Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Ashvamedhika Parva
वैशंपायन उवाच
शकुनेस्तु सुतो वीरो गान्धाराणां महारथःप्रत्युद्ययौ गुडाकेशं सैन्येन महता वृतःहस्त्यश्वरथपूर्णेन पताकाध्वजमालिना ॥१॥
अमृष्यमाणास्ते योधा नृपतेः शकुनेर्वधम्अभ्ययुः सहिताः पार्थं प्रगृहीतशरासनाः ॥२॥
तानुवाच स धर्मात्मा बीभत्सुरपराजितःयुधिष्ठिरस्य वचनं न च ते जगृहुर्हितम् ॥३॥
वार्यमाणास्तु पार्थेन सान्त्वपूर्वममर्षिताःपरिवार्य हयं जग्मुस्ततश्चुक्रोध पाण्डवः ॥४॥
ततः शिरांसि दीप्ताग्रैस्तेषां चिच्छेद पाण्डवःक्षुरैर्गाण्डीवनिर्मुक्तैर्नातियत्नादिवार्जुनः ॥५॥
ते वध्यमानाः पार्थेन हयमुत्सृज्य संभ्रमात्न्यवर्तन्त महाराज शरवर्षार्दिता भृशम् ॥६॥
वितुद्यमानस्तैश्चापि गान्धारैः पाण्डवर्षभःआदिश्यादिश्य तेजस्वी शिरांस्येषां न्यपातयत् ॥७॥
वध्यमानेषु तेष्वाजौ गान्धारेषु समन्ततःस राजा शकुनेः पुत्रः पाण्डवं प्रत्यवारयत् ॥८॥
तं युध्यमानं राजानं क्षत्रधर्मे व्यवस्थितम्पार्थोऽब्रवीन्न मे वध्या राजानो राजशासनात्अलं युद्धेन ते वीर न तेऽस्त्यद्य पराजयः ॥९॥
इत्युक्तस्तदनादृत्य वाक्यमज्ञानमोहितःस शक्रसमकर्माणमवाकिरत सायकैः ॥१०॥
तस्य पार्थः शिरस्त्राणमर्धचन्द्रेण पत्रिणाअपाहरदसंभ्रान्तो जयद्रथशिरो यथा ॥११॥
तद्दृष्ट्वा विस्मयं जग्मुर्गान्धाराः सर्व एव तेइच्छता तेन न हतो राजेत्यपि च ते विदुः ॥१२॥
गान्धारराजपुत्रस्तु पलायनकृतक्षणःबभौ तैरेव सहितस्त्रस्तैः क्षुद्रमृगैरिव ॥१३॥
तेषां तु तरसा पार्थस्तत्रैव परिधावताम्विजहारोत्तमाङ्गानि भल्लैः संनतपर्वभिः ॥१४॥
उच्छ्रितांस्तु भुजान्केचिन्नाबुध्यन्त शरैर्हृतान्शरैर्गाण्डीवनिर्मुक्तैः पृथुभिः पार्थचोदितैः ॥१५॥
संभ्रान्तनरनागाश्वमथ तद्विद्रुतं बलम्हतविध्वस्तभूयिष्ठमावर्तत मुहुर्मुहुः ॥१६॥
न ह्यदृश्यन्त वीरस्य केचिदग्रेऽग्र्यकर्मणःरिपवः पात्यमाना वै ये सहेयुर्महाशरान् ॥१७॥
ततो गान्धारराजस्य मन्त्रिवृद्धपुरःसराजननी निर्ययौ भीता पुरस्कृत्यार्घ्यमुत्तमम् ॥१८॥
सा न्यवारयदव्यग्रा तं पुत्रं युद्धदुर्मदम्प्रसादयामास च तं जिष्णुमक्लिष्टकारिणम् ॥१९॥
तां पूजयित्वा कौन्तेयः प्रसादमकरोत्तदाशकुनेश्चापि तनयं सान्त्वयन्निदमब्रवीत् ॥२०॥
न मे प्रियं महाबाहो यत्ते बुद्धिरियं कृताप्रतियोद्धुममित्रघ्न भ्रातैव त्वं ममानघ ॥२१॥
गान्धारीं मातरं स्मृत्वा धृतराष्ट्रकृतेन चतेन जीवसि राजंस्त्वं निहतास्त्वनुगास्तव ॥२२॥
मैवं भूः शाम्यतां वैरं मा ते भूद्बुद्धिरीदृशीआगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः ॥२३॥
End of chapter ॥
1
Mahabharata · Ashvamedhika Parva

Adhyaya 85

0
Adhyaya 85Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0