Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Sabha Parva
वासुदेव उवाच
एष पार्थ महान्स्वादुः पशुमान्नित्यमम्बुमान्निरामयः सुवेश्माढ्यो निवेशो मागधः शुभः ॥१॥
वैहारो विपुलः शैलो वराहो वृषभस्तथातथैवर्षिगिरिस्तात शुभाश्चैत्यकपञ्चमाः ॥२॥
एते पञ्च महाशृङ्गाः पर्वताः शीतलद्रुमाःरक्षन्तीवाभिसंहत्य संहताङ्गा गिरिव्रजम् ॥३॥
पुष्पवेष्टितशाखाग्रैर्गन्धवद्भिर्मनोरमैःनिगूढा इव लोध्राणां वनैः कामिजनप्रियैः ॥४॥
शूद्रायां गौतमो यत्र महात्मा संशितव्रतःऔशीनर्यामजनयत्काक्षीवादीन्सुतानृषिः ॥५॥
गौतमः क्षयणादस्मादथासौ तत्र वेश्मनिभजते मागधं वंशं स नृपाणामनुग्रहात् ॥६॥
अङ्गवङ्गादयश्चैव राजानः सुमहाबलाःगौतमक्षयमभ्येत्य रमन्ते स्म पुरार्जुन ॥७॥
वनराजीस्तु पश्येमाः प्रियालानां मनोरमाःलोध्राणां च शुभाः पार्थ गौतमौकःसमीपजाः ॥८॥
अर्बुदः शक्रवापी च पन्नगौ शत्रुतापनौस्वस्तिकस्यालयश्चात्र मणिनागस्य चोत्तमः ॥९॥
अपरिहार्या मेघानां मागधेयं मणेः कृतेकौशिको मणिमांश्चैव ववृधाते ह्यनुग्रहम् ॥१०॥
अर्थसिद्धिं त्वनपगां जरासंधोऽभिमन्यतेवयमासादने तस्य दर्पमद्य निहन्म हि ॥११॥
वैशंपायन उवाच
एवमुक्त्वा ततः सर्वे भ्रातरो विपुलौजसःवार्ष्णेयः पाण्डवेयौ च प्रतस्थुर्मागधं पुरम् ॥१२॥
तुष्टपुष्टजनोपेतं चातुर्वर्ण्यजनाकुलम्स्फीतोत्सवमनाधृष्यमासेदुश्च गिरिव्रजम् ॥१३॥
तेऽथ द्वारमनासाद्य पुरस्य गिरिमुच्छ्रितम्बार्हद्रथैः पूज्यमानं तथा नगरवासिभिः ॥१४॥
यत्र माषादमृषभमाससाद बृहद्रथःतं हत्वा माषनालाश्च तिस्रो भेरीरकारयत् ॥१५॥
आनह्य चर्मणा तेन स्थापयामास स्वे पुरेयत्र ताः प्राणदन्भेर्यो दिव्यपुष्पावचूर्णिताः ॥१६॥
मागधानां सुरुचिरं चैत्यकान्तं समाद्रवन्शिरसीव जिघांसन्तो जरासंधजिघांसवः ॥१७॥
स्थिरं सुविपुलं शृङ्गं सुमहान्तं पुरातनम्अर्चितं माल्यदामैश्च सततं सुप्रतिष्ठितम् ॥१८॥
विपुलैर्बाहुभिर्वीरास्तेऽभिहत्याभ्यपातयन्ततस्ते मागधं दृष्ट्वा पुरं प्रविविशुस्तदा ॥१९॥
एतस्मिन्नेव काले तु जरासंधं समर्चयन्पर्यग्नि कुर्वंश्च नृपं द्विरदस्थं पुरोहिताः ॥२०॥
स्नातकव्रतिनस्ते तु बाहुशस्त्रा निरायुधाःयुयुत्सवः प्रविविशुर्जरासंधेन भारत ॥२१॥
भक्ष्यमाल्यापणानां च ददृशुः श्रियमुत्तमाम्स्फीतां सर्वगुणोपेतां सर्वकामसमृद्धिनीम् ॥२२॥
तां तु दृष्ट्वा समृद्धिं ते वीथ्यां तस्यां नरोत्तमाःराजमार्गेण गच्छन्तः कृष्णभीमधनंजयाः ॥२३॥
बलाद्गृहीत्वा माल्यानि मालाकारान्महाबलाःविरागवसनाः सर्वे स्रग्विणो मृष्टकुण्डलाः ॥२४॥
निवेशनमथाजग्मुर्जरासंधस्य धीमतःगोवासमिव वीक्षन्तः सिंहा हैमवता यथा ॥२५॥
शैलस्तम्भनिभास्तेषां चन्दनागुरुभूषिताःअशोभन्त महाराज बाहवो बाहुशालिनाम् ॥२६॥
तान्दृष्ट्वा द्विरदप्रख्याञ्शालस्कन्धानिवोद्गतान्व्यूढोरस्कान्मागधानां विस्मयः समजायत ॥२७॥
ते त्वतीत्य जनाकीर्णास्तिस्रः कक्ष्या नरर्षभाःअहंकारेण राजानमुपतस्थुर्महाबलाः ॥२८॥
तान्पाद्यमधुपर्कार्हान्मानार्हान्सत्कृतिं गतान्प्रत्युत्थाय जरासंध उपतस्थे यथाविधि ॥२९॥
उवाच चैतान्राजासौ स्वागतं वोऽस्त्विति प्रभुःतस्य ह्येतद्व्रतं राजन्बभूव भुवि विश्रुतम् ॥३०॥
स्नातकान्ब्राह्मणान्प्राप्ताञ्श्रुत्वा स समितिंजयःअप्यर्धरात्रे नृपतिः प्रत्युद्गच्छति भारत ॥३१॥
तांस्त्वपूर्वेण वेषेण दृष्ट्वा नृपतिसत्तमःउपतस्थे जरासंधो विस्मितश्चाभवत्तदा ॥३२॥
ते तु दृष्ट्वैव राजानं जरासंधं नरर्षभाःइदमूचुरमित्रघ्नाः सर्वे भरतसत्तम ॥३३॥
स्वस्त्यस्तु कुशलं राजन्निति सर्वे व्यवस्थिताःतं नृपं नृपशार्दूल विप्रैक्षन्त परस्परम् ॥३४॥
तानब्रवीज्जरासंधस्तदा यादवपाण्डवान्आस्यतामिति राजेन्द्र ब्राह्मणच्छद्मसंवृतान् ॥३५॥
अथोपविविशुः सर्वे त्रयस्ते पुरुषर्षभाःसंप्रदीप्तास्त्रयो लक्ष्म्या महाध्वर इवाग्नयः ॥३६॥
तानुवाच जरासंधः सत्यसंधो नराधिपःविगर्हमाणः कौरव्य वेषग्रहणकारणात् ॥३७॥
न स्नातकव्रता विप्रा बहिर्माल्यानुलेपनाःभवन्तीति नृलोकेऽस्मिन्विदितं मम सर्वशः ॥३८॥
ते यूयं पुष्पवन्तश्च भुजैर्ज्याघातलक्षणैःबिभ्रतः क्षात्रमोजश्च ब्राह्मण्यं प्रतिजानथ ॥३९॥
एवं विरागवसना बहिर्माल्यानुलेपनाःसत्यं वदत के यूयं सत्यं राजसु शोभते ॥४०॥
चैत्यकं च गिरेः शृङ्गं भित्त्वा किमिव सद्म नःअद्वारेण प्रविष्टाः स्थ निर्भया राजकिल्बिषात् ॥४१॥
कर्म चैतद्विलिङ्गस्य किं वाद्य प्रसमीक्षितम्वदध्वं वाचि वीर्यं च ब्राह्मणस्य विशेषतः ॥४२॥
एवं च मामुपस्थाय कस्माच्च विधिनार्हणाम्प्रणीतां नो न गृह्णीत कार्यं किं चास्मदागमे ॥४३॥
एवमुक्तस्ततः कृष्णः प्रत्युवाच महामनाःस्निग्धगम्भीरया वाचा वाक्यं वाक्यविशारदः ॥४४॥
स्नातकव्रतिनो राजन्ब्राह्मणाः क्षत्रिया विशःविशेषनियमाश्चैषामविशेषाश्च सन्त्युत ॥४५॥
विशेषवांश्च सततं क्षत्रियः श्रियमर्छतिपुष्पवत्सु ध्रुवा श्रीश्च पुष्पवन्तस्ततो वयम् ॥४६॥
क्षत्रियो बाहुवीर्यस्तु न तथा वाक्यवीर्यवान्अप्रगल्भं वचस्तस्य तस्माद्बार्हद्रथे स्मृतम् ॥४७॥
स्ववीर्यं क्षत्रियाणां च बाह्वोर्धाता न्यवेशयत्तद्दिदृक्षसि चेद्राजन्द्रष्टास्यद्य न संशयः ॥४८॥
अद्वारेण रिपोर्गेहं द्वारेण सुहृदो गृहम्प्रविशन्ति सदा सन्तो द्वारं नो वर्जितं ततः ॥४९॥
कार्यवन्तो गृहानेत्य शत्रुतो नार्हणां वयम्प्रतिगृह्णीम तद्विद्धि एतन्नः शाश्वतं व्रतम् ॥५०॥
End of chapter ॥
1
Mahabharata · Sabha Parva

Adhyaya 19

0
Adhyaya 19Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0