महाभारत, पुस्तक रूप में
॥ ॐ ॥यदि आपको इस मंच का अनुभव अच्छा लगा हो…॥ दान ॥तो कृपया दान करेंइससे ये ग्रंथ सबके लिए खुले और निःशुल्क रहते हैं।दान करेंमहाभारत · स्वर्गारोहण पर्व
जनमेजय उवाच
स्वर्गं त्रिविष्टपं प्राप्य मम पूर्वपितामहाःपाण्डवा धार्तराष्ट्राश्च कानि स्थानानि भेजिरे ॥१॥
एतदिच्छाम्यहं श्रोतुं सर्वविच्चासि मे मतःमहर्षिणाभ्यनुज्ञातो व्यासेनाद्भुतकर्मणा ॥२॥
वैशंपायन उवाच
स्वर्गं त्रिविष्टपं प्राप्य तव पूर्वपितामहाःयुधिष्ठिरप्रभृतयो यदकुर्वत तच्छृणु ॥३॥
स्वर्गं त्रिविष्टपं प्राप्य धर्मराजो युधिष्ठिरःदुर्योधनं श्रिया जुष्टं ददर्शासीनमासने ॥४॥
भ्राजमानमिवादित्यं वीरलक्ष्म्याभिसंवृतम्देवैर्भ्राजिष्णुभिः साध्यैः सहितं पुण्यकर्मभिः ॥५॥
ततो युधिष्ठिरो दृष्ट्वा दुर्योधनममर्षितःसहसा संनिवृत्तोऽभूच्छ्रियं दृष्ट्वा सुयोधने ॥६॥
ब्रुवन्नुच्चैर्वचस्तान्वै नाहं दुर्योधनेन वैसहितः कामये लोकाँल्लुब्धेनादीर्घदर्शिना ॥७॥
यत्कृते पृथिवी सर्वा सुहृदो बान्धवास्तथाहतास्माभिः प्रसह्याजौ क्लिष्टैः पूर्वं महावने ॥८॥
द्रौपदी च सभामध्ये पाञ्चाली धर्मचारिणीपरिक्लिष्टानवद्याङ्गी पत्नी नो गुरुसंनिधौ ॥९॥
स्वस्ति देवा न मे कामः सुयोधनमुदीक्षितुम्तत्राहं गन्तुमिच्छामि यत्र ते भ्रातरो मम ॥१०॥
मैवमित्यब्रवीत्तं तु नारदः प्रहसन्निवस्वर्गे निवासो राजेन्द्र विरुद्धं चापि नश्यति ॥११॥
युधिष्ठिर महाबाहो मैवं वोचः कथंचनदुर्योधनं प्रति नृपं शृणु चेदं वचो मम ॥१२॥
एष दुर्योधनो राजा पूज्यते त्रिदशैः सहसद्भिश्च राजप्रवरैर्य इमे स्वर्गवासिनः ॥१३॥
वीरलोकगतिं प्राप्तो युद्धे हुत्वात्मनस्तनुम्यूयं सर्वे सुरसमा येन युद्धे समासिताः ॥१४॥
स एष क्षत्रधर्मेण स्थानमेतदवाप्तवान्भये महति योऽभीतो बभूव पृथिवीपतिः ॥१५॥
न तन्मनसि कर्तव्यं पुत्र यद्द्यूतकारितम्द्रौपद्याश्च परिक्लेशं न चिन्तयितुमर्हसि ॥१६॥
ये चान्येऽपि परिक्लेशा युष्माकं द्यूतकारिताःसंग्रामेष्वथ वान्यत्र न तान्संस्मर्तुमर्हसि ॥१७॥
समागच्छ यथान्यायं राज्ञा दुर्योधनेन वैस्वर्गोऽयं नेह वैराणि भवन्ति मनुजाधिप ॥१८॥
नारदेनैवमुक्तस्तु कुरुराजो युधिष्ठिरःभ्रातॄन्पप्रच्छ मेधावी वाक्यमेतदुवाच ह ॥१९॥
यदि दुर्योधनस्यैते वीरलोकाः सनातनाःअधर्मज्ञस्य पापस्य पृथिवीसुहृदद्रुहः ॥२०॥
यत्कृते पृथिवी नष्टा सहया सरथद्विपावयं च मन्युना दग्धा वैरं प्रतिचिकीर्षवः ॥२१॥
ये ते वीरा महात्मानो भ्रातरो मे महाव्रताःसत्यप्रतिज्ञा लोकस्य शूरा वै सत्यवादिनः ॥२२॥
तेषामिदानीं के लोका द्रष्टुमिच्छामि तानहम्कर्णं चैव महात्मानं कौन्तेयं सत्यसंगरम् ॥२३॥
धृष्टद्युम्नं सात्यकिं च धृष्टद्युम्नस्य चात्मजान्ये च शस्त्रैर्वधं प्राप्ताः क्षत्रधर्मेण पार्थिवाः ॥२४॥
क्व नु ते पार्थिवा ब्रह्मन्नैतान्पश्यामि नारदविराटद्रुपदौ चैव धृष्टकेतुमुखांश्च तान् ॥२५॥
शिखण्डिनं च पाञ्चाल्यं द्रौपदेयांश्च सर्वशःअभिमन्युं च दुर्धर्षं द्रष्टुमिच्छामि नारद ॥२६॥
अध्याय समाप्त ॥
१
महाभारत · स्वर्गारोहण पर्व

अध्याय 1

0
पृष्ठ पलटने के लिए कोना खींचें, स्वाइप करें या तीर कुंजियाँ दबाएँ
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0