Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Mausala Parva
वैशंपायन उवाच
प्रविशन्नर्जुनो राजन्नाश्रमं सत्यवादिनःददर्शासीनमेकान्ते मुनिं सत्यवतीसुतम् ॥१॥
स तमासाद्य धर्मज्ञमुपतस्थे महाव्रतम्अर्जुनोऽस्मीति नामास्मै निवेद्याभ्यवदत्ततः ॥२॥
स्वागतं तेऽस्त्विति प्राह मुनिः सत्यवतीसुतःआस्यतामिति चोवाच प्रसन्नात्मा महामुनिः ॥३॥
तमप्रतीतमनसं निःश्वसन्तं पुनः पुनःनिर्विण्णमनसं दृष्ट्वा पार्थं व्यासोऽब्रवीदिदम् ॥४॥
अवीरजोऽभिघातस्ते ब्राह्मणो वा हतस्त्वयायुद्धे पराजितो वासि गतश्रीरिव लक्ष्यसे ॥५॥
न त्वा प्रत्यभिजानामि किमिदं भरतर्षभश्रोतव्यं चेन्मया पार्थ क्षिप्रमाख्यातुमर्हसि ॥६॥
अर्जुन उवाच
यः स मेघवपुः श्रीमान्बृहत्पङ्कजलोचनःस कृष्णः सह रामेण त्यक्त्वा देहं दिवं गतः ॥७॥
मौसले वृष्णिवीराणां विनाशो ब्रह्मशापजःबभूव वीरान्तकरः प्रभासे रोमहर्षणः ॥८॥
ये ते शूरा महात्मानः सिंहदर्पा महाबलाःभोजवृष्ण्यन्धका ब्रह्मन्नन्योन्यं तैर्हतं युधि ॥९॥
गदापरिघशक्तीनां सहाः परिघबाहवःत एरकाभिर्निहताः पश्य कालस्य पर्ययम् ॥१०॥
हतं पञ्चशतं तेषां सहस्रं बाहुशालिनाम्निधनं समनुप्राप्तं समासाद्येतरेतरम् ॥११॥
पुनः पुनर्न मृष्यामि विनाशममितौजसाम्चिन्तयानो यदूनां च कृष्णस्य च यशस्विनः ॥१२॥
शोषणं सागरस्येव पर्वतस्येव चालनम्नभसः पतनं चैव शैत्यमग्नेस्तथैव च ॥१३॥
अश्रद्धेयमहं मन्ये विनाशं शार्ङ्गधन्वनःन चेह स्थातुमिच्छामि लोके कृष्णविनाकृतः ॥१४॥
इतः कष्टतरं चान्यच्छृणु तद्वै तपोधनमनो मे दीर्यते येन चिन्तयानस्य वै मुहुः ॥१५॥
पश्यतो वृष्णिदाराश्च मम ब्रह्मन्सहस्रशःआभीरैरनुसृत्याजौ हृताः पञ्चनदालयैः ॥१६॥
धनुरादाय तत्राहं नाशकं तस्य पूरणेयथा पुरा च मे वीर्यं भुजयोर्न तथाभवत् ॥१७॥
अस्त्राणि मे प्रनष्टानि विविधानि महामुनेशराश्च क्षयमापन्नाः क्षणेनैव समन्ततः ॥१८॥
पुरुषश्चाप्रमेयात्मा शङ्खचक्रगदाधरःचतुर्भुजः पीतवासा श्यामः पद्मायतेक्षणः ॥१९॥
यः स याति पुरस्तान्मे रथस्य सुमहाद्युतिःप्रदहन्रिपुसैन्यानि न पश्याम्यहमद्य तम् ॥२०॥
येन पूर्वं प्रदग्धानि शत्रुसैन्यानि तेजसाशरैर्गाण्डीवनिर्मुक्तैरहं पश्चाद्व्यनाशयम् ॥२१॥
तमपश्यन्विषीदामि घूर्णामीव च सत्तमपरिनिर्विण्णचेताश्च शान्तिं नोपलभेऽपि च ॥२२॥
विना जनार्दनं वीरं नाहं जीवितुमुत्सहेश्रुत्वैव हि गतं विष्णुं ममापि मुमुहुर्दिशः ॥२३॥
प्रनष्टज्ञातिवीर्यस्य शून्यस्य परिधावतःउपदेष्टुं मम श्रेयो भवानर्हति सत्तम ॥२४॥
व्यास उवाच
ब्रह्मशापविनिर्दग्धा वृष्ण्यन्धकमहारथाःविनष्टाः कुरुशार्दूल न ताञ्शोचितुमर्हसि ॥२५॥
भवितव्यं तथा तद्धि दिष्टमेतन्महात्मनाम्उपेक्षितं च कृष्णेन शक्तेनापि व्यपोहितुम् ॥२६॥
त्रैलोक्यमपि कृष्णो हि कृत्स्नं स्थावरजङ्गमम्प्रसहेदन्यथा कर्तुं किमु शापं मनीषिणाम् ॥२७॥
रथस्य पुरतो याति यः स चक्रगदाधरःतव स्नेहात्पुराणर्षिर्वासुदेवश्चतुर्भुजः ॥२८॥
कृत्वा भारावतरणं पृथिव्याः पृथुलोचनःमोक्षयित्वा जगत्सर्वं गतः स्वस्थानमुत्तमम् ॥२९॥
त्वया त्विह महत्कर्म देवानां पुरुषर्षभकृतं भीमसहायेन यमाभ्यां च महाभुज ॥३०॥
कृतकृत्यांश्च वो मन्ये संसिद्धान्कुरुपुंगवगमनं प्राप्तकालं च तद्धि श्रेयो मतं मम ॥३१॥
बलं बुद्धिश्च तेजश्च प्रतिपत्तिश्च भारतभवन्ति भवकालेषु विपद्यन्ते विपर्यये ॥३२॥
कालमूलमिदं सर्वं जगद्बीजं धनंजयकाल एव समादत्ते पुनरेव यदृच्छया ॥३३॥
स एव बलवान्भूत्वा पुनर्भवति दुर्बलःस एवेशश्च भूत्वेह परैराज्ञाप्यते पुनः ॥३४॥
कृतकृत्यानि चास्त्राणि गतान्यद्य यथागतम्पुनरेष्यन्ति ते हस्तं यदा कालो भविष्यति ॥३५॥
कालो गन्तुं गतिं मुख्यां भवतामपि भारतएतच्छ्रेयो हि वो मन्ये परमं भरतर्षभ ॥३६॥
एतद्वचनमाज्ञाय व्यासस्यामिततेजसःअनुज्ञातो ययौ पार्थो नगरं नागसाह्वयम् ॥३७॥
प्रविश्य च पुरीं वीरः समासाद्य युधिष्ठिरम्आचष्ट तद्यथावृत्तं वृष्ण्यन्धकजनं प्रति ॥३८॥
End of chapter ॥
1
Mahabharata · Mausala Parva

Adhyaya 9

0
Adhyaya 9Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0