Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Svargarohana Parva
जनमेजय उवाच
भीष्मद्रोणौ महात्मानौ धृतराष्ट्रश्च पार्थिवःविराटद्रुपदौ चोभौ शङ्खश्चैवोत्तरस्तथा ॥१॥
धृष्टकेतुर्जयत्सेनो राजा चैव स सत्यजित्दुर्योधनसुताश्चैव शकुनिश्चैव सौबलः ॥२॥
कर्णपुत्राश्च विक्रान्ता राजा चैव जयद्रथःघटोत्कचादयश्चैव ये चान्ये नानुकीर्तिताः ॥३॥
ये चान्ये कीर्तितास्तत्र राजानो दीप्तमूर्तयःस्वर्गे कालं कियन्तं ते तस्थुस्तदपि शंस मे ॥४॥
आहोस्विच्छाश्वतं स्थानं तेषां तत्र द्विजोत्तमअन्ते वा कर्मणः कां ते गतिं प्राप्ता नरर्षभाःएतदिच्छाम्यहं श्रोतुं प्रोच्यमानं त्वया द्विज ॥५॥
सूत उवाच
इत्युक्तः स तु विप्रर्षिरनुज्ञातो महात्मनाव्यासेन तस्य नृपतेराख्यातुमुपचक्रमे ॥६॥
वैशंपायन उवाच
गन्तव्यं कर्मणामन्ते सर्वेण मनुजाधिपशृणु गुह्यमिदं राजन्देवानां भरतर्षभयदुवाच महातेजा दिव्यचक्षुः प्रतापवान् ॥७॥
मुनिः पुराणः कौरव्य पाराशर्यो महाव्रतःअगाधबुद्धिः सर्वज्ञो गतिज्ञः सर्वकर्मणाम् ॥८॥
वसूनेव महातेजा भीष्मः प्राप महाद्युतिःअष्टावेव हि दृश्यन्ते वसवो भरतर्षभ ॥९॥
बृहस्पतिं विवेशाथ द्रोणो ह्यङ्गिरसां वरम्कृतवर्मा तु हार्दिक्यः प्रविवेश मरुद्गणम् ॥१०॥
सनत्कुमारं प्रद्युम्नः प्रविवेश यथागतम्धृतराष्ट्रो धनेशस्य लोकान्प्राप दुरासदान् ॥११॥
धृतराष्ट्रेण सहिता गान्धारी च यशस्विनीपत्नीभ्यां सहितः पाण्डुर्महेन्द्रसदनं ययौ ॥१२॥
विराटद्रुपदौ चोभौ धृष्टकेतुश्च पार्थिवःनिशठाक्रूरसाम्बाश्च भानुः कम्पो विडूरथः ॥१३॥
भूरिश्रवाः शलश्चैव भूरिश्च पृथिवीपतिःउग्रसेनस्तथा कंसो वसुदेवश्च वीर्यवान् ॥१४॥
उत्तरश्च सह भ्रात्रा शङ्खेन नरपुंगवःविश्वेषां देवतानां ते विविशुर्नरसत्तमाः ॥१५॥
वर्चा नाम महातेजाः सोमपुत्रः प्रतापवान्सोऽभिमन्युर्नृसिंहस्य फल्गुनस्य सुतोऽभवत् ॥१६॥
स युद्ध्वा क्षत्रधर्मेण यथा नान्यः पुमान्क्वचित्विवेश सोमं धर्मात्मा कर्मणोऽन्ते महारथः ॥१७॥
आविवेश रविं कर्णः पितरं पुरुषर्षभद्वापरं शकुनिः प्राप धृष्टद्युम्नस्तु पावकम् ॥१८॥
धृतराष्ट्रात्मजाः सर्वे यातुधाना बलोत्कटाःऋद्धिमन्तो महात्मानः शस्त्रपूता दिवं गताःधर्ममेवाविशत्क्षत्ता राजा चैव युधिष्ठिरः ॥१९॥
अनन्तो भगवान्देवः प्रविवेश रसातलम्पितामहनियोगाद्धि यो योगाद्गामधारयत् ॥२०॥
षोडशस्त्रीसहस्राणि वासुदेवपरिग्रहःन्यमज्जन्त सरस्वत्यां कालेन जनमेजयताश्चाप्यप्सरसो भूत्वा वासुदेवमुपागमन् ॥२१॥
हतास्तस्मिन्महायुद्धे ये वीरास्तु महारथाःघटोत्कचादयः सर्वे देवान्यक्षांश्च भेजिरे ॥२२॥
दुर्योधनसहायाश्च राक्षसाः परिकीर्तिताःप्राप्तास्ते क्रमशो राजन्सर्वलोकाननुत्तमान् ॥२३॥
भवनं च महेन्द्रस्य कुबेरस्य च धीमतःवरुणस्य तथा लोकान्विविशुः पुरुषर्षभाः ॥२४॥
एतत्ते सर्वमाख्यातं विस्तरेण महाद्युतेकुरूणां चरितं कृत्स्नं पाण्डवानां च भारत ॥२५॥
सूत उवाच
एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयःविस्मितोऽभवदत्यर्थं यज्ञकर्मान्तरेष्वथ ॥२६॥
ततः समापयामासुः कर्म तत्तस्य याजकाःआस्तीकश्चाभवत्प्रीतः परिमोक्ष्य भुजंगमान् ॥२७॥
ततो द्विजातीन्सर्वांस्तान्दक्षिणाभिरतोषयत्पूजिताश्चापि ते राज्ञा ततो जग्मुर्यथागतम् ॥२८॥
विसर्जयित्वा विप्रांस्तान्राजापि जनमेजयःततस्तक्षशिलायाः स पुनरायाद्गजाह्वयम् ॥२९॥
एतत्ते सर्वमाख्यातं वैशंपायनकीर्तितम्व्यासाज्ञया समाख्यातं सर्पसत्रे नृपस्य ह ॥३०॥
पुण्योऽयमितिहासाख्यः पवित्रं चेदमुत्तमम्कृष्णेन मुनिना विप्र नियतं सत्यवादिना ॥३१॥
सर्वज्ञेन विधिज्ञेन धर्मज्ञानवता सताअतीन्द्रियेण शुचिना तपसा भावितात्मना ॥३२॥
ऐश्वर्ये वर्तता चैव सांख्ययोगविदा तथानैकतन्त्रविबुद्धेन दृष्ट्वा दिव्येन चक्षुषा ॥३३॥
कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम्अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् ॥३४॥
य इदं श्रावयेद्विद्वान्सदा पर्वणि पर्वणिधूतपाप्मा जितस्वर्गो ब्रह्मभूयाय गच्छति ॥३५॥
यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततःअक्षय्यमन्नपानं वै पितॄंस्तस्योपतिष्ठते ॥३६॥
अह्ना यदेनः कुरुते इन्द्रियैर्मनसापि वामहाभारतमाख्याय पश्चात्संध्यां प्रमुच्यते ॥३७॥
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभयदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ॥३८॥
जयो नामेतिहासोऽयं श्रोतव्यो भूतिमिच्छताराज्ञा राजसुतैश्चापि गर्भिण्या चैव योषिता ॥३९॥
स्वर्गकामो लभेत्स्वर्गं जयकामो लभेज्जयम्गर्भिणी लभते पुत्रं कन्यां वा बहुभागिनीम् ॥४०॥
अनागतं त्रिभिर्वर्षैः कृष्णद्वैपायनः प्रभुःसंदर्भं भारतस्यास्य कृतवान्धर्मकाम्यया ॥४१॥
नारदोऽश्रावयद्देवानसितो देवलः पितॄन्रक्षो यक्षाञ्शुको मर्त्यान्वैशंपायन एव तु ॥४२॥
इतिहासमिमं पुण्यं महार्थं वेदसंमितम्श्रावयेद्यस्तु वर्णांस्त्रीन्कृत्वा ब्राह्मणमग्रतः ॥४३॥
स नरः पापनिर्मुक्तः कीर्तिं प्राप्येह शौनकगच्छेत्परमिकां सिद्धिमत्र मे नास्ति संशयः ॥४४॥
भारताध्ययनात्पुण्यादपि पादमधीयतःश्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः ॥४५॥
महर्षिर्भगवान्व्यासः कृत्वेमां संहितां पुराश्लोकैश्चतुर्भिर्भगवान्पुत्रमध्यापयच्छुकम् ॥४६॥
मातापितृसहस्राणि पुत्रदारशतानि चसंसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे ॥४७॥
हर्षस्थानसहस्राणि भयस्थानशतानि चदिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥४८॥
ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मेधर्मादर्थश्च कामश्च स किमर्थं न सेव्यते ॥४९॥
न जातु कामान्न भयान्न लोभा;द्धर्मं त्यजेज्जीवितस्यापि हेतोःनित्यो धर्मः सुखदुःखे त्वनित्ये; जीवो नित्यो हेतुरस्य त्वनित्यः ॥५०॥
इमां भारतसावित्रीं प्रातरुत्थाय यः पठेत्स भारतफलं प्राप्य परं ब्रह्माधिगच्छति ॥५१॥
यथा समुद्रो भगवान्यथा च हिमवान्गिरिःख्यातावुभौ रत्ननिधी तथा भारतमुच्यते ॥५२॥
महाभारतमाख्यानं यः पठेत्सुसमाहितःस गच्छेत्परमां सिद्धिमिति मे नास्ति संशयः ॥५३॥
द्वैपायनोष्ठपुटनिःसृतमप्रमेयं; पुण्यं पवित्रमथ पापहरं शिवं चयो भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्करजलैरभिषेचनेन ॥५४॥
The book ends here ॥
1
Mahabharata · Svargarohana Parva

Adhyaya 5

End of chapter ॥
0
Adhyaya 5Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0