Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Svargarohana Parva
युधिष्ठिर उवाच
नेह पश्यामि विबुधा राधेयममितौजसम्भ्रातरौ च महात्मानौ युधामन्यूत्तमौजसौ ॥१॥
जुहुवुर्ये शरीराणि रणवह्नौ महारथाःराजानो राजपुत्राश्च ये मदर्थे हता रणे ॥२॥
क्व ते महारथाः सर्वे शार्दूलसमविक्रमाःतैरप्ययं जितो लोकः कच्चित्पुरुषसत्तमैः ॥३॥
यदि लोकानिमान्प्राप्तास्ते च सर्वे महारथाःस्थितं वित्त हि मां देवाः सहितं तैर्महात्मभिः ॥४॥
कच्चिन्न तैरवाप्तोऽयं नृपैर्लोकोऽक्षयः शुभःन तैरहं विना वत्स्ये ज्ञातिभिर्भ्रातृभिस्तथा ॥५॥
मातुर्हि वचनं श्रुत्वा तदा सलिलकर्मणिकर्णस्य क्रियतां तोयमिति तप्यामि तेन वै ॥६॥
इदं च परितप्यामि पुनः पुनरहं सुराःयन्मातुः सदृशौ पादौ तस्याहममितौजसः ॥७॥
दृष्ट्वैव तं नानुगतः कर्णं परबलार्दनम्न ह्यस्मान्कर्णसहिताञ्जयेच्छक्रोऽपि संयुगे ॥८॥
तमहं यत्रतत्रस्थं द्रष्टुमिच्छामि सूर्यजम्अविज्ञातो मया योऽसौ घातितः सव्यसाचिना ॥९॥
भीमं च भीमविक्रान्तं प्राणेभ्योऽपि प्रियं ममअर्जुनं चेन्द्रसंकाशं यमौ तौ च यमोपमौ ॥१०॥
द्रष्टुमिच्छामि तां चाहं पाञ्चालीं धर्मचारिणीम्न चेह स्थातुमिच्छामि सत्यमेतद्ब्रवीमि वः ॥११॥
किं मे भ्रातृविहीनस्य स्वर्गेण सुरसत्तमाःयत्र ते स मम स्वर्गो नायं स्वर्गो मतो मम ॥१२॥
देवा ऊचुःयदि वै तत्र ते श्रद्धा गम्यतां पुत्र माचिरम्प्रिये हि तव वर्तामो देवराजस्य शासनात् ॥१३॥
वैशंपायन उवाच
इत्युक्त्वा तं ततो देवा देवदूतमुपादिशन्युधिष्ठिरस्य सुहृदो दर्शयेति परंतप ॥१४॥
ततः कुन्तीसुतो राजा देवदूतश्च जग्मतुःसहितौ राजशार्दूल यत्र ते पुरुषर्षभाः ॥१५॥
अग्रतो देवदूतस्तु ययौ राजा च पृष्ठतःपन्थानमशुभं दुर्गं सेवितं पापकर्मभिः ॥१६॥
तमसा संवृतं घोरं केशशैवलशाद्वलम्युक्तं पापकृतां गन्धैर्मांसशोणितकर्दमम् ॥१७॥
दंशोत्थानं सझिल्लीकं मक्षिकामशकावृतम्इतश्चेतश्च कुणपैः समन्तात्परिवारितम् ॥१८॥
अस्थिकेशसमाकीर्णं कृमिकीटसमाकुलम्ज्वलनेन प्रदीप्तेन समन्तात्परिवेष्टितम् ॥१९॥
अयोमुखैश्च काकोलैर्गृध्रैश्च समभिद्रुतम्सूचीमुखैस्तथा प्रेतैर्विन्ध्यशैलोपमैर्वृतम् ॥२०॥
मेदोरुधिरयुक्तैश्च छिन्नबाहूरुपाणिभिःनिकृत्तोदरपादैश्च तत्र तत्र प्रवेरितैः ॥२१॥
स तत्कुणपदुर्गन्धमशिवं रोमहर्षणम्जगाम राजा धर्मात्मा मध्ये बहु विचिन्तयन् ॥२२॥
ददर्शोष्णोदकैः पूर्णां नदीं चापि सुदुर्गमाम्असिपत्रवनं चैव निशितक्षुरसंवृतम् ॥२३॥
करम्भवालुकास्तप्ता आयसीश्च शिलाः पृथक्लोहकुम्भीश्च तैलस्य क्वाथ्यमानाः समन्ततः ॥२४॥
कूटशाल्मलिकं चापि दुस्पर्शं तीक्ष्णकण्टकम्ददर्श चापि कौन्तेयो यातनाः पापकर्मिणाम् ॥२५॥
स तं दुर्गन्धमालक्ष्य देवदूतमुवाच हकियदध्वानमस्माभिर्गन्तव्यमिदमीदृशम् ॥२६॥
क्व च ते भ्रातरो मह्यं तन्ममाख्यातुमर्हसिदेशोऽयं कश्च देवानामेतदिच्छामि वेदितुम् ॥२७॥
स संनिववृते श्रुत्वा धर्मराजस्य भाषितम्देवदूतोऽब्रवीच्चैनमेतावद्गमनं तव ॥२८॥
निवर्तितव्यं हि मया तथास्म्युक्तो दिवौकसैःयदि श्रान्तोऽसि राजेन्द्र त्वमथागन्तुमर्हसि ॥२९॥
युधिष्ठिरस्तु निर्विण्णस्तेन गन्धेन मूर्छितःनिवर्तने धृतमनाः पर्यावर्तत भारत ॥३०॥
स संनिवृत्तो धर्मात्मा दुःखशोकसमन्वितःशुश्राव तत्र वदतां दीना वाचः समन्ततः ॥३१॥
भो भो धर्मज राजर्षे पुण्याभिजन पाण्डवअनुग्रहार्थमस्माकं तिष्ठ तावन्मुहूर्तकम् ॥३२॥
आयाति त्वयि दुर्धर्षे वाति पुण्यः समीरणःतव गन्धानुगस्तात येनास्मान्सुखमागमत् ॥३३॥
ते वयं पार्थ दीर्घस्य कालस्य पुरुषर्षभसुखमासादयिष्यामस्त्वां दृष्ट्वा राजसत्तम ॥३४॥
संतिष्ठस्व महाबाहो मुहूर्तमपि भारतत्वयि तिष्ठति कौरव्य यातनास्मान्न बाधते ॥३५॥
एवं बहुविधा वाचः कृपणा वेदनावताम्तस्मिन्देशे स शुश्राव समन्ताद्वदतां नृप ॥३६॥
तेषां तद्वचनं श्रुत्वा दयावान्दीनभाषिणाम्अहो कृच्छ्रमिति प्राह तस्थौ स च युधिष्ठिरः ॥३७॥
स ता गिरः पुरस्ताद्वै श्रुतपूर्वाः पुनः पुनःग्लानानां दुःखितानां च नाभ्यजानत पाण्डवः ॥३८॥
अबुध्यमानस्ता वाचो धर्मपुत्रो युधिष्ठिरःउवाच के भवन्तो वै किमर्थमिह तिष्ठथ ॥३९॥
इत्युक्तास्ते ततः सर्वे समन्तादवभाषिरेकर्णोऽहं भीमसेनोऽहमर्जुनोऽहमिति प्रभो ॥४०॥
नकुलः सहदेवोऽहं धृष्टद्युम्नोऽहमित्युतद्रौपदी द्रौपदेयाश्च इत्येवं ते विचुक्रुशुः ॥४१॥
ता वाचः स तदा श्रुत्वा तद्देशसदृशीर्नृपततो विममृशे राजा किं न्विदं दैवकारितम् ॥४२॥
किं नु तत्कलुषं कर्म कृतमेभिर्महात्मभिःकर्णेन द्रौपदेयैर्वा पाञ्चाल्या वा सुमध्यया ॥४३॥
य इमे पापगन्धेऽस्मिन्देशे सन्ति सुदारुणेन हि जानामि सर्वेषां दुष्कृतं पुण्यकर्मणाम् ॥४४॥
किं कृत्वा धृतराष्ट्रस्य पुत्रो राजा सुयोधनःतथा श्रिया युतः पापः सह सर्वैः पदानुगैः ॥४५॥
महेन्द्र इव लक्ष्मीवानास्ते परमपूजितःकस्येदानीं विकारोऽयं यदिमे नरकं गताः ॥४६॥
सर्वधर्मविदः शूराः सत्यागमपरायणाःक्षात्रधर्मपराः प्राज्ञा यज्वानो भूरिदक्षिणाः ॥४७॥
किं नु सुप्तोऽस्मि जागर्मि चेतयानो न चेतयेअहो चित्तविकारोऽयं स्याद्वा मे चित्तविभ्रमः ॥४८॥
एवं बहुविधं राजा विममर्श युधिष्ठिरःदुःखशोकसमाविष्टश्चिन्ताव्याकुलितेन्द्रियः ॥४९॥
क्रोधमाहारयच्चैव तीव्रं धर्मसुतो नृपःदेवांश्च गर्हयामास धर्मं चैव युधिष्ठिरः ॥५०॥
स तीव्रगन्धसंतप्तो देवदूतमुवाच हगम्यतां भद्र येषां त्वं दूतस्तेषामुपान्तिकम् ॥५१॥
न ह्यहं तत्र यास्यामि स्थितोऽस्मीति निवेद्यताम्मत्संश्रयादिमे दूत सुखिनो भ्रातरो हि मे ॥५२॥
इत्युक्तः स तदा दूतः पाण्डुपुत्रेण धीमताजगाम तत्र यत्रास्ते देवराजः शतक्रतुः ॥५३॥
निवेदयामास च तद्धर्मराजचिकीर्षितम्यथोक्तं धर्मपुत्रेण सर्वमेव जनाधिप ॥५४॥
End of chapter ॥
1
Mahabharata · Svargarohana Parva

Adhyaya 2

0
Adhyaya 2Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0