Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Sabha Parva
वैशंपायन उवाच
तं विजित्य महाबाहुः कुन्तीपुत्रो धनंजयःप्रययावुत्तरां तस्माद्दिशं धनदपालिताम् ॥१॥
अन्तर्गिरिं च कौन्तेयस्तथैव च बहिर्गिरिम्तथोपरिगिरिं चैव विजिग्ये पुरुषर्षभः ॥२॥
विजित्य पर्वतान्सर्वान्ये च तत्र नराधिपाःतान्वशे स्थापयित्वा स रत्नान्यादाय सर्वशः ॥३॥
तैरेव सहितः सर्वैरनुरज्य च तान्नृपान्कुलूतवासिनं राजन्बृहन्तमुपजग्मिवान् ॥४॥
मृदङ्गवरनादेन रथनेमिस्वनेन चहस्तिनां च निनादेन कम्पयन्वसुधामिमाम् ॥५॥
ततो बृहन्तस्तरुणो बलेन चतुरङ्गिणानिष्क्रम्य नगरात्तस्माद्योधयामास पाण्डवम् ॥६॥
सुमहान्संनिपातोऽभूद्धनंजयबृहन्तयोःन शशाक बृहन्तस्तु सोढुं पाण्डवविक्रमम् ॥७॥
सोऽविषह्यतमं ज्ञात्वा कौन्तेयं पर्वतेश्वरःउपावर्तत दुर्मेधा रत्नान्यादाय सर्वशः ॥८॥
स तद्राज्यमवस्थाप्य कुलूतसहितो ययौसेनाबिन्दुमथो राजन्राज्यादाशु समाक्षिपत् ॥९॥
मोदापुरं वामदेवं सुदामानं सुसंकुलम्कुलूतानुत्तरांश्चैव तांश्च राज्ञः समानयत् ॥१०॥
तत्रस्थः पुरुषैरेव धर्मराजस्य शासनात्व्यजयद्धनंजयो राजन्देशान्पञ्च प्रमाणतः ॥११॥
स दिवःप्रस्थमासाद्य सेनाबिन्दोः पुरं महत्बलेन चतुरङ्गेण निवेशमकरोत्प्रभुः ॥१२॥
स तैः परिवृतः सर्वैर्विष्वगश्वं नराधिपम्अभ्यगच्छन्महातेजाः पौरवं पुरुषर्षभः ॥१३॥
विजित्य चाहवे शूरान्पार्वतीयान्महारथान्ध्वजिन्या व्यजयद्राजन्पुरं पौरवरक्षितम् ॥१४॥
पौरवं तु विनिर्जित्य दस्यून्पर्वतवासिनःगणानुत्सवसंकेतानजयत्सप्त पाण्डवः ॥१५॥
ततः काश्मीरकान्वीरान्क्षत्रियान्क्षत्रियर्षभःव्यजयल्लोहितं चैव मण्डलैर्दशभिः सह ॥१६॥
ततस्त्रिगर्तान्कौन्तेयो दार्वान्कोकनदाश्च येक्षत्रिया बहवो राजन्नुपावर्तन्त सर्वशः ॥१७॥
अभिसारीं ततो रम्यां विजिग्ये कुरुनन्दनःउरशावासिनं चैव रोचमानं रणेऽजयत् ॥१८॥
ततः सिंहपुरं रम्यं चित्रायुधसुरक्षितम्प्रामथद्बलमास्थाय पाकशासनिराहवे ॥१९॥
ततः सुह्मांश्च चोलांश्च किरीटी पाण्डवर्षभःसहितः सर्वसैन्येन प्रामथत्कुरुनन्दनः ॥२०॥
ततः परमविक्रान्तो बाह्लीकान्कुरुनन्दनःमहता परिमर्देन वशे चक्रे दुरासदान् ॥२१॥
गृहीत्वा तु बलं सारं फल्गु चोत्सृज्य पाण्डवःदरदान्सह काम्बोजैरजयत्पाकशासनिः ॥२२॥
प्रागुत्तरां दिशं ये च वसन्त्याश्रित्य दस्यवःनिवसन्ति वने ये च तान्सर्वानजयत्प्रभुः ॥२३॥
लोहान्परमकाम्बोजानृषिकानुत्तरानपिसहितांस्तान्महाराज व्यजयत्पाकशासनिः ॥२४॥
ऋषिकेषु तु संग्रामो बभूवातिभयंकरःतारकामयसंकाशः परमर्षिकपार्थयोः ॥२५॥
स विजित्य ततो राजन्नृषिकान्रणमूर्धनिशुकोदरसमप्रख्यान्हयानष्टौ समानयत्मयूरसदृशानन्यानुभयानेव चापरान् ॥२६॥
स विनिर्जित्य संग्रामे हिमवन्तं सनिष्कुटम्श्वेतपर्वतमासाद्य न्यवसत्पुरुषर्षभः ॥२७॥
End of chapter ॥
1
Mahabharata · Sabha Parva

Adhyaya 24

0
Adhyaya 24Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0