Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Ashramavasika Parva
वैशंपायन उवाच
एवं संपूजितो राजा पाण्डवैरम्बिकासुतःविजहार यथापूर्वमृषिभिः पर्युपासितः ॥१॥
ब्रह्मदेयाग्रहारांश्च प्रददौ स कुरूद्वहःतच्च कुन्तीसुतो राजा सर्वमेवान्वमोदत ॥२॥
आनृशंस्यपरो राजा प्रीयमाणो युधिष्ठिरःउवाच स तदा भ्रातॄनमात्यांश्च महीपतिः ॥३॥
मया चैव भवद्भिश्च मान्य एष नराधिपःनिदेशे धृतराष्ट्रस्य यः स्थास्यति स मे सुहृत्विपरीतश्च मे शत्रुर्निरस्यश्च भवेन्नरः ॥४॥
परिदृष्टेषु चाहःसु पुत्राणां श्राद्धकर्मणिददातु राजा सर्वेषां यावदस्य चिकीर्षितम् ॥५॥
ततः स राजा कौरव्यो धृतराष्ट्रो महामनाःब्राह्मणेभ्यो महार्हेभ्यो ददौ वित्तान्यनेकशः ॥६॥
धर्मराजश्च भीमश्च सव्यसाची यमावपितत्सर्वमन्ववर्तन्त धृतराष्ट्रव्यपेक्षया ॥७॥
कथं नु राजा वृद्धः सन्पुत्रशोकसमाहतःशोकमस्मत्कृतं प्राप्य न म्रियेतेति चिन्त्यते ॥८॥
यावद्धि कुरुमुख्यस्य जीवत्पुत्रस्य वै सुखम्बभूव तदवाप्नोतु भोगांश्चेति व्यवस्थिताः ॥९॥
ततस्ते सहिताः सर्वे भ्रातरः पञ्च पाण्डवाःतथाशीलाः समातस्थुर्धृतराष्ट्रस्य शासने ॥१०॥
धृतराष्ट्रश्च तान्वीरान्विनीतान्विनये स्थितान्शिष्यवृत्तौ स्थितान्नित्यं गुरुवत्पर्यपश्यत ॥११॥
गान्धारी चैव पुत्राणां विविधैः श्राद्धकर्मभिःआनृण्यमगमत्कामान्विप्रेभ्यः प्रतिपाद्य वै ॥१२॥
एवं धर्मभृतां श्रेष्ठो धर्मराजो युधिष्ठिरःभ्रातृभिः सहितो धीमान्पूजयामास तं नृपम् ॥१३॥
End of chapter ॥
1
Mahabharata · Ashramavasika Parva

Adhyaya 2

0
Adhyaya 2Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0