Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Sabha Parva
वैशंपायन उवाच
ऋषेस्तद्वचनं श्रुत्वा निशश्वास युधिष्ठिरःचिन्तयन्राजसूयाप्तिं न लेभे शर्म भारत ॥१॥
राजर्षीणां हि तं श्रुत्वा महिमानं महात्मनाम्यज्वनां कर्मभिः पुण्यैर्लोकप्राप्तिं समीक्ष्य च ॥२॥
हरिश्चन्द्रं च राजर्षिं रोचमानं विशेषतःयज्वानं यज्ञमाहर्तुं राजसूयमियेष सः ॥३॥
युधिष्ठिरस्ततः सर्वानर्चयित्वा सभासदःप्रत्यर्चितश्च तैः सर्वैर्यज्ञायैव मनो दधे ॥४॥
स राजसूयं राजेन्द्र कुरूणामृषभः क्रतुम्आहर्तुं प्रवणं चक्रे मनः संचिन्त्य सोऽसकृत् ॥५॥
भूयश्चाद्भुतवीर्यौजा धर्ममेवानुपालयन्किं हितं सर्वलोकानां भवेदिति मनो दधे ॥६॥
अनुगृह्णन्प्रजाः सर्वाः सर्वधर्मविदां वरःअविशेषेण सर्वेषां हितं चक्रे युधिष्ठिरः ॥७॥
एवं गते ततस्तस्मिन्पितरीवाश्वसञ्जनाःन तस्य विद्यते द्वेष्टा ततोऽस्याजातशत्रुता ॥८॥
स मन्त्रिणः समानाय्य भ्रातॄंश्च वदतां वरःराजसूयं प्रति तदा पुनः पुनरपृच्छत ॥९॥
ते पृच्छ्यमानाः सहिता वचोऽर्थ्यं मन्त्रिणस्तदायुधिष्ठिरं महाप्राज्ञं यियक्षुमिदमब्रुवन् ॥१०॥
येनाभिषिक्तो नृपतिर्वारुणं गुणमृच्छतितेन राजापि सन्कृत्स्नं सम्राड्गुणमभीप्सति ॥११॥
तस्य सम्राड्गुणार्हस्य भवतः कुरुनन्दनराजसूयस्य समयं मन्यन्ते सुहृदस्तव ॥१२॥
तस्य यज्ञस्य समयः स्वाधीनः क्षत्रसंपदासाम्ना षडग्नयो यस्मिंश्चीयन्ते संशितव्रतैः ॥१३॥
दर्वीहोमानुपादाय सर्वान्यः प्राप्नुते क्रतून्अभिषेकं च यज्ञान्ते सर्वजित्तेन चोच्यते ॥१४॥
समर्थोऽसि महाबाहो सर्वे ते वशगा वयम्अविचार्य महाराज राजसूये मनः कुरु ॥१५॥
इत्येवं सुहृदः सर्वे पृथक्च सह चाब्रुवन्स धर्म्यं पाण्डवस्तेषां वचः श्रुत्वा विशां पतेधृष्टमिष्टं वरिष्ठं च जग्राह मनसारिहा ॥१६॥
श्रुत्वा सुहृद्वचस्तच्च जानंश्चाप्यात्मनः क्षमम्पुनः पुनर्मनो दध्रे राजसूयाय भारत ॥१७॥
स भ्रातृभिः पुनर्धीमानृत्विग्भिश्च महात्मभिःधौम्यद्वैपायनाद्यैश्च मन्त्रयामास मन्त्रिभिः ॥१८॥
युधिष्ठिर उवाच
इयं या राजसूयस्य सम्राडर्हस्य सुक्रतोःश्रद्दधानस्य वदतः स्पृहा मे सा कथं भवेत् ॥१९॥
वैशंपायन उवाच
एवमुक्तास्तु ते तेन राज्ञा राजीवलोचनइदमूचुर्वचः काले धर्मात्मानं युधिष्ठिरम्अर्हस्त्वमसि धर्मज्ञ राजसूयं महाक्रतुम् ॥२०॥
अथैवमुक्ते नृपतावृत्विग्भिरृषिभिस्तथामन्त्रिणो भ्रातरश्चास्य तद्वचः प्रत्यपूजयन् ॥२१॥
स तु राजा महाप्राज्ञः पुनरेवात्मनात्मवान्भूयो विममृशे पार्थो लोकानां हितकाम्यया ॥२२॥
सामर्थ्ययोगं संप्रेक्ष्य देशकालौ व्ययागमौविमृश्य सम्यक्च धिया कुर्वन्प्राज्ञो न सीदति ॥२३॥
न हि यज्ञसमारम्भः केवलात्मविपत्तयेभवतीति समाज्ञाय यत्नतः कार्यमुद्वहन् ॥२४॥
स निश्चयार्थं कार्यस्य कृष्णमेव जनार्दनम्सर्वलोकात्परं मत्वा जगाम मनसा हरिम् ॥२५॥
अप्रमेयं महाबाहुं कामाज्जातमजं नृषुपाण्डवस्तर्कयामास कर्मभिर्देवसंमितैः ॥२६॥
नास्य किंचिदविज्ञातं नास्य किंचिदकर्मजम्न स किंचिन्न विषहेदिति कृष्णममन्यत ॥२७॥
स तु तां नैष्ठिकीं बुद्धिं कृत्वा पार्थो युधिष्ठिरःगुरुवद्भूतगुरवे प्राहिणोद्दूतमञ्जसा ॥२८॥
शीघ्रगेन रथेनाशु स दूतः प्राप्य यादवान्द्वारकावासिनं कृष्णं द्वारवत्यां समासदत् ॥२९॥
दर्शनाकाङ्क्षिणं पार्थं दर्शनाकाङ्क्षयाच्युतःइन्द्रसेनेन सहित इन्द्रप्रस्थं ययौ तदा ॥३०॥
व्यतीत्य विविधान्देशांस्त्वरावान्क्षिप्रवाहनःइन्द्रप्रस्थगतं पार्थमभ्यगच्छज्जनार्दनः ॥३१॥
स गृहे भ्रातृवद्भ्रात्रा धर्मराजेन पूजितःभीमेन च ततोऽपश्यत्स्वसारं प्रीतिमान्पितुः ॥३२॥
प्रीतः प्रियेण सुहृदा रेमे स सहितस्तदाअर्जुनेन यमाभ्यां च गुरुवत्पर्युपस्थितः ॥३३॥
तं विश्रान्तं शुभे देशे क्षणिनं कल्यमच्युतम्धर्मराजः समागम्य ज्ञापयत्स्वं प्रयोजनम् ॥३४॥
युधिष्ठिर उवाच
प्रार्थितो राजसूयो मे न चासौ केवलेप्सयाप्राप्यते येन तत्ते ह विदितं कृष्ण सर्वशः ॥३५॥
यस्मिन्सर्वं संभवति यश्च सर्वत्र पूज्यतेयश्च सर्वेश्वरो राजा राजसूयं स विन्दति ॥३६॥
तं राजसूयं सुहृदः कार्यमाहुः समेत्य मेतत्र मे निश्चिततमं तव कृष्ण गिरा भवेत् ॥३७॥
केचिद्धि सौहृदादेव दोषं न परिचक्षतेअर्थहेतोस्तथैवान्ये प्रियमेव वदन्त्युत ॥३८॥
प्रियमेव परीप्सन्ते केचिदात्मनि यद्धितम्एवंप्रायाश्च दृश्यन्ते जनवादाः प्रयोजने ॥३९॥
त्वं तु हेतूनतीत्यैतान्कामक्रोधौ व्यतीत्य चपरमं नः क्षमं लोके यथावद्वक्तुमर्हसि ॥४०॥
End of chapter ॥
1
Mahabharata · Sabha Parva

Adhyaya 12

0
Adhyaya 12Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0