृतं प्रियं मया तेऽद्य निहत्य समरेऽर्जुनम् ॥१३॥
सोऽहमप्यद्य यास्यामि गतिं पितृनिषेविताम्न शक्नोम्यात्मनात्मानमहं धारयितुं शुभे ॥१४॥
सा त्वं मयि मृते मातस्तथा गाण्डीवधन्वनिभव प्रीतिमती देवि सत्येनात्मानमालभे ॥१५॥
इत्युक्त्वा स तदा राजा दुःखशोकसमाहतःउपस्पृश्य महाराज दुःखाद्वचनमब्रवीत् ॥१६॥
शृण्वन्तु सर्वभूतानि स्थावराणि चराणि चत्वं च मातर्यथा सत्यं ब्रवीमि भुजगोत्तमे ॥१७॥
यदि नोत्तिष्ठति जयः पिता मे भरतर्षभःअस्मिन्नेव रणोद्देशे शोषयिष्ये कलेवरम् ॥१८॥
न हि मे पितरं हत्वा निष्कृतिर्विद्यते क्वचित्नरकं प्रतिपत्स्यामि ध्रुवं गुरुवधार्दितः ॥१९॥
वीरं हि क्षत्रियं हत्वा गोशतेन प्रमुच्यतेपितरं तु निहत्यैवं दुस्तरा निष्कृतिर्मया ॥२०॥
एष ह्येको महातेजाः पाण्डुपुत्रो धनंजयःपिता च मम धर्मात्मा तस्य मे निष्कृतिः कुतः ॥२१॥
इत्येवमुक्त्वा नृपते धनंजयसुतो नृपःउपस्पृश्याभवत्तूष्णीं प्रायोपेतो महामतिः ॥२२॥
अध्याय समाप्त ॥
१

0
पृष्ठ पलटने के लिए कोना खींचें, स्वाइप करें या तीर कुंजियाँ दबाएँ
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0